लिंग पुराण : उमापति शिवके माहात्यका वर्णन तथा शिवके आदेशसे ही सृष्टि-पालन आदि सभी कार्योंका संचालन | लिंग पुराण : उमापति शिवके माहात्यका वर्णन तथा शिवके आदेशसे ही सृष्टि-पालन आदि सभी कार्योंका संचालन | Linga Purana: Description of the greatness of Umapati Shiva and carrying out all the works of creation, maintenance etc. only by the orders of Shiva
श्रीलिङ्गमहापुराण लिंग पुराण [ उत्तरभाग ] दसवाँ अध्याय
उमापति शिव के माहात्य का वर्णन तथा शिव के आदेशसे ही सृष्टि-पालन आदि सभी कार्योंका संचालन
सनत्कुमार उवाच
भूय एव ममाचक्ष्व महिमानमुमापतेः ।
भवभक्त महाप्राज्ञ भगवन्नन्दिकेश्वर ॥ १
शैलादिरुवाच
सनत्कुमारसङ्क्षेपात्तव वक्ष्याम्यशेषतः ।
महिमानं महेशस्य भवस्य परमेष्ठिनः ॥ २
नास्य प्रकृतिबन्धोऽभूद्बुद्धिबन्धो न कश्चन।
न चाहङ्कारबन्धश्च मनोबन्धश्च नोऽभवत् ।। ३
चित्तबन्धो न तस्याभूच्छ्रोत्रबन्धो न चाभवत् ।
न त्वचां चक्षुषां वापि बन्धो जज्ञे कदाचन ॥ ४
जिह्वाबन्धो न तस्याभूद्वाणबन्धो न कश्चन।
पादबन्धः पाणिबन्धो वाग्बन्धश्चैव सुव्रत ॥ ५
उपस्थेन्द्रियबन्धश्च भूततन्मात्रबन्धनम् ।
नित्यशुद्धस्वभावेन नित्यबुद्धो निसर्गतः ॥ ६
नित्यमुक्त इति प्रोक्तो मुनिभिस्तत्त्ववेदिभिः ।
अनादिमध्यनिष्ठस्य शिवस्य परमेष्ठिनः ॥ ७
बुद्धिं सूते नियोगेन प्रकृतिः पुरुषस्य च।
अहङ्कारं प्रसूतेऽस्या बुद्धिस्तस्य नियोगतः ॥ ८
अन्तर्यामीति देहेषु प्रसिद्धस्य स्वयम्भुवः ।
इन्द्रियाणि दशैकं च तन्मात्राणि च शासनात् ।। ९
अहङ्कारोऽतिसंसूते शिवस्य परमेष्ठिनः ।
तन्मात्राणि नियोगेन तस्य संसुवते प्रभोः ॥ १०
महाभूतान्यशेषेण महादेवस्य धीमतः ।
ब्रह्मादीनां तृणान्तं हि देहिनां देहसङ्गतिम् ॥ ११
महाभूतान्यशेषाणि जनयन्ति शिवाज्ञया।
अध्यवस्यति सर्वार्थान् बुद्धिस्तस्याज्ञया विभोः ॥ १२
अन्तर्यामीति देहेषु प्रसिद्धस्य स्वयम्भुवः ।
स्वभावसिद्धमैश्वर्यं स्वभावादेव भूतयः ॥ १३
तस्याज्ञया समस्तार्थानहङ्कारो ऽतिमन्यते ।
चित्तं चेतयते चापि मनः सङ्कल्पयत्यपि ॥ १४
श्रोत्रं शृणोति तच्छक्त्या शब्दस्पर्शादिकं च यत्।
शम्भोराज्ञाबलेनैव भवस्य परमेष्ठिनः ॥ १५
वचनं कुरुते वाक्यं नादानादि कदाचन।
शरीराणामशेषाणां तस्य देवस्य शासनात् ॥ १६
करोति पाणिरादानं न गत्यादि कदाचन।
सर्वेषामेव जन्तूनां नियमादेव वेधसः ॥ १७
विहारं कुरुते पादो नोत्सर्गादि कदाचन।
समस्तदेहिवृन्दानां शिवस्यैव नियोगतः ॥ १८
उत्सर्ग कुरुते पायुर्न वदेत कदाचन।
जन्तोर्जातस्य सर्वस्य परमेश्वरशासनात् ॥ १९
आनन्दं कुरुते शश्वदुपस्थं वचनाद्विभोः ।
सर्वेषामेव भूतानामीश्वरस्यैव शासनात् ॥ २०
अवकाशमशेषाणां भूतानां सम्प्रयच्छति।
आकाशं सर्वदा तस्य परमस्यैव शासनात् ॥ २१
निर्देशेन शिवस्यैव भेदैः प्राणादिभिर्निजैः ।
बिभर्ति सर्वभूतानां शरीराणि प्रभञ्जनः ॥ २२
निर्देशाद्देवदेवस्य सप्तस्कन्धगतो मरुत् ।
लोकयात्रां वहत्येव भेदैः स्वैरावहादिभिः ॥ २३
नागाद्यैः पञ्चभिर्भेदैः शरीरेषु प्रवर्तते।
अपदेशेन देवस्य परमस्य समीरणः ॥ २४
हव्यं वहति देवानां कव्यं कव्याशिनामपि।
पाकं च कुरुते वह्निः शङ्करस्यैव शासनात् ॥ २५
भुक्तमाहारजातं यत्पचते देहिनां तथा।
उदरस्थः सदा वह्निर्विश्वेश्वरनियोगतः ।। २६
सञ्जीवयन्त्यशेषाणि भूतान्यापस्तदाज्ञया।
अविलङ्ख्या हि सर्वेषामाज्ञा तस्य गरीयसी ॥ २७
चराचराणि भूतानि बिभत्यैव तदाज्ञया।
आज्ञया तस्य देवस्य देवदेवः पुरन्दरः ॥ २८
जीवतां व्याधिभिः पीडां मृतानां यातनाशतैः ।
विश्वम्भरः सदाकालं लोकैः सर्वैरलङ्ख्यया ॥ २९
देवान् पात्यसुरान् हन्ति त्रैलोक्यमखिलं स्थितः ।
अधार्मिकाणां वै नाशं करोति शिवशासनात् ॥ ३०
वरुण: सलिलैलोॉकान् सम्भावयति शासनात्।
मजयत्याज्ञया तस्व पाशेर्बध्नाति चासुरान्॥ ३९
पुण्यानुरूपं सर्वेषां प्राणिनां सम्प्रयच्छति।
वित्त वित्तेश्वरस्तस्थ शासनात्परमेष्ठिन: ॥ ३२
उदयास्तमये कुर्वन् कुरुते कालमाज्ञया।
आदित्यस्तस्य नित्यस्य सत्यस्य परमात्मन:॥ ३३
पुष्पाण्यौषधिजातानि प्रह्मादयति च॒ प्रजा: ।
अमृतांशु: कलाधार: कालकालस्य शासनात्॥ ३४
आदित्या वसवो रुद्रा अश्विनौ मरुतस्तथा।
अन्याश्च देवता: सर्वास्तच्छासनविनिर्मिता: ॥ ३५
गन्धर्वा देवसड्डाश्च सिद्धा: साध्याएच चारणा:।
यक्षरक्ष:पिशाचाएच स्थिता: शास्त्रेषु वेधस: ॥ ३६
ग्रहनक्षत्रताराश्च यज्ञा वेदास्तपांसि च।
ऋषीणां च गणा: सर्वे शासन तस्य धिष्ठिता: ॥ ३७
कव्याशिनां गणा: सप्तसमुद्रा गिरिसिन्धव:।
शासने तस्य वर्तन्ते काननानि सरांसि च॥ ३८
कला: काष्ठा निमेषाएच मुहूर्ता दिवसा: क्षपा:।
ऋत्वब्दपक्षमासाश्च नियोगात्तस्य धिष्ठिता: ॥ ३९
युगमन्वन्तराण्यस्य शम्भोस्तिष्ठन्ति शासनात् ।
पराशएचेव परार्धाशएच कालभेदास्तथापरे॥ ४०
देवानां जातयश्चाष्टो तिरशचां पठ्चजातय:।
मनुष्याएच प्रवर्तन्ते देवदेवस्थ धीमतः॥ ४१
जातानि भूतवृन्दानि चतुर्दशसु योनिषु।
सर्वलोकनिषण्णानि तिष्ठन्त्यस्यैव शासनात् ॥ ४२
चतुर्दशसु लोकेषु स्थिता जाताः प्रजा: प्रभो:।
सर्वेश्वस्थ. तस्यैव नियोगवशवर्तिनः ॥ ४३
पातालानि समस्तानि भुवनान्यस्य शासनात्।
ब्रह्मण्डानि च शेषाणि तथा सावरणानि च॥ ४४
वर्तमानानि सर्वाणि ब्रह्माण्डानि तदाज्ञया।
वर्तन्ते सर्वभूताद्ः समेतानि समन्तत:॥ ४५
अतीतान्यप्यसंख्यानि ब्रह्माण्डानि तदाज्ञया।
प्रवृत्तानि पदार्थाघै: सहितानि समन्ततः ॥ ४६
ब्रह्माण्डानि भविष्यन्ति सह वस्तुभिरात्मकै:।
करिष्यन्ति शिवस्याज्ञां सर्वेरावरणै: सह ॥ ४७
उन्हीं बुद्धिसम्पन्न देवदेवके शासनसे देवताओंकी [विद्याधर आदि] आठ जातियाँ, पशु-पक्षियोंकी पाँच जातियाँ तथा मनुष्य प्रवर्तित होते हैं। सभी लोकोंमें रहनेवाले इन देवता आदि चौदह योनियोंमें उत्पन्न सभी प्राणीसमूह इन्हीं शिवके शासनमें रहते हैं। चौदह लोकोंमें स्थित रहनेवाली सभी प्रजाएँ उन्हीं परमेश्वर प्रभु शिवके शासनके अधीन रहती हैं पाताल आदि समस्त भुवन तथा [जल आदि] आवरणोंसे युक्त ब्रह्माण्ड इन्हींके शासनसे स्थित हैं। ब्रह्मा, विष्णु, रुद्र आदि सभीसे युक्त समस्त वर्तमान ब्रह्माण्ड सब प्रकारसे उन्हींकी आज्ञासे स्थित उन्हींकी आज्ञासे असंख्य ब्रह्माण्ड अनेक पदार्थोसहि उत्पन्न हुए और समाप्त भी हो गये। इसी प्रकार आगे होनेवाले अनेक ब्रह्माण्ड होंगे और वे अपने सभी पदार्थों तथा आवरणोंके साथ शिवकी आज्ञाका पालन करेंगे॥ ४१--४७॥
॥ श्रीलिङ्गमहापुराणे उत्तरभागे उमापतेर्महिमवर्णनं नाम दशमोउध्याय: ॥ १० ॥
॥ इस प्रकार श्रीलिङ्गमहापुराणके अन्तर्गत उत्तभाय् उपापतियहियावर्णन ! नायक दसवाँ अध्याय पूर्ण हुआ॥ १० ॥
टिप्पणियाँ