लिंग पुराण : भगवान् महेश्वरके पंचब्रह्मात्मक ईशान, तत्पुरुष आदि स्वरूपोंका वर्णन | Linga Purana: Description of the five brahminical forms of Lord Maheshwar like Ishaan, Tatpurush etc
श्रीलिङ्गमहापुराण उत्तरभाग चौदहवाँ अध्याय
भगवान् महेश्वरके पंचब्रह्मात्मक ईशान, तत्पुरुष आदि स्वरूपों का वर्णन
सनत्कुमार उगाच
पञ्च ब्रह्माणि मे नन्दिन्नाचक्ष्व गणसत्तम।
श्रेयः करणभूतानि पवित्राणि शरीरिणाम् ॥ १
नन्दिकेश्वर उवाच
शिवस्यैव स्वरूपाणि पञ्च ब्रह्माह्वयानि ते।
कथयामि यथातत्त्वं पद्मयोनेः सुतोत्तम ।। २
सर्वलोकैकसंहर्ता सर्वलोकैकरक्षिता।
सर्वलोकैकनिर्माता पञ्चब्रह्मात्मकः शिवः ॥ ३
सर्वेषामेव लोकानां यदुपादानकारणम्।
निमित्तकारणं चाहुस्स शिवः पञ्चधा स्मृतः ॥ ४
मूर्तयः पञ्च विख्याताः पञ्च ब्रह्माङ्ख्याः पराः ।
सर्वलोकशरण्यस्य शिवस्य परमात्मनः ॥ ५
क्षेत्रज्ञः प्रथमा मूर्तिः शिवस्य परमेष्ठिनः ।
भोक्ता प्रकृतिवर्गस्य भोग्यस्येशानसंज्ञितः ॥ ६
स्थाणोस्तत् पुरुषाख्या च द्वितीया मूर्तिरुच्यते।
प्रकृतिः सा हि विज्ञेया परमात्मगुहात्मिका ॥ ७
अघोराख्या तृतीया च शम्भोर्मूर्तिर्गरीयसी।
बुद्धेः सा मूर्तिरित्युक्ता धर्माद्यष्टाङ्गसंयुता ॥ ८
चतुर्थी वामदेवाख्या मूर्तिः शम्भोर्गरीयसी।
अहङ्कारात्मकत्वेन व्याप्य सर्व व्यवस्थिता ॥ ९
सद्योजाताङ्ख्या शम्भोः पञ्चमी मूर्तिरुच्यते।
मनस्तत्त्वात्मकत्वेन स्थिता सर्वशरीरिषु ॥ १०
ईशानः परमो देवः परमेष्ठी सनातनः।
श्रोत्रेन्द्रियात्मकत्वेन सर्वभूतेष्ववस्थितः ॥ ११
स्थितस्तत्पुरुषो देवः शरीरेषु शरीरिणाम्।
त्वगिन्द्रियात्मकत्वेन तत्त्वविद्भिरुदाहृतः ॥ १२
अघोरोऽपि महादेवश्चक्षुरात्मतया बुधैः।
कीर्तितः सर्वभूतानां शरीरेषु व्यवस्थितः ॥ १३
जिह्वेन्द्रियात्मकत्वेन वामदेवोऽपि विश्रुतः ।
अङ्गभाजामशेषाणामङ्गेषु परिधिष्ठितः ॥ १४
घ्राणेन्द्रियात्मकत्वेन सद्योजातः स्मृतो बुधैः ।
प्राणभाजां समस्तानां विग्रहेषु व्यवस्थितः ।। १५
सर्वेष्वेव शरीरेषु प्राणभाजां प्रतिष्ठितः ।
वागिन्द्रियात्मकत्वेन बुधैरीशान उच्यते ॥ १६
पाणीन्द्रियात्मकत्वेन स्थितस्तत्पुरुषो बुधैः ।
उच्यते विग्रहेष्वेव सर्वविग्रहधारिणाम् ॥ १७
सर्वविग्रहिणां देहे ह्यघोरोऽपि व्यवस्थितः ।
पादेन्द्रियात्मकत्वेन कीर्तितस्तत्त्ववेदिभिः ॥ १८
पाय्विन्द्रियात्मकत्वेन वामदेवो व्यवस्थितः ।
सर्वभूतनिकायानां कायेषु मुनिभिः स्मृतः ॥ १९
उपस्थात्मतया देवः सद्योजातः स्थितः प्रभुः ।
इष्यते वेदशास्त्रज्ञैर्देहेषु प्राणधारिणाम् ॥ २०
ईशानं प्राणिनां देवं शब्दतन्मात्ररूपिणम् ।
आकाशजनकं प्राहुर्मुनिवृन्दारकप्रजाः ॥ २१
प्राहुस्तत्पुरुषं देवं स्पर्शतन्मात्रकात्मकम् ।
समीरजनकं प्राहुर्भगवन्तं मुनीश्वराः ॥ २२
रूपतन्मात्रकं देवमघोरमपि घोरकम्।
प्राहुर्वेदविदो मुख्या जनकं जातवेदसः ॥ २३
रसतन्मात्ररूपत्वात् प्रथितं तत्त्ववेदिनः ।
वामदेवमपां प्राहुर्जनकत्वेन संस्थितम् ॥ २४
सद्योजातं महादेवं गन्धतन्मात्ररूपिणम् ।
भूम्यात्मानं प्रशंसन्ति सर्वतत्त्वार्थवेदिनः ॥ २५
आकाशात्मानमीशानमादिदेवं मुनीश्वराः ।
परमेण महत्वेन सम्भूतं प्राहुरद्भुतम् ॥ २६
प्रभुं तत्पुरुषं देवं पवनं पवनात्मकम् ।
समस्तलोकव्यापित्वात्प्रथितं सूरयो विदुः ॥ २७
अथार्चिततया ख्यातमघोरं दहनात्मकम्।
कथयन्ति महात्मानं वेदवाक्यार्थवेदिनः ॥ २८
तोयात्मकं महादेवं वामदेवं मनोरमम्।
जगत्सञ्जीवनत्वेन कथितं मुनयो विदुः ॥ २९
विश्वम्भरात्मकं देवं सद्योजातं जगद्गुरुम्।
चराचरैकभर्तारं परं कविवरा विदुः ॥ ३०
पञ्चब्रह्मात्मकं सर्व जगत्स्थावरजङ्गमम् ।
शिवानन्दं तदित्याहुर्मुनयस्तत्त्वदर्शिनः ॥ ३१
पञ्चविंशतितत्त्वात्मा प्रपञ्चे यः प्रदृश्यते।
पञ्चब्रह्मात्मकत्वेन स शिवो नान्यतां गतः ॥ ३२
पञ्चविंशतितत्त्वात्मा पञ्चब्रह्मात्मकः शिवः ।
श्रेयोऽर्थिभिरतो नित्यं चिन्तनीयः प्रयत्नतः ॥ ३३
॥ इति श्रीलिङ्गमहापुराणे उत्तरभागे पञ्वब्रह्मकथनं नाम चतुर्दशोऽध्यायः ॥ १४॥
॥ इस प्रकार श्रीलिङ्गमहापुराणके अन्तर्गत उत्तरभागमें 'पंचब्रह्मकथन' नामक चौदहवाँ अध्याय पूर्ण हुआ ॥ १४॥
टिप्पणियाँ