लिंग पुराण : माहेश्वर योग का प्रतिपादन, अट्ठाईस व्यासों तथा चौदह मनुओं की नामावली, विभिन्न युगों में हुए माहेश्वर योगावतारों का वर्णन
लिंग पुराण : सातवाँ अध्याय
माहेश्वर योग का प्रतिपादन, अट्ठाईस व्यासों तथा चौदह मनुओं की नामावली, विभिन्न युगों में हुए माहेश्वरयोगावतारों का वर्णन
सूत उवाच
रहस्यं वः प्रवक्ष्यामि भवस्यामिततेजसः ।
प्रभावं शङ्करस्याद्यं सङ्क्षेपात् सर्वदर्शिनः ॥ १
योगिनः सर्वतत्त्वज्ञाः परं वैराग्यमास्थिताः ।
प्राणायामादिभिश्चाष्टसाधनैः सहचारिणः ॥ २
करुणादिगुणोपेताः कृत्वापि विविधानि ते।
कर्माणि नरकं स्वर्गं गच्छन्त्येव स्वकर्मणा ॥ ३
प्रसादाज्जायते ज्ञानं ज्ञानाद् योगः प्रवर्तते।
योगेन जायते मुक्तिः प्रसादादखिलं ततः ॥४
प्रसादाद् यदि विज्ञानं स्वरूपं वक्तुमर्हसि।
दिव्यं माहेश्वरञ्चैव योगं योगविदां वर ॥ ५
कथं करोति भगवान् चिन्तया रहितः शिवः ।
प्रसादं योगमार्गेण कस्मिन् काले नृणां विभुः ॥ ६
रोमहर्षण उवाच
देवानाञ्च ऋषीणाञ्च पितॄणां सन्निधी पुरा।
शैलादिना तु कथितं शृण्वन्तु ब्रह्मसूनवे ॥ ७
व्यासावताराणि तथा द्वापरान्ते च सुव्रताः।
योगाचार्यावताराणि तथा तिष्ये तु शूलिनः ॥ ८
तत्र तत्र विभोः शिष्याश्चत्वारः शमभाजनाः ।
प्रशिष्या बहवस्तेषां प्रसीदत्येवमीश्वरः ॥ ९
एवं क्रमागतं ज्ञानं मुखादेव नृणां विभोः।
वैश्यान्तं ब्राह्मणाद्यं हि घृणया चानुरूपतः ॥ १०
ऋषय ऊचुः
द्वापरे द्वापरे व्यासाः के वै कुत्रान्तरेषु वै।
कल्पेषु कस्मिन् कल्पे नो वक्तुमर्हसि चात्र तान् ॥ ११
सूत उवाच
शृण्वन्तु कल्पे वाराहे द्विजा वैवस्वतान्तरे।
व्यासांश्च साम्प्रतं रुद्रांस्तथा सर्वान्तरेषु वै ॥ १२
वेदानाञ्च पुराणानां तथा ज्ञानप्रदर्शकान् ।
यथाक्रमं प्रवक्ष्यामि सर्वावर्तेषु साम्प्रतम् ॥ १३
क्रतुः सत्यो भार्गवश्च अङ्गिराः सविता द्विजाः ।
मृत्युः शतक्रतुर्थीमान् वसिष्ठो मुनिपुङ्गवः ॥ १४
सारस्वतस्त्रिधामा च त्रिवृतो मुनिपुङ्गवः ।
शततेजाः स्वयं धर्मो नारायण इति श्रुतः ॥ १५
तरक्षुश्चारुणिर्धीमांस्तथा देवः कृतञ्जयः।
ऋतञ्जयो भरद्वाजो गौतमः कविसत्तमः ॥ १६
वाचः श्रवाः मुनिः साक्षात्तथा शुष्मायणिः शुचिः ।
तृणबिन्दुर्मुनी रुक्षः शक्तिः शाक्तेय उत्तरः ॥ १७
जातूकण्यों हरिः साक्षात् कृष्णद्वैपायनो मुनिः ।
व्यासास्त्वेते च शृण्वन्तु कलौ योगेश्वरान् क्रमात् ॥ १८
असंख्याता हि कल्पेषु विभोः सर्वान्तरेषु च।
कली रुद्रावताराणां व्यासानां किल गौरवात् ॥ १९
वैवस्वतान्तरे कल्पे वाराहे ये च तान् पुनः।
अवतारान् प्रवक्ष्यामि तथा सर्वान्तरेषु वै ॥ २०
ऋषय ऊचुः
मन्वन्तराणि वाराहे वक्तुमर्हसि साम्प्रतम्।
तथैव चोर्ध्वकल्पेषु सिद्धान् वैवस्वतान्तरे ॥ २१
रोमहर्षण उवाच
मनुः स्वायम्भुवस्त्वाद्यस्ततः स्वारोचिषो द्विजाः ।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ २२
औकारान्ता अकाराद्या मनवः परिकीर्तिताः ।
श्वेतः पाण्डुस्तथा रक्तस्ताम्रः पीतश्च कापिलः ॥ २४
कृष्णः श्यामस्तथा धूम्रः सुधूम्रश्च द्विजोत्तमाः ।
अपिशङ्गः पिशङ्गश्च त्रिवर्णः शबलस्तथा ।। २५
कालन्धुरस्तु कथिता वर्णतो मनवः शुभाः।
नामतो वर्णतश्चैव वर्णतः पुनरेव च ॥ २६
स्वरात्मानः समाख्याताश्चान्तरेशाः समासतः ।
वैवस्वत ऋकारस्तु मनुः कृष्णः सुरेश्वरः ॥ २७
सप्तमस्तस्य वक्ष्यामि युगावर्तेषु योगिनः।
समतीतेषु कल्पेषु तथा चानागतेषु वै ॥ २८
वाराहः साम्प्रतं ज्ञेयः सप्तमान्तरतः क्रमात्।
योगावतारांश्च विभोः शिष्याणां सन्ततिस्तथा ।। २९
सम्प्रेक्ष्य सर्वकालेषु तथावर्तेषु योगिनाम् ।
आद्ये श्वेतः कलौ रुद्रः सुतारो मदनस्तथा ॥ ३०
सुहोत्रः कङ्कणश्चैव लोगाक्षिर्मुनिसत्तमाः ।
जैगीषव्यो महातेजा भगवान् दधिवाहनः ॥ ३१
ऋषभश्च मुनिर्थीमानुग्रश्चात्रिः सुबालकः ।
गौतमश्चाथ भगवान् सर्वदेवनमस्कृतः ॥ ३२
वेदशीर्षश्च गोकर्णो गुहावासी शिखण्डभृत् ।
जटामाल्यगृहासश्च दारुको लाङ्गली तथा ॥ ३३
महाकायमुनिः शूली दण्डी मुण्डीश्वरः स्वयम् ।
सहिष्णुः सोमशर्मा च नकुलीशो जगद्गुरुः ॥ ३४
वैवस्वतेऽन्तरे सम्यक् प्रोक्ता हि परमात्मनः।
योगाचार्यावतारा ये सर्वांवर्तेषु सुव्रताः ॥ ३५
व्यासाश्चैवं मुनिश्रेष्ठा द्वापरे द्वापरे त्विमे।
योगेश्वराणां चत्वारः शिष्याः प्रत्येकमव्ययाः ॥ ३६
श्वेतः श्वेतशिखण्डी च श्वेताश्वः श्वेतलोहितः ।
दुन्दुभिः शतरूपश्च ऋचीकः केतुमांस्तथा ॥ ३७
विशोकश्च विकेशश्च विपाशः पापनाशनः ।
सुमुखो दुर्मुखश्चैव दुर्दमो दुरतिक्रमः ॥ ३८
सनकश्च सनन्दश्च प्रभुर्थश्च सनातनः ।
ऋभुः सनत्कुमारश्च सुधामा विरजास्तथा ॥ ३९
शङ्खपा द्वैरजश्चैव मेघः सारस्वतस्तथा।
सुवाहनो मुनिश्रेष्ठो मेघवाहो महाद्युतिः ।॥ ४०
कपिलश्चासुरिश्चैव तथा पञ्चशिखो मुनिः ।
वाल्कलश्च महायोगी धर्मात्मानो महौजसः ॥ ४१
पराशरश्च गर्गश्च भार्गवश्चाङ्गिरास्तथा।
बलबन्धुर्निरामित्रः केतुशृङ्गस्तपोधनः ॥ ४२
लम्बोदरश्च लम्बश्च लम्बाक्षो लम्बकेशकः ।
सर्वज्ञः समबुद्धिश्च साध्यः सर्वस्तथैव च ॥ ४३
सुधामा काश्यपश्चैव वासिष्ठो विरजास्तथा।
अत्रिर्देवसदश्चैव श्रवणोऽथ श्रविष्ठकः ।
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ॥ ४४
कश्यपोऽप्युशनाश्चैव च्यवनोऽथ बृहस्पतिः ।
उतथ्यो वामदेवश्च महायोगो महाबलः ।। ४५
वाचःश्रवा सुधीकश्च श्यावाश्वश्च यतीश्वरः ।
हिरण्यनाभः कौशल्यो लोगाक्षिः कुधुमिस्तथा ॥ ४६
सुमन्तुर्बर्बरी विद्वान् कबन्धः कुशिकन्धरः ।
प्लक्षो दाल्भ्यायणिश्चैव केतुमान् गोपनस्तथा ।। ४७
भल्लावी मधुपिङ्गश्च श्वेतकेतुस्तपोनिधिः ।
उशिको बृहदश्वश्च देवलः कविरेव च ॥ ४८
शालिहोत्रोऽग्निवेशश्च युवनाश्वः शरद्वसुः ।
छगलः कुण्डकर्णश्च कुम्भश्चैव प्रवाहकः ॥ ४९
उलूको विद्युतश्चैव मण्डूको ह्याश्वलायनः ।
अक्षपादः कुमारश्च उलूको वत्स एव च ॥५०
कुशिकश्चैव गर्भश्च मित्रः कौरुष्य एव च।
शिष्यास्त्वेते महात्मानः सर्वावर्तेषु योगिनाम् ॥ ५१
विमला ब्रह्मभूयिष्ठा ज्ञानयोगपरायणाः ।
एते पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः ॥ ५२
शिष्याः प्रशिष्याश्चैतेषां शतशोऽथ सहस्त्रशः ।
प्राप्य पाशुपतं योगं रुद्रलोकाय संस्थिताः ॥ ५३
देवादयः पिशाचान्ताः पशवः परिकीर्तिताः ।
तेषां पतित्वात्सर्वेशो भवः पशुपतिः स्मृतः ॥ ५४
तेन प्रणीतो रुद्रेण पशूनां पतिना द्विजाः।
योगः पाशुपतो ज्ञेयः परावरविभूतये ॥ ५५
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे मनुव्यासयोगेश्वरतच्छिष्यकथनं नाम सप्तमोऽध्यायः ॥ ७॥
लिंग पुराण: सातवाँ अध्याय पर अक्सर पूछे जाने वाले प्रश्न (FAQs)
विषय: माहेश्वर योग का प्रतिपादन, अट्ठाईस व्यासों, चौदह मनुओं, और माहेश्वर योगावतारों का वर्णन।
प्रश्न 1: माहेश्वर योग क्या है?
उत्तर:
माहेश्वर योग भगवान शिव के अनुग्रह से प्राप्त एक दिव्य योग है, जो ज्ञान, वैराग्य, और प्राणायाम आदि योग साधनों के माध्यम से मोक्ष प्राप्त करने का मार्ग प्रदान करता है।
प्रश्न 2: भगवान शिव के अनुग्रह से कौन-कौन से लाभ होते हैं?
उत्तर:
भगवान शिव की कृपा से:
- ज्ञान की उत्पत्ति होती है।
- योग में प्रवृत्ति होती है।
- योग के माध्यम से मोक्ष प्राप्त होता है।
- समस्त सिद्धियों और आत्मिक कल्याण की प्राप्ति होती है।
प्रश्न 3: अट्ठाईस व्यास कौन-कौन हैं?
उत्तर:
अट्ठाईस व्यास निम्नलिखित हैं:
- क्रतु
- सत्य
- भार्गव
- अंगिरा
- सविता
- मृत्यु
- शतक्रतु
- वसिष्ठ
- सारस्वत
- त्रिधामा
- त्रिवृत
- शततेजा
- धर्म (स्वयं नारायण)
- तरक्षु
- अरुणि
- देव
- कृतंजय
- ऋतंजय
- भरद्वाज
- गौतम
- वाचःश्रवा
- शुष्मायणि
- तृणबिंदु
- रुक्ष
- शक्ति
- जातूकर्ण्य
- हरि
- कृष्णद्वैपायन
प्रश्न 4: चौदह मनु कौन हैं और उनके नाम कैसे वर्णित हैं?
उत्तर:
चौदह मनु और उनके नाम इस प्रकार हैं:
- स्वायंभुव
- स्वारोचिष
- उत्तम
- तामस
- रैवत
- चाक्षुष
- वैवस्वत
- सावर्णि
- धर्म
- सावर्णिक
- पिशंग
- अपिशंगाभ
- शबल
- वर्णक
इन मनुओं के नाम अकार से औकार तक स्वरात्मक रूप में और श्वेत, पाण्डु, रक्त, ताम्र आदि रंगों के आधार पर दिए गए हैं।
प्रश्न 5: योगाचार्य अवतार कौन-कौन हैं?
उत्तर:
योगाचार्य अवतारों में प्रमुख रूप से शामिल हैं:
- श्वेत
- सुतार
- मदन
- सुहोत्र
- कंकण
- लोगाक्षि
- जैगीषव्य
- दधिवाहन
- ऋषभ
- गौतम
- वेदशीर्ष
- गोकर्ण
- शिखंडभृत
- दारुक
- लांगली
- नकुलीश
प्रश्न 6: भगवान शिव योगमार्ग द्वारा प्राणियों पर कब कृपा करते हैं?
उत्तर:
भगवान शिव प्रत्येक युग के अंत और आवश्यक काल में योगमार्ग द्वारा प्राणियों पर कृपा करते हैं। यह कृपा ज्ञान, ध्यान और योग के माध्यम से प्रकट होती है।
प्रश्न 7: वैवस्वत मनु का क्या महत्व है?
उत्तर:
वैवस्वत मनु, वर्तमान सातवें मनु हैं, जो वैवस्वत मन्वंतर में आते हैं। इनका वर्ण कृष्ण और स्वर ऋकार स्वरूप है।
प्रश्न 8: व्यासों की परंपरा कैसे संचालित होती है?
उत्तर:
व्यासों की परंपरा शिष्य-प्रशिष्य परंपरा के माध्यम से संचालित होती है। वेद, पुराण, और योग का ज्ञान भगवान शिव से प्राप्त होकर, क्रमशः ब्राह्मण, क्षत्रिय, और वैश्यों को सौंपा गया।
प्रश्न 9: महेश्वर योग के अनुयायियों की विशेषताएं क्या हैं?
उत्तर:
महेश्वर योग के अनुयायी:
- सभी तत्वों के ज्ञाता होते हैं।
- वैराग्य में स्थित रहते हैं।
- प्राणायाम और ध्यान का पालन करते हैं।
- करुणा और सहिष्णुता जैसे गुणों से संपन्न होते हैं।
प्रश्न 10: वाराह कल्प और वैवस्वत मन्वंतर में क्या अंतर है?
उत्तर:
- वाराह कल्प संपूर्ण ब्रह्मांडीय कालखंड का नाम है।
- वैवस्वत मन्वंतर, वाराह कल्प के सातवें भाग में आता है।
प्रश्न 11: लिंग पुराण के इस अध्याय में मुख्यतः किन विषयों का वर्णन है?
उत्तर:
इस अध्याय में मुख्य रूप से निम्नलिखित विषयों का वर्णन है:
- माहेश्वर योग की महिमा।
- अट्ठाईस व्यासों और उनकी परंपरा।
- चौदह मनुओं की सूची और उनके स्वरूप।
- महेश्वर योग के अवतार और उनके शिष्य।
प्रश्न 12: भगवान शिव के योगावतार कितने प्रकार के होते हैं?
उत्तर:
भगवान शिव के योगावतार अट्ठाईस प्रकार के होते हैं, जो विभिन्न युगों और मन्वंतरों में योग का प्रचार करते हैं।
click to read 👇👇
टिप्पणियाँ