लिंग पुराण : ऐश्वर्य प्रद महा लक्ष्मी दान विधि | Linga Purana: Aishwarya Prada Maha Lakshmi Donation Method
श्रीलिङ्गमहापुराण उत्तरभाग छत्तीसवाँ अध्याय
ऐश्वर्यप्रद महालक्ष्मीदान विधि
सनत्कुमार उवाच
लक्ष्मीदानं प्रवक्ष्यामि महदैश्वर्यवर्धनम्।
पूर्वोक्तमण्डपे कार्य वेदिकोपरिमण्डले ॥ १
श्रीदेवीमतुलां कृत्वा हिरण्येन यथाविधि।
सहस्त्रेण तदर्धेन तदर्धार्थेन वा पुनः ॥ २
अष्टोत्तरशतेनापि सर्वलक्षणसंयुताम् ।
मण्डले विन्यसेल्लक्ष्मीं सर्वालङ्कारसंयुताम् ॥ ३
तस्यास्तु दक्षिणे भागे स्थण्डिले विष्णुमर्चयेत् ।
अर्चयित्वा विधानेन श्रीसूक्तेन सुरेश्वरीम् ॥ ४
अर्चयेद्विष्णुगायत्र्या विष्णुं विश्वगुरुं हरिम्।
आराध्य विधिना देवीं पूर्ववद्धोममाचरेत् ॥ ५
समिद्धत्वा विधानेन आज्याहुतिमथाचरेत्।
पृथगष्टोत्तरशतं होमयेद्ब्राह्मणोत्तमैः ॥ ६
आहूय यजमानं तु तस्याः पूर्वदिशि स्थले।
तस्मै तां दर्शयेद्देवीं दण्डवत्प्रणमेत्क्षितौ ॥ ७
प्रणम्य विष्णुं तत्रस्थं शिवं पूर्ववदर्चयेत्।
तस्या विंशतिभागं तु दक्षिणा परिकीर्तिता ॥ ८
तदर्थांशं तु दातव्यमितरेषां यथार्हतः ।
ततस्तु होमयेच्छम्भु भक्तो योगी विशेषतः ॥ ९
॥ इति श्रीलिङ्गमहापुराणे उत्तरभागे लक्ष्मीदानविधिनिरूपणं नाम षट्त्रिंशत्तमोऽध्यायः ॥ ३६ ॥
॥ इस प्रकार श्रीलिङ्गमहापुराणके अन्तर्गत उत्तरभागमें 'लक्ष्मीदानविधिनिरूपण नामक छत्तीसवाँ अध्याय पूर्ण हुआ ॥ ३६ ॥
टिप्पणियाँ