अग्नि पुराण दो सौ छियानबेवाँ अध्याय ! Agni Purana 296 Chapter !
अग्निरुवाच
वक्ष्ये रुद्रविधानन्तु पञ्चाङ्गं सर्व्वदं परं ।
हृदयं शिवसङ्कल्पः शिवः सूक्तन्तु पौरुषम् ।। १ ।।
शिखाद्भ्यः सम्भृतं सूक्तमाशुः कवचमेव च ।
शतरुद्रीयमस्त्रञ्च रुद्रस्याङ्गानि पञ्च हि ।। २ ।।
पञ्चाङ्गान्न्यस्य तं ध्यात्वा जपेद्रुद्रांस्ततः क्रमात् ।
यज्जाग्रत इति सूक्तं षडृचं मानसं विदुः ।। ३ ।।
ऋषिः स्याच्छिवसङ्कल्पश्छन्दस्त्रिष्टुबुदाहृतं ।
शिवः सहस्रशीर्षेति तस्य नारायणोऽप्यृषिः।। ४ ।।
देवता पुरुषोऽनुष्टुप्छन्दो ज्ञेयञ्च त्रैष्टुभम् ।
अद्भ्यः सम्भृतं सूक्तमृषिरुत्तरगोनरः ।। ५ ।।
आद्यानान्तिसृणां त्रिष्टुप्छन्दोऽनुष्टुब्द्वयोरपि ।
छन्दस्त्रैष्टुभमन्त्यायाः पुरुषोऽस्यापि देवता ।। ६ ।।
आशुरिन्द्रो द्वादशानां छन्दस्त्रिष्टुबुदाहृतं ।
ऋषिः प्रोक्तः प्रतिरथः सूक्ते सप्तदशार्च्चके ।। ७ ।।
पृथक्पृथक् देवताः स्युः पुरुविदङ्गदेवता ।
अवशिष्टदैवतेषु छन्दोऽनुष्टुबुदाहृतं ।। ८ ।।
असौ यस्ताम्रो भवतीन्द्रः पुरुलिङ्गोक्तदेवताः ।
पङ्क्तिच्छन्दोऽथ मर्म्माणि त्वपो लिङ्गोक्तदेवताः ।। ९ ।।
रौद्राध्याये च सर्व्वस्मिन्नृषिः स्यात् परमेष्ठ्यपि ।
प्रजापतिर्व्वा देवानां कुत्सस्य तिसृणां पुनः ।। १० ।।
मनोद्वयोरुमैका स्याद्रुद्रो रुद्राश्च देवताः ।
आद्योनुवाकोऽथ पूर्व्व एकरुद्राख्यदैवतः ।। ११ ।।
छन्दो गायत्रमाद्याया अनुष्टुप् तिसृणामृचाम् ।
तिसृणाञ्च तथा पङ्क्तिरनुष्टुबथ संस्मृतम् ।। १२ ।।
द्वयोश्च जगतीछन्दो रुद्राणामप्यशीतयः ।
हिरण्यबाहवस्तिस्रो नमो वः किरिकाय च ।। १३ ।।
पञ्चर्च्चो रुद्रदेवाः स्युर्मन्त्रे रुद्रानुवाकके ।
विंशके रुद्रदेवास्ताः प्रथमा बृहती स्मृता ।। १४ ।।
ऋग्द्वितीया त्रिजगती तृतीया त्रिष्टुबेव च ।
अनुष्टुभो यजुस्तिस्र आर्योभिज्ञः सुसिद्धिभाक् ।। १५ ।
त्रैलोक्यमोहनेनापि विषव्याध्यरिमर्द्दनं ।
इँ श्रीँ ह्रीँ ह्रैँ हूँ त्रैलोक्यमोहनाय विष्णवे नमः ।। १६ ।।
ओं हं इँ उग्रवीरं महाविष्णुं ज्वलन्तं सर्वतोमुखं ।
नृसिंहं भीषणं भद्रं मृत्युमृत्युन्नमाम्यहं ।। १७ ।।
अयमेव तु पञ्चाङ्गो मन्त्रः सर्वार्थसाधकः ।
द्वादशाष्टाक्षरौ मन्त्रौ विषव्याधिविमर्द्दनौ ।। १८ ।।
कुब्जिका त्रिपुरा गौरी चन्द्रिका विषहारिणी ।
प्रसादमन्त्रो विषहृदायुरारोग्यवर्द्धनं ।। १९ ।।
सौरो विनायकस्तद्वद्रुद्रमन्त्राः सदाखिलाः ।। २० ।।
इत्यादि महा पुराणे आग्नेये पञ्चाङ्ग रुद्र विधानं नाम षण्नवत्यधिकद्विशततमोऽध्यायः ।।
अग्नि पुराण - दो सौ छियानबेवाँ अध्याय ! हिन्दी मे -Agni Purana 296 Chapter!-In Hindi
दो सौ छियानबेवाँ अध्याय - पञ्चाङ्ग-रुद्रविधान
ॐ हूं ई उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ।।
इस प्रकार आदि आग्रेय महापुराणमें 'पञ्चाङ्ग रुद्रविधान' नामक दो सौ छियानबेवाँ अध्याय पूरा हुआ ॥ २९६ ॥
click to read 👇
[ अग्नि पुराण अध्यायः २९१ ] [ अग्नि पुराण अध्यायः २९२ ] [ अग्नि पुराण अध्यायः २९३ ]
[ अग्नि पुराण अध्यायः २९४ ] [ अग्नि पुराण अध्यायः २९५ ] [ अग्नि पुराण अध्यायः २९६ ]
[ अग्नि पुराण अध्यायः २९७ ] [ अग्नि पुराण अध्यायः २९८ ] [ अग्नि पुराण अध्यायः २९९ ]
[ अग्नि पुराण अध्यायः ३०० ] [ अग्नि पुराण अध्यायः ३०१ ] [ अग्नि पुराण अध्यायः ३०२ ]
[ अग्नि पुराण अध्यायः ३०३ ] [ अग्नि पुराण अध्यायः ३०४ ] [ अग्नि पुराण अध्यायः ३०५ ]
[ अग्नि पुराण अध्यायः ३०६ ] [ अग्नि पुराण अध्यायः ३०७ ] [ अग्नि पुराण अध्यायः ३०८ ]
[ अग्नि पुराण अध्यायः ३०९ ] [ अग्नि पुराण अध्यायः ३१० ] [ अग्नि पुराण अध्यायः ३११ ]
[ अग्नि पुराण अध्यायः ३१२ ] [ अग्नि पुराण अध्यायः ३१३ ] [ अग्नि पुराण अध्यायः ३१४ ]
[ अग्नि पुराण अध्यायः ३१५ ] [ अग्नि पुराण अध्यायः ३१६ ] [ अग्नि पुराण अध्यायः ३१७ ]
[ अग्नि पुराण अध्यायः ३१८ ] [ अग्नि पुराण अध्यायः ३१९ ] [ अग्नि पुराण अध्यायः ३२० ]
टिप्पणियाँ