लिंग पुराण : भगवान् सदा शिव के शर्व, भव आदि आठ स्वरूपों तथा उनकी शक्तियों एवं पुत्रों का वर्णन | Linga Purana: Description of the eight forms of Lord Shiva like Sharva, Bhava etc. and their powers and sons
श्रीलिङ्गमहापुराण उत्तरभाग तेरहवाँ अध्याय
भगवान् सदा शिव के शर्व, भव आदि आठ स्वरूपों तथा उनकी शक्ति यों एवं पुत्रों का वर्णन
सनत्कुमार उवाच
भूयोऽपि वद मे नन्दिन् महिमानमुमापते।
अष्टमूर्तेर्महेशस्य शिवस्य परमेष्ठिनः ॥ १
भन्दिकेश्वर उवाच
वक्ष्यामि ते महेशस्य महिमानमुमापतेः ।
अष्टमूर्तेर्जगद्व्याप्य स्थितस्य परमेष्ठिनः ।। २
चराचराणां भूतानां धाता विश्वम्भरात्मकः ।
शर्व इत्युच्यते देवः सर्वशास्त्रार्थपारगैः ॥ ३
विश्वम्भरात्मनस्तस्य सर्वस्य परमेष्ठिनः।
विकेशी कथ्यते पत्नी तनयोऽङ्गारकः स्मृतः ॥ ४
भव इत्युच्यते देवो भगवान् वेदवादिभिः ।
सञ्जीवनस्य लोकानां भवस्य परमात्मनः ।। ५
उमा सङ्कीर्तिता देवी सुतः शुक्रश्च सूरिभिः ।
सप्तलोकाण्डकव्यापी सर्वलोकैकरक्षिता ॥ ६
वहूयात्मा भगवान् देवः स्मृतः पशुपतिर्बुधैः ।
स्वाहा पल्यात्मनस्तस्य प्रोक्ता पशुपतेः प्रिया ॥ ७
षण्मुखो भगवान् देवो बुधैः पुत्र उदाहृतः ।
समस्तभुवनव्यापी भर्ता सर्वशरीरिणाम् ॥ ८
पवनात्मा बुधैर्देव ईशान इति कीर्त्यते।
ईशानस्य जगत्कर्तुर्देवस्य पवनात्मनः ॥ ९
शिवा देवी बुधैरुक्ता पुत्रश्चास्य मनोजवः ।
चराचराणां भूतानां सर्वेषां सर्वकामदः ॥ १०
व्योमात्मा भगवान् देवो भीम इत्युच्यते बुधैः ।
महामहिम्नो देवस्य भीमस्य गगनात्मनः ॥ ११
दिशो दश स्मृता देव्यः सुतः सर्गश्च सूरिभिः ।
सूर्यात्मा भगवान् देवः सर्वेषां च विभूतिदः ॥ १२
रुद्र इत्युच्यते देवैर्भगवान् भुक्तिमुक्तिदः ।
सूर्यात्मकस्य रुद्रस्य भक्तानां भक्तिदायिनः ॥ १३
सुवर्चला स्मृता देवी सुतश्चास्य शनैश्चरः ।
समस्तसौम्यवस्तूनां प्रकृतित्वेन विश्रुतः ॥ १४
सोमात्मको बुधैर्देवो महादेव इति स्मृतः।
सोमात्मकस्य देवस्य महादेवस्य सूरिभिः ॥ १५
दयिता रोहिणी प्रोक्ता बुधश्चैव शरीरजः ।
हव्यकव्यस्थितिं कुर्वन् हव्यकव्याशिनां तदा ॥ १६
यजमानात्मको देवो महादेवो बुधैः प्रभुः।
उग्र इत्युच्यते सद्भिरीशानश्चेति चापरैः ॥ १७
उग्राहृयस्य देवस्य यजमानात्मनः प्रभोः।
दीक्षापत्नी बुधैरुक्ता सन्तानाख्यः सुतस्तथा ॥ १८
शरीरिणां शरीरेषु कठिनं कोङ्कणादिवत्।
पार्थिवं तद्वपुर्जेयं शर्वतत्त्वं बुभुत्सुभिः ॥ १९
देहे देहे तु देवेशो देहभाजां यदव्ययम्।
वस्तुद्रव्यात्मकं तस्य भवस्य परमात्मनः ॥ २०
ज्ञेयं च तत्त्वविद्भिर्वी सर्ववेदार्थपारगैः।
आग्नेयः परिणामो यो विग्रहेषु शरीरिणाम् ॥ २१
मूर्तिः पशुपतिज्ञेया सा तत्त्वं वेत्तुमिच्छुभिः।
वायव्यः परिणामो यः शरीरेषु शरीरिणाम् ॥ २२
बुधैरीशेति सा तस्य तनुज्ञेया न संशयः।
सुधिरं यच्छरीरस्थमशेषाणां शरीरिणाम् ॥ २३
भीमस्य सा तनुर्जेया तत्त्वविज्ञानकाङ्क्षिभिः ।
चक्षुरादिगतं तेजो यच्छरीरस्थमङ्गिनाम् ॥ २४
रुद्रस्यापि तनुज्ञेया परमार्थ बुभुत्सुभिः।
सर्वभूतशरीरेषु मनश्चन्द्रात्मकं हि यत् ॥ २५
महादेवस्य सा मूर्तिर्बोद्धव्या तत्त्वचिन्तकैः ।
आत्मा यो यजमानाख्यः सर्वभूतशरीरगः ॥ २६
मूर्तिरुग्रस्य सा ज्ञेया परमात्मबुभुत्सुभिः ।
जातानां सर्वभूतानां चतुर्दशसु योनिषु ॥ २७
अष्टमूर्तेरनन्यत्वं वदन्ति परमर्षयः।
सप्तमूर्तिमयान्याहुरीशस्याङ्गानि देहिनाम् ॥ २८
आत्मा तस्याष्टमी मूर्तिः सर्वभूतशरीरगा।
अष्टमूर्तिममुं देवं सर्वलोकात्मकं विभुम् ॥ २९
भजस्व सर्वभावेन श्रेयः प्राप्तुं यदीच्छसि।
प्राणिनो यस्य कस्यापि क्रियते यद्यनुग्रहः ॥ ३०
अष्टमूर्ते महेशस्य कृतमाराधनं भवेत्।
निग्रहश्चेत् कृतो लोके देहिनो यस्य कस्यचित् ।। ३१
अष्टमूर्तेर्महेशस्य स एव विहितो भवेत्।
यद्यवज्ञा कृता लोके यस्य कस्यचिदङ्गिनः ॥ ३२
अष्टमूर्तेर्महेशस्य विहिता सा भवेद्विभोः।
अभयं यत् प्रदत्तं स्यादङ्गिनो यस्य कस्यचित् ।। ३३
आराधनं कृतं तस्मादष्टमूर्तेर्न संशयः ।
सर्वोपकारकरणं प्रदानमभयस्य च।॥ ३४
आराधनं तु देवस्य अष्टमूर्तेर्न संशयः।
सर्वोपकारकरणं सर्वानुग्रह एव च ॥ ३५
तदर्चनं परं प्राहुरष्टमूर्तेर्मुनीश्वराः ।
अनुग्रहणमन्येषां विधातव्यं त्वयाङ्गिनाम् ॥ ३६
सर्वाभयप्रदानं च शिवाराधनमिच्छता ।। ३७
॥ इति श्रीलिङ्गमहापुराणे उत्तरभागे शिवाष्टमूर्तिवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३॥
इस प्रकार श्री लिङ्गमहा पुराण के अन्तर्गत उत्तरभाग में 'शिवाष्ट मूर्ति वर्णन' नामक तेरहवाँ अध्याय पूर्ण हुआ ॥ १३
टिप्पणियाँ