लिंग पुराण : श्वेतवाराहकल्प के अट्टाईस द्वापरों के अन्त में प्रकट होने वाले अट्टाईंस व्यासों | Linga Purana: The eighty-eight Vyasas appearing at the end of the twenty-eight Dwaparas of the Shvetavarah Kalpa
लिंग पुराण [ पूर्वभाग ] चोबीसवाँ अध्याय
श्वेतवाराहकल्प के अट्टाईस द्वापरों के अन्त में प्रकट होने वाले अट्टाईंस व्यासों, अट्टाईस शिवावता रों तथा विविध शिव योगियों का वर्णन
यूत उवाच
श्रुत्नैवमखिलं ब्रह्मा रुद्रेण परिभाषितम्।
पुनः प्रणम्य देवेशं रुद्रमाह प्रजापति: ॥ ९१
भगवन् देवदेवेश विश्वरूप महेश्वर।
उमाधव महादेव नमो लोकाभिवन्दित॥ २
विश्वरूप महाभाग कस्मिन् काले महेश्वर।
या इमास्ते महादेव तनवो लोकवन्दिता:॥ ३
कस्यां वा युगसम्भूत्यां द्रक्ष्यन्तीह द्विजातय:।
केन वा तपसा देव ध्यानयोगेन केन वा॥ ४
नमस्ते बै महादेव शक्यो द्रष्ट द्विजातिभि:।
तस्य तद्बचनं श्रुत्वा शर्व: सम्प्रेक्ष्य त॑ पुरः॥ ५
स्मयन् प्राह महादेवो ऋग्यजुःसामसम्भवः।
श्रीधगवानुवाच तपसा नेव वृत्तेन दानधर्मफलेन च॥६
न तीर्थफलयोगेन क्रतुभिर्वाप्तदक्षिणैः।
न वेदाध्ययनैर्वापि न वित्तेन न बेदनैः ॥ ७
न शक्यं मानवैर्द्रष्टुमृते ध्यानादहं त्विह।
सप्तमे चैव वाराहे ततस्तस्मिन् पितामह ॥ ८
कल्पेश्वरोऽथ भगवान् सर्वलोकप्रकाशनः ।
मनुर्वैवस्वतश्चैव तव पौत्रो भविष्यति ॥ ९
तदा चतुर्युगावस्थे तस्मिन् कल्पे युगान्तिके।
अनुग्रहार्थं लोकानां ब्राह्मणानां हिताय च ॥ १०
उत्पत्स्यामि तदा ब्रह्मन् पुनरस्मिन् युगान्तिके।
युगप्रवृत्त्या च तदा तस्मिश्च प्रथमे युगे ॥ ११
द्वापरे प्रथमे ब्रह्मन् यदा व्यासः स्वयं प्रभुः ।
तदाहं ब्राह्मणार्थाय कलौ तस्मिन् युगान्तिके ।। १२
भविष्यामि शिखायुक्तः श्वेतो नाम महामुनिः ।
हिमवच्छिखरे रम्ये छागले पर्वतोत्तमे ।। १३
तत्र शिष्याः शिखायुक्ता भविष्यन्ति तदा मम।
श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः ॥ १४
चत्वारस्तु महात्मानो ब्राह्मणा वेदपारगाः।
ततस्ते ब्रह्मभूयिष्ठा दृष्ट्वा ब्रह्मगतिं पराम् ।। १५
मत्समीपं गमिष्यन्ति ध्यानयोगपरायणाः।
ततः पुनर्यदा ब्रह्मन् द्वितीये द्वापरे प्रभुः ॥ १६
प्रजापतिर्यदा व्यासः सद्यो नाम भविष्यति।
तदा लोकहितार्थाय सुतारो नाम नामतः ॥ १७
भविष्यामि कलौ तस्मिन् शिष्यानुग्रहकाम्यया।
तत्रापि मम ते शिष्या नामतः परिकीर्तिताः ॥ १८
दुन्दुभिः शतरूपश्च ऋचीकः केतुमांस्तदा।
प्राप्य योगं तथा ध्यानं स्थाप्य ब्रह्म च भूतले ॥ १९
रुद्रलोकं गमिष्यन्ति सहचारित्वमेव च।
तृतीये द्वापरे चैव यदा व्यासस्तु भार्गवः ॥ २०
तदाप्यहं भविष्यामि दमनस्तु युगान्तिके।
तत्रापि च भविष्यन्ति चत्वारो मम पुत्रकाः ।। २१
विकोशश्च विकेशश्च विपाश: शापनाशन:।
तेडपि तेनैव मार्गेण योगोक्तेन महौजसः:॥ २२
रुद्रलोक॑ गमिष्यन्ति पुनरावृत्तिदुर्लभम।
चतुर्थ द्वापरे चेव यदा व्यासोउड्रिरा: स्मृत:॥ २३
तदाप्यहं भविष्यामि सुहोत्रो नाम नामत:।
तत्रापि मम ते पुत्राश्चत्वारोषपि तपोधना:॥ २४
द्विजश्रेष्ठा भविष्यन्ति योगात्मानो दृढब्रता:।
सुमुखो दुर्मुखश्चेव दुर्दरो दुरतिक्रम: ॥ २५
प्राप्प योगगतिं सूक्ष्मां विमला दग्धकिल्बिषा:।
तेडपि तेनैव मार्गेण योगयुक्ता महौजस:॥ २६
रुद्रलोक॑ गमिष्यन्ति पुनरावृत्तिदुर्लभम्।
पञ्चमे द्वापरे चरेव व्यासस्तु सविता यदा॥ २७
तदा चापि भविष्यामि कड़्जो नाम महातपा:।
अनुग्रहार्थ लोकानां योगात्मैककलागति: ॥ २८
चत्वारस्तु महाभागा विमला: शुद्धयोनय:।
शिष्या मम भविष्यन्ति योगात्मानो दृढब्रता: ॥ २९
सनक: सनन्दनएचेव प्रभुर्यश्च सनातनः।
विभुः सनत्कुमारएच निर्ममा निरहड्ःकृता:॥ ३०
मत्समीपमुपेष्यन्ति पुनरावृत्तिदुर्लभम्।
परिवर्ते पुनः षष्ठे मृत्युरव्यासो यदा विभु:॥ ३१
तदाप्यहं भविष्यामि लोगाक्षिनाम नामतः।
तत्रापि मम ते शिष्या योगात्मानो दूढब्ता:॥ ३२
भविष्यन्ति महाभागाश्चत्वारो लोकसम्मता: ।
सुधामा विरजाश्चैव शद्भुपाद्रज एवं च॥ ३३
योगात्मानो महात्मान: सर्वे वे दग्धकिल्बिषा: ।
तेडपि तेनैव मार्गेण ध्यानयोगसमन्विता:॥ ३४
मत्समीप॑ गमिष्यन्ति पुनरावृत्तिदुर्लभम्।
सप्तमे परिवर्ते तु यदा व्यासः शतक्रतु:॥ ३५
विभुनामा महातेजा: प्रथितः पूर्वजन्मनि।
तदाप्यहं भविष्यामि कलौ तस्मिन् युगान्तिके ॥ ३६
जैगीषव्यो विभु: ख्यातः सर्वेषां योगिनां वर: ।
तत्रापि मम ते पुत्रा भविष्यन्ति युगे तथा॥ ३
सारस्वतश्च मेघएच मेघवाह: सुवाहनः।
तेषपि तेनैव मार्गेण ध्यानयोगपरायणा:॥ ३८
गमिष्यन्ति महात्मानो रुद्रलोकं॑ निरामयम्।
वसिष्ठश्चाष्टमे व्यास: परिवर्ते भविष्यति॥ ३९
यदा तदा भविष्यामि नाम्नाहं दधिवाहनः।
तत्रापि मम ते पुत्रा योगात्मानों दृढब्ता:॥ ४०
भविष्यन्ति महायोगा येषां नास्ति समो भुवि।
कपिलशए्चासुरिश्चैव तथा पञ्चशिखो मुनि: ॥ ४१
बाष्कलएच महायोगी धर्मात्मानो महौजस:।
प्राप्प माहेश्वरं योगं ज्ञानिनो दग्धकिल्बिषा: ॥ ४२
मत्समीपं॑ गमिष्यन्ति पुनरावृत्तिदुर्लभम्।
परिवर्ते तु नवमे व्यास: सारस्वतो यदा॥ ४३
तदाप्यहं भविष्यामि ऋषभो नाम नामतः।
तत्रापि मम ते पुत्रा भविष्यन्ति महौजस: ॥ ४४
पराशरशएच गर्गश्च भार्गवाड्धिससाौ तदा।
भविष्यन्ति महात्मानो ब्राह्मणा वेदपारगा:॥ ४५
ध्यानमार्ग समासाद्य गमिष्यन्ति तथेव ते।
सर्वे तपोबलोत्कृष्टा: शापानुग्रहकोविदा: ॥ ४६
तेडपि तेनैव मार्गेण योगोक्तेन तपस्विन:।
रुद्लोक॑ गमिष्यन्ति पुनरावृत्तिदुर्लभम्॥ ४७
दश्मे द्वापरे व्यास: त्रिपाद्दै नाम नामतः।
यदा भविष्यते विप्रस्तदाहं भविता मुनि:॥ ४८
हिमवच्छिखरे रम्ये भगुतुड़े नगोत्तमे।
नाम्ता भृगोस्तु शिखरं प्रधितं देवपूजितम्॥ ४९
तत्रापि मम ते पुत्रा भविष्यन्ति दृढब्रता:।
बलबश्धुर्निरामित्र: केतुश्रड्डस्तपोधन: ॥ ५०
योगात्मानो महात्मानस्तपोयोगसमन्विता:।
रुद्रलोक॑ गमिष्यन्ति तपसा दग्धकिल्बिषा:॥ ५१
अवतीर्ण होऊँगा तथा महातेजस्वी मैं उग्र नामसे सभी लोकोंमें विख्यात होऊकँगा। उस समय भी लम्बोदर, लम्बाक्ष, लम्बकेश एवं प्रलम्बक नामवाले मेरे चार महातेजस्वी पुत्र होंगे। वे माहेश्वरयोगको प्राप्त होकर रुद्र लोक जायँंगे बारहवें द्वापरयुग के अन्त में जब मुनि 'शततेजा' नामक महाते जस्वी तथा कविश्रेष्ठ व्यास होंगे, उस समय भी युगान्तमें इस लोकमें कलिमें मैं हैतुकवनमें अवतीर्ण होऊँगा और “अत्रि' नामसे विख्यात होऊँगा दसवें ट्वापकके अन्तमें जब त्रिपाद् नामक विप्ररूप व्यास होंगे, तब मैं भृगुमुनिके रूपमें पर्वतोंमें उत्तम हिमालयके रमणीक भृगुतुंग नामक श्रेष्ठ पर्वत-शिखरपर अवतीर्ण होऊँगा। वह शिखर मेरे ही नामपर 'भृगुतुंग' नामसे प्रसिद्ध होगा तथा देवताओंद्वारा पूर्जित होगा स समय भी बलबन्धु, निरामित्र, केतुश्रृंग तथा तपोधन ये मेरे चार पुत्र होंगे, जो दृढ़ब्रती, योगात्मा, महात्मा एवं तपोयोगसे युक्त होंगे। वे अपनी तपस्यासे पापोंको दग्ध करके रुद्रलोकको प्राप्त होंगे॥ ४८-५१॥
एकादश द्वापरे तु व्यासस्तु त्रित्रतो यदा।
तदाप्यहं भविष्यामि गड़्द्वार कलौ तथा॥ ५२
उग्रो नाम महातेजा: सर्वलोकेषु विश्रुत:।
तत्रापि मम ते पुत्रा भविष्यन्ति महौजस:॥ ५३
लम्बोदरश्च लम्बाक्षो लम्बकेश: प्रलम्बक:।
प्राप्य माहेश्वरं योगं रुद्रलोक॑ गता हि ते॥ ५४
द्वादशे परिवर्ते तु शततेजा यदा मुनिः।
भविष्यति महातेजा व्यासस्तु कविसत्तम:॥ ५५
तदाप्यहं भविष्यामि कलाविह युगान्तिके।
हैतुके वनमासाद्य अत्रिर्नाम्ना परिश्रुतः॥ ५६
ग्यारह वें द्वापके अन्त में जब “त्रित्रत' नामक व्यास होंगे, उस समय भी मैं कलिमें गंगा द्वार क्षेत्र में अवतीर्ण होऊँगा तथा महातेजस्वी मैं उग्र नामसे सभी लोकोंमें विख्यात होऊकँगा। उस समय भी लम्बोदर, लम्बाक्ष, लम्ब केश एवं प्रलम्बक नाम वाले मेरे चार महातेजस्वी पुत्र होंगे। वे माहेश्वरयोग को प्राप्त होकर रुद्र लोक जायँंगे बारहवें द्वापरयुगके अन्तमें जब मुनि 'शततेजा' नामक महातेजस्वी तथा कविश्रेष्ठ व्यास होंगे, उस समय भी युगान्तमें इस लोकमें कलिमें मैं हैतुकवनमें अवतीर्ण होऊँगा और “अत्रि' नामसे विख्यात होऊँगा॥ ५०-५६ ॥
तत्रापि मम ते पुत्रा भस्मस्नानानुलेपना:।
भविष्यन्ति महायोगा रुद्रलोकपरायणा: ॥ ५७
सर्वज्ञ: समबुद्धिश्च साध्य: सर्वस्तथेव च।
प्राप्प माहेश्वरं योगं रुद्रलोक॑ गता हि ते॥ ५८
त्रयोदशे पुनः प्राप्ते परिवर्ते क्रमेण तु।
धर्मो नारायणो नाम व्यासस्तु भविता यदा॥ ५९
तदाप्यहं भविष्यामि बालिनऋाम महामुनि:।
बालखिल्याश्रमे पुण्ये पर्वते गन्धमादने॥ ६०
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः।
सुधामा काश्यपश्चैव वासिष्ठो विरजास्तथा ॥ ६१
महायोगबलोपेता विमला ऊध्वरेतसः।
प्राप्प माहेश्वरं योगं रुद्रलोक॑ गता हि ते॥ ६२
यदा व्यासस्तरक्षुस्तु पर्याये तु चतुर्दशे।
तत्रापि पुनरेवाहं भविष्यामि युगान्तिके ॥ ६३
वंशे त्वड्विरसां श्रेष्ठे गौतमो नाम नामतः।
भविष्यति महापुण्यं गोतम॑ नाम तद्बनम्॥ ६४
तत्रापि मम ते पुत्रा भविष्यन्ति कलौ तदा।
अतन्रिर्देवसदश्चैव श्रवणो5थ भ्रविष्ठक: ॥ ६५
योगात्मानो महात्मानः सर्वे योगसमन्विता:।
प्राप्प माहेश्वरं योगं रुद्रलोकाय ते गता:॥ ६६
तत: पञ्चदशे प्राप्ते परिवर्ते क्रमागते।
त्रैय्यारुणिर्यदा व्यासो द्वापरे समपद्यत॥ ६७
तदाप्यहं भविष्यामि नाम्ना वेदशिरा द्विज:।
तत्र वेदशिरों नाम अस्त्रं तत्पारमेश्वरम्॥ ६८
भविष्यति महावीर्य॑वेदशीर्षश्च पर्वतः ।
हिमवत्पृष्ठमासाद्य. सरस्वत्यां नगोत्तमे॥ ६९
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः।
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रक:॥ ७०
योगात्मानो महात्मानः सर्व ते ह्यूर्ध्वरेतस:।
प्राप्प माहेश्वरं योगं रुद्रलोकाय ते गता:॥ ७१
व्यासो युगे षोडशे तु यदा देवो भविष्यति।
तत्र योगप्रदानाय भक्तानां च यतात्मनाम्॥ ७२
तदाप्यहं भविष्यामि गोकर्णों नाम नामतः।
भविष्यति सुपुण्यं च गोकर्ण नाम तद्बनम्॥ ७३
तत्रापि मम ते पुत्रा भविष्यन्ति च योगिन:।
काश्यपो ह्युशनाश्चैव च्यवनो5थ बृहस्पति: ॥ ७४
तेडपि तेनैव मार्गेण ध्यानयोगसमन्विता:।
प्राप्प माहेश्वरं योगं गन्तारो रुद्रमेव हि॥ ७५
ततः सप्तदशे चैव परिवर्ते क्रमागते।
यदा भविष्यति व्यासो नाम्ना देवकृतञज्जय: ॥ ७६
तदाप्यहं भविष्यामि गुहावासीति नामतः।
हिमवच्छिखरे रम्ये महोत्तुड़े महालये।॥ ७७
सिद्धक्षेत्र महापुण्यं भविष्यति महालयम्।
तत्रापि मम ते पुत्रा योगज्ञा ब्रह्मवादिनः॥ ७८
भविष्यन्ति महात्मानो निर्ममा निरहडन्कृता:।
उतथ्यो वामदेवश्च महायोगो महाबल:॥ ७९
तेषां शतसहस्त्रं तु शिष्याणां ध्यानयोगिनाम्।
भविष्यन्ति तदा काले सर्वे ते ध्यानयुज्ञका: ॥ ८०
योगाभ्यासरताश्चैव हृदि कृत्वा महेश्वरम्।
महालये पद न्यस्तं दृष्ट्वा यान्ति शिवं पदम्॥ ८१
ये चान्येपि महात्मान: कलौ तस्मिन् युगान्तिके ।
ध्याने मनः समाधाय विमला: शुद्धबुद्धयः ॥ ८२
मम प्रसादाद्यास्यन्ति रुद्रलोक॑ गतज्वरा:।
गत्वा महालयं पुण्य॑ दृष्ट्वा माहेश्वरं पदम्॥ ८३
मम प्रसादाद्यास्यन्ति रुद्रलोक॑ गतज्वरा:।
ततोउष्टादशमे चैव परिवर्ते यदा विभो॥८५
तदा ऋतञ्ञयो नाम व्यासस्तु भविता मुनि:।
तदाप्यहं भविष्यामि शिखण्डी नाम नामत:॥ ८६
सिद्धक्षेत्रे महापुण्ये देवदानवपूजिते।
हिमवच्छिखरे रम्ये शिखण्डी नाम पर्वत:।॥ ८७
शिखण्डिनो वन चापि यत्र सिद्धनिषेवितम्।
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधना:॥ ८८
वाचश्रवा ऋचीकश्च एयावाशएवश्च यतीएवर: ।
योगात्मानो महात्मान: सर्वे ते वेदपारगा:॥ ८९
प्राप्प माहेश्वरं योगं रुद्रलोकाय संवृताः।
अथ एकोनविंशे तु परिवर्ते क्रमागते॥९०
व्यासस्तु भविता नाम्ना भरद्वाजो महामुनि:।
तदाप्यहं भविष्यामि जटामाली च नामतः॥ ९१
हिमवच्छिखरे रम्ये जटायुर्यत्र पर्वतः।
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः॥ ९२
हिरण्यनाभ: कौशल्यो लोकाक्षी कुथुमिस्तथा।
ईश्वरा योगधर्माण: सर्वे ते ह्यूर्ध्वरेतस:॥ ९३
प्राप्प माहेश्वरं योगं रुद्रलोकाय संस्थिता: ।
ततो विंशतिमएचैव परिवर्तों यदा तदा॥ ९४
गौतमस्तु तदा व्यासो भविष्यति महामुनि:।
तदाप्यहं॑ भविष्यामि अट्टहासस्तु नामतः॥ ९७
अट्टहासप्रियाश्चैव भविष्यन्ति तदा नराः।
तत्रैव हिमवत्पृष्ठे अट्ठहासो महागिरिः॥ ९६
देवदानवयक्षेन्द्रसिद्धचारणसेवितः ।
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः॥ ९७
योगात्मानो महात्मानो ध्यायिनो नियतक्रता:।
सुमन्तुर्बर्बरी विद्वान् कबन्धः कुशिकन्धरः॥ ९८
प्राप्प माहेश्वरं योगं रुद्रलोकाय ते गता:।
एकविंशे पुनः प्राप्ते परिवर्ते क्रमागते॥ ९९
वाचश्रवा: स्मृतो व्यासो यदा स ऋषिसत्तम: ।
तदाप्यहं भविष्यामि दारुको नाम नामतः:॥ १००
तस्माद्धविष्यते पुण्यं देवदारुवनं शुभम्।
तत्रापि मम ते पुत्रा भविष्यन्ति महौजस: ॥ १०१
प्लक्षो दार्भायणिश्चैव केतुमान् गौतमस्तथा ।
योगात्मानो महात्मानो नियता ऊर्ध्वरेतस:॥ १०२
नैष्ठिकं ब्रतमास्थाय रुद्रलोकाय ते गता:।
द्वाविंशे परिवर्ते तु व्यास: शुष्मायणों यदा॥ १०३
तदाप्यहं भविष्यामि वाराणस्यां महामुनि:।
नाम्ना वै लाड्ली भीमो यत्र देवा: सवासवा: ॥ १०४
द्रक्ष्यन्ति मां कलौ तस्मिन् भवं चेव हलायुधम्।
तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिका: ॥ १०५
भल्लवी मधुपिड्गश्च एवेतकेतु: कुशस्तथा।
प्राप्य माहेश्वरं योगं तेडपि ध्यानपरायणा:॥ १०६
विमला ब्रह्मभूयिष्ठा रुद्लोकाय संस्थिता: ।
परिवर्ते त्रयोविंशे तृणबिन्दुर्यदया मुनि:॥ १०७
व्यासो हि भविता ब्रह्मंस्तदाहं भविता पुन: ।
श्वेतो नाम महाकायो मुनिपुत्रस्तु धार्मिक: ॥ १०८
तत्र कालं॑ जरिष्यामि तदा गिरिवरोत्तमे।
तेन कालझ्जरो नाम भविष्यति स पर्वतः॥ १०९
तत्रापि मम ते शिष्या भविष्यन्ति तपस्विन:।
उशिको बृहदश्वश्च देवल: कविरेव च॥ ११०
प्राप्प माहेश्वरं योगं रुद्रलोकाय ते गता:।
परिवर्ते चतुर्विशे व्यासो ऋक्षो यदा विभो॥ ११९
तदाप्यहं भविष्यामि कलौ तस्मिन् युगान्तिके ।
शूली नाम महायोगी नैमिषे देववन्दिते॥ ११२
तत्रापि मम ते शिष्या भविष्यन्ति तपोधना:।
शालिहोत्रो3ग्निवेशश्च युवनाशव: शरद्वसु:॥ ११३
तेडपि तेनैव मार्गेण रुद्रलोकाय संस्थिता:।
पज्चविंशे पुनः प्राप्ते परिवर्ते क्रमागते॥ ११४
वासिष्ठस्तु यदा व्यास: शक्तिर्नाम्ना भविष्यति।
तदाप्यहं भविष्यामि दण्डी मुण्डीएवर: प्रभु:॥ १९५
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधना:।
छगल: कुण्डकर्णश्च कुभाण्डश्च प्रवाहक:॥ ११६
प्राप्प माहेश्वरं योगममृतत्वाय ते गता:।
षड्विंशे परिवर्ते तु यदा व्यास: पराशर:॥ ११७
तदाप्यहं भविष्यामि सहिष्णुर्नाम नामत:।
पुरं भद्गवर्ट प्राप्प कलौ तस्मिन् युगान्तिके ॥ ११८
तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिका: ।
उलूको विद्युतश्चैव शम्बूको ह्याशइवलायन: ॥ ११९
प्राप्प माहेश्वरं योगं रुद्रलोकाय ते गता:।
सप्तविंशे पुनः प्राप्ते परिवर्ते क्रमागते॥ १२०
जातूकर्ण्यो यदा व्यासो भविष्यति तपोधन: ।
तदाप्यहं भविष्यामि सोमशर्मा द्विजोत्तम:॥ १२१
प्रभासतीर्थमासाद्य योगात्मा योगविश्रुत:।
तत्रापि मम ते शिष्या भविष्यन्ति तपोधना: ॥ १२२
अक्षपाद: कुमारश्च उलूको वत्स एवं च।
योगात्मानो महात्मानो विमला: शुद्धबुद्धय: ॥ १२३
प्राप्य माहेश्वरं योगं रुद्रलोक॑ ततो गताः।
अष्टाविंशे पुनः प्राप्ते परिवर्ते क्रमागते॥ १२४
पराशरसुतः श्रीमान् विष्णुलॉकपितामह:।
यदा भविष्यति व्यासो नाम्ना द्वैपायन: प्रभु: ॥ १२५
तदा षष्ठेन चांशेन कृष्ण: पुरुषसत्तम:।
वसुदेवाद्यदुश्रेष्ठो वासुदेवों भविष्यति॥ १२६
तदाप्यहं भविष्यामि योगात्मा योगमायया।
लोकविस्मयनार्थाय ब्रह्मचारिशरीरकः ॥ १२७
श्मशाने मृतमुत्सूष्टं दृष्ट्वा कायमनाथकम् ।
ब्राह्मणानां हितार्थाय प्रविष्टो योगमायया॥ १२८
दिव्यां मेरुगुहां पुण्यां त्वया सार्ध॑ च विष्णुना
भविष्यामि तदा ब्रह्मनू लकुली नाम नामत: ॥ ९२९
कायावतार इत्येवं सिद्धक्षेत्रं च वे तदा।
भविष्यति सुविख्यातं यावद्धूमिर्धरिष्यति॥ १३०
तत्रापि मम ते पुत्रा भविष्यन्ति तपस्विन:।
कुशिकश्चैव गर्गश्च मित्र: कौरुष्य एव च॥ १३१
योगात्मानो महात्मानो ब्राह्मणा वेदपारगा: ।
प्राप्प माहेश्वरं योगं विमला ह्र्ध्वरेतस: ॥ १३२
रुद्रलोक॑ गमिष्यन्ति पुनरावृत्तिदुर्लभम्।
एते पाशुपताः सिद्धा भस्मोद्धूलितविग्रहा: ॥ १३३
लिड्रार्चनरता नित्यं बाह्याभ्यन्तरतः स्थिता:।
भकत्या मयि च योगेन ध्याननिष्ठा जितेन्द्रिया:॥ १३४
संसारबन्धच्छेदार्थ ज्ञानमार्गप्रकाशकम्।
स्वरूपज्ञानसिद्धयर्थ योगं पाशुपतं महत्॥ १३५
योगमार्गा अनेकाएच ज्ञानमार्गास्त्वनेकशः ।
न निवृत्तिमुपायान्ति विना पज्चाक्षरीं क्वचित्॥ १३६
यदाचरेत्तपश्चायं सर्वद्वन्द्वविवर्जितम्।
तदा स मुक्तो मन्तव्य: पक्व फलमिव स्थित: ॥ १३७
एकाहं यः पुमान् सम्यक् चरेत्पाशुपतब्रतम्।
न सांख्ये पञ्चरात्रे वा न प्राप्पयोति गतिं कदा॥ १३८
इत्येतद्देमया प्रोक्तमवतारेषु लक्षणम।
मन्वादिकृष्णपर्यन्तमष्टाविंशद्युगक्रमातू ॥ १३९
तत्र श्रुतिसमूहानां विभागो धर्मलक्षण:।
भविष्यति तदा कल्पे कृष्णद्वेपायनो यदा॥ १४०
यूत उवाच निशम्यैवं महातेजा महादेवेन कीर्तितम्।
रुद्रावतारं भगवान् प्रणिपत्य महेश्वरम्॥ १४१
तुष्टाव वाग्भिरिष्टाभि: पुनः प्राह च शड्डूरम।
पितामह उवाच
सर्वे विष्णुमया देवा: सर्वे विष्णुमया गणा:॥ १४२
न हि विष्णुसमा काचिद् गतिरन्या विधीयते।
इत्येब॑ सततं बेदा गायन्ति नात्र संशय: ॥ १४३
स देवदेवो भगवांस्तव लिड्रार्चने रतः।
तब प्रणामपरम: कथ॑ देवो ह्भूत्प्रभु:॥ १४४
सूत उवाच
निशम्य वचन तस्थ ब्रह्मण: परमेष्ठिन:।
प्रपिबन्निव च॒क्षुर्भ्या प्रीतस्तत्प्रश्नगौरवात्॥ १४५
पूजाप्रकरणं तस्मे तमालोक्याह शड्भर:।
भवान्नारायणश्चेव शक्र: साक्षात्सुरोत्तम:॥ १४६
मुनयश्च सदा लिड़ूं सम्पूज्य विधिपूर्वकम्।
स्वं स्व॑ पदं विभो प्राप्तास्तस्मात्सम्पूजयन्ति ते॥ १४७
लिड्डार्चनं विना निष्ठा नास्ति तस्माज्जनार्दन:।
आत्मनो यजते नित्यं श्रद्धया भगवान् प्रभु: ॥ १४८
इत्येवमुक्त्वा ब्रह्माणमनुगृहा महेश्वर:।
पुनः सप्प्रेक्ष्य देवेशं तत्रैवान्तरधीयत॥ १४९
तमुदिए्य तदा ब्रह्मा नमस्कृत्य कृताउ्जलि: ।
र्रष्ट त्वशेषं भगवान् लब्धसंज्ञस्तु शट्जूरात्॥ १५०
॥ श्रीलिंगमहा पुराणे पूर्वभागे विविधव्यासावतारवर्णनं नाम चतुर्विशतितमोउध्याय: ॥ २४॥
लिंग पुराण: चोबीसवाँ अध्याय - प्रश्न-उत्तर स्वरूप विवरण
प्रश्न 1: भगवान शिव ने ब्रह्मा जी के प्रश्न का उत्तर कैसे दिया?
उत्तर: भगवान शिव ने ब्रह्मा जी को बताया कि उनका साक्षात्कार केवल ध्यान योग द्वारा ही संभव है। यह दर्शन न तप, न दान, न यज्ञ, न वेद अध्ययन, न धन और न ही तीर्थ यात्रा से प्राप्त किया जा सकता है।
प्रश्न 2: वाराह कल्प के सप्तम मन्वंतर में क्या महत्वपूर्ण घटनाएँ घटित होती हैं?
उत्तर: सप्तम मन्वंतर में वैवस्वत मनु का प्रादुर्भाव होगा, जो ब्रह्मा जी के पौत्र होंगे। उस समय भगवान शिव ब्राह्मणों और लोकों के कल्याण के लिए अवतार लेंगे।
प्रश्न 3: भगवान शिव ने द्वापर युग के अंत में कौन-कौन से अवतार लिए?
उत्तर:
- पहला द्वापर: 'श्वेत' नाम से अवतार लिया और हिमालय के छागल पर्वत पर निवास किया। उनके चार शिष्य थे - श्वेत, श्वेतशिख, श्वेतास्य, और श्वेतलोहित।
- दूसरा द्वापर: 'सुतार' नाम से अवतार लिया। उनके शिष्य थे - दुन्दुभि, शतरूप, ऋचीक, और केतुमान।
- तीसरा द्वापर: 'दमन' नाम से अवतार लिया। उनके शिष्य थे - विकोश, विकेश, विपाश, और शापनाशन।
- चौथा द्वापर: 'सुहोत्र' नाम से अवतार लिया। उनके शिष्य थे - सुमुख, दुर्मुख, दुर्दर, और दुरतिक्रम।
प्रश्न 4: कलियुग में भगवान शिव का क्या उद्देश्य होगा?
उत्तर: कलियुग में भगवान शिव का उद्देश्य ब्राह्मणों और लोकों का अनुग्रह करना होगा। वे ध्यानयोग द्वारा शिष्यों को मुक्ति का मार्ग प्रदान करेंगे।
प्रश्न 5: भगवान शिव के शिष्यों का क्या महत्व था?
उत्तर: भगवान शिव के शिष्य महान योगी, तपस्वी, और वेदों के पारगामी विद्वान होते थे। वे ध्यानयोग और ब्रह्मज्ञान द्वारा पापमुक्त होकर रुद्रलोक को प्राप्त करते थे, जहाँ से पुनर्जन्म नहीं होता।
प्रश्न 6: भगवान शिव का 'श्वेत' अवतार कहाँ हुआ?
उत्तर: 'श्वेत' अवतार हिमालय के छागल पर्वत के रमणीय शिखर पर हुआ।
प्रश्न 7: भगवान शिव के अवतारों के दौरान उनके शिष्यों के नाम और गुण क्या थे?
उत्तर:
- श्वेत अवतार: श्वेत, श्वेतशिख, श्वेतास्य, और श्वेतलोहित।
- सुतार अवतार: दुन्दुभि, शतरूप, ऋचीक, और केतुमान।
- दमन अवतार: विकोश, विकेश, विपाश, और शापनाशन।
- सुहोत्र अवतार: सुमुख, दुर्मुख, दुर्दर, और दुरतिक्रम।
प्रश्न 8: भगवान शिव के दर्शन हेतु प्रमुख साधना क्या है?
उत्तर: भगवान शिव के दर्शन केवल ध्यानयोग और ब्रह्मज्ञान से ही संभव हैं। अन्य सभी साधन इसके बिना अधूरे हैं।
प्रश्न 9: शिव के शिष्यों को अंततः क्या प्राप्त होता है?
उत्तर: भगवान शिव के शिष्य ध्यान और योग साधना के द्वारा रुद्रलोक प्राप्त करते हैं, जहाँ से पुनर्जन्म संभव नहीं होता।
प्रश्न 10: अवसरानुसार भगवान शिव के अवतारों का क्या उद्देश्य था?
उत्तर: भगवान शिव के प्रत्येक अवतार का उद्देश्य लोकों पर अनुग्रह करना, ब्रह्मज्ञान की स्थापना करना, और शिष्यों को मुक्ति का मार्ग प्रदान करना था।
टिप्पणियाँ