अग्नि पुराण तीन सौ पाँचवाँ अध्याय ! Agni Purana 305 Chapter !
अग्निरुवाच
जपन् वै पञ्चपञ्चाशद्विष्णुनामानि यो नरः ।
मन्त्रजप्यादिफलभाक् तीर्थेष्वर्चादि चाक्षयम् ।। १ ।।
पुष्करे पुण्डरीकाक्षं गयायाञ्च गदाधरम् ।
राघवञ्चित्रकूटे तु प्रभासे दैत्यसूदनम् ।। २ ।।
जयं जयन्त्यां तद्वच्च जयन्तं हस्तिनापुरे ।
वाराहं वर्द्धमाने च काश्मीरे चक्रपाणिनम् ।। ३ ।।
जनार्द्दनञ्च कुब्जाम्रे मथुरायाञ्च केशवम् ।
कुब्जाम्रके हृषीकेशं गङ्गाद्वारे जटाधरम् ।। ४ ।।
शालग्रामे महायोगं हरिं गोवर्द्धनाचले ।
पिण्डारके चतुर्ब्बाहुं शङ्खोद्धारे च शङ्खिनम् ।। ५ ।।
वामनञ्च कुरुक्षेत्रे यमुनायां त्रिविक्रमम् ।
विश्वेश्वरं तथा शोणे कपिलं पूर्व्वसागरे ।। ६ ।।
विष्णुं महोदधौ विद्याद्गङ्गासागरसङ्गमे ।
वनमालञ्च किष्किन्ध्यां देवं रैवतकं विदुः ।। ७ ।।
काशीतटे महायोगं विरजायां रिपुञ्जयम् ।
विशाखयूपे ह्यजितन्नेपाले लोकभावनम् ।। ८ ।।
द्वारकायां विद्धि कृष्णं मन्दरे मधुसूदनम् ।
लोकाकुले रिपुहरं शालग्रामे हरिं स्मरेत् ।। ९ ।।
पुरुषं पूरुषवटे विमले च जगत्प्रभुं ।
अनन्तं सैन्धवारण्ये दण्डके शार्ङ्गधारिणम् ।। १० ।।
उत्पलावर्त्तके शौरिं नर्म्मदायां श्रियः पतिं ।
दामोदरं रैवतके नन्दायां जलशायिनं ।। ११ ।।
गोपीश्वरञ्च सिन्ध्वव्धौ माहेन्द्रे चाच्युतं विदुः ।
सह्याद्रौ देवदेवेशं वैकुण्ठं मागधे वने ।। १२ ।।
सर्व्वपापहरं विन्ध्ये औड्रे तु पुरुषोत्तमम् ।
आत्मानं हृदये विद्धि जपतां भुक्तिमुक्तिदम् ।। १३ ।।
वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम् ।
पर्व्वते पर्व्वते रामं सर्व्वत्र मधुसूदनं ।। १४ ।।
नरं भूमौ तथा व्योम्नि वशिष्ठे गरुड़ध्वजम् ।
वासुदेवञ्च सर्व्वत्र संस्मरन् भुक्तिमुक्तिभाक् ।। १५ ।।
नामान्येतानि विष्णोश्च जप्त्वा सर्वमवाप्नुयात् ।
क्षेत्रेष्वेतेषु यत् श्राद्धं दानं जप्यञ्च तर्पणम् ।। १६ ।।
तत्सर्व्वं कोटिगुणितं मृतो ब्रह्ममयो भवेत् ।
यः पठेत् श्रृणुयाद्वापि निर्म्मलः स्वर्गमाप्नुयात् ।। १७ ।।
इत्यादिमहा पुराणे आग्नेये पञ्चपञ्चाशद्विष्णु नामानि नाम पञ्चाधिकत्रिशततमोऽध्यायः ।।
अग्नि पुराण - तीन सौ पाँचवाँ अध्याय ! हिन्दी मे -Agni Purana 305 Chapter!-In Hindi
तीन सौ पाँचवाँ अध्याय पचपन विष्णुनाम
इस प्रकार आदि आग्रेय महापुराणमें 'विष्णुके पचपन नामविषयक तीन सौ पाँचवाँ अध्याय पूरा हुआ ॥ ३०५
click to read 👇
[ अग्नि पुराण अध्यायः २९१ ] [ अग्नि पुराण अध्यायः २९२ ] [ अग्नि पुराण अध्यायः २९३ ]
[ अग्नि पुराण अध्यायः २९४ ] [ अग्नि पुराण अध्यायः २९५ ] [ अग्नि पुराण अध्यायः २९६ ]
[ अग्नि पुराण अध्यायः २९७ ] [ अग्नि पुराण अध्यायः २९८ ] [ अग्नि पुराण अध्यायः २९९ ]
[ अग्नि पुराण अध्यायः ३०० ] [ अग्नि पुराण अध्यायः ३०१ ] [ अग्नि पुराण अध्यायः ३०२ ]
[ अग्नि पुराण अध्यायः ३०३ ] [ अग्नि पुराण अध्यायः ३०४ ] [ अग्नि पुराण अध्यायः ३०५ ]
[ अग्नि पुराण अध्यायः ३०६ ] [ अग्नि पुराण अध्यायः ३०७ ] [ अग्नि पुराण अध्यायः ३०८ ]
[ अग्नि पुराण अध्यायः ३०९ ] [ अग्नि पुराण अध्यायः ३१० ] [ अग्नि पुराण अध्यायः ३११ ]
[ अग्नि पुराण अध्यायः ३१२ ] [ अग्नि पुराण अध्यायः ३१३ ] [ अग्नि पुराण अध्यायः ३१४ ]
[ अग्नि पुराण अध्यायः ३१५ ] [ अग्नि पुराण अध्यायः ३१६ ] [ अग्नि पुराण अध्यायः ३१७ ]
[ अग्नि पुराण अध्यायः ३१८ ] [ अग्नि पुराण अध्यायः ३१९ ] [ अग्नि पुराण अध्यायः ३२० ]
टिप्पणियाँ