मत्स्य पुराण दो सौ तैंतालीसवाँ अध्याय
शुभा शुभ शकुनों का निरूपण
मनुरुवाच
गमनं प्रति राज्ञां तु सम्मुखादर्शने च किम् ।
प्रशस्तांश्चैव सम्भाष्य सर्वानेतांश्च कीर्तय ॥ १
मत्स्य उवाच
औषधानि त्वयुक्तानि धान्यं कृष्णं च यद् भवेत् ।
कार्पासश्च तृणं राजशुष्कं गोमयमेव च ॥ २
इन्धनं च तथाङ्गारं गुडं तैलं तथाशुभम्।
अभ्यक्तं मलिनं मुण्डं तथा नग्नं च मानवम् ॥ ३
मुक्तकेशं रुजार्तं च काषायाम्बरधारिणम् ।
उन्मत्तकं तथा सत्त्वं दीनं चाथ नपुंसकम् ॥ ४
अयः पङ्कस्तथा चर्म केशबन्धनमेव च।
तथैवोद्धृतसाराणि पिण्याकादीनि यानि च ॥ ५
चण्डालश्वपचाश्चैव राजबन्धनपालकाः ।
वधकाः पापकर्माणो गर्भिणी स्त्री तथैव च ॥ ६
तुषभस्मकपालास्थि भिन्नभाण्डानि यानि च।
रिक्तानि चैव भाण्डानि मृतं शाङ्गिकमेव च ॥ ७
एवमादीनि चान्यानि अशस्तान्यभिदर्शने।
अशस्तो वाद्यशब्दश्च भिन्नभैरवजर्जरः ॥ ८
पुरतः शब्द एहीति शस्यते न तु पृष्ठतः ।
गच्छेति पश्चाद् धर्मज्ञ पुरस्तात् तु विगर्हितः ॥ ९
क्व यासि तिष्ठ मा गच्छ किं ते तत्र गतस्य तु ।
अन्ये शब्दाश्च येऽनिष्टास्ते विपत्तिकरा अपि ॥ १०
ध्वजादिषु तथा स्थानं क्रव्यादानां विगर्हितम्।
स्खलनं वाहनानां च वस्त्रसङ्गस्तथैव च ॥११
निर्गतस्य तु द्वारादौ शिरसश्चाभिघातिता।
छत्रध्वजानां वस्त्राणां पतनं च तथाशुभम् ॥ १२
दृष्टे निमित्ते प्रथमममङ्गल्यविनाशनम् ।
केशवं पूजयेद् विद्वान् स्तवेन मधुसूदनम् ॥ १३
द्वितीये तु ततो दृष्टे प्रतीपे प्रविशेद् गृहम् ।
अथेष्टानि प्रवक्ष्यामि मङ्गल्यानि तथानघ ॥ १४
श्वेताः सुमनसः श्रेष्ठाः पूर्णकुम्भास्तथैव च ।
जलजाः पक्षिणश्चैव मांसमत्स्याश्च पार्थिव ।। १५
गावस्तुरंगमा नागा बद्ध एकः पशुस्त्वजः ।
त्रिदशाः सुहृदो विप्रा ज्वलितश्च हुताशनः ॥ १६
गणिका च महाभाग दूर्वा चार्द्र च गोमयम्।
रुक्यं रूप्यं तथा तानं सर्वरत्नानि चाप्यथ ॥ १७
औषधानि च धर्मज्ञ यवाः सिद्धार्थकास्तथा ।
नृवाह्यमानं यानं च भद्रपीठं तथैव च ॥ १८
खड्गं छत्रं पताका च मृदश्चायुधमेव च।
राजलिङ्गानि सर्वाणि शवं रुदितवर्जितम् ॥ १९
घृतं दधि पयश्चैव फलानि विविधानि च।
स्वस्तिकं वर्धमानं च नन्द्यावर्ते सकौस्तुभम् ॥ २०
वादित्राणां सुखः शब्दो गम्भीरः सुमनोहरः ।
गान्धारषड्जऋषभा ये च शस्तास्तथा स्वराः ॥ २१
वायुः सशर्करो रूक्षः सर्वत्र समुपस्थितः ।
प्रतिलोमस्तथा नीचो विज्ञेयो भयकृद् द्विज ॥ २२
अनुकूलो मृदुः स्निग्धः सुखस्पर्शः सुखावहः ।
रूक्षा रूक्षस्वरा भद्राः क्रव्यादाः परिगच्छताम् ॥ २३
मेघाः शस्ता घनाः स्निग्धा गजबृंहितनिःस्वनाः ।
अनुलोमास्तडिच्छस्ताः शक्रचापं तथैव च ॥ २४
अप्रशस्ते तथा ज्ञेये परिवेषप्रवर्षणे।
अप्रशस्ते तथा ज्ञेये परिवेषप्रवर्षणे।
अनुलोमा ग्रहाः शस्ता वाक्यतिस्तु विशेषतः ॥ २५
आस्तिक्यं श्रद्दधानत्वं तथा पूज्याभिपूजनम् ।
शस्तान्येतानि धर्मज्ञ यच्च स्यान्मनसः प्रियम् ॥ २६
मनसस्तुष्टिरेवात्र परमं जयलक्षणम् ।
एकतः सर्वलिङ्गानि मनसस्तुष्टिरेकतः ॥ २७
यानोत्सुकत्वं मनसः प्रहर्षः शुभस्य लाभो विजयप्रवादः ।
मङ्गल्यलब्धिः श्रवणं च राजन् ज्ञेयानि नित्यं विजयावहानि ॥ २८
इति श्रीमात्ये महापुराणे यात्रानिमित्ते मङ्गलाध्यायो नाम त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २४३ ॥
इस प्रकार श्रीमत्स्यमहापुराणके यात्रा-प्रसंगमें मङ्गलाध्याय नामक दो सी तैंतालीसवाँ अध्याय सम्पूर्ण हुआ ॥ २४३ ॥
टिप्पणियाँ