अग्नि पुराण दो सौ सतहत्तरवाँ अध्याय ! Agni Purana 277 Chapter !
अग्निरुवाच
तुर्व्वसोश्च सुतो वर्गो गोभानुस्तस्य चात्मजः ।
गोभानोरासीत् त्रैशानिस्त्रैशानेस्तु करन्धमः ।। १ ।।
करन्धमान्मरुत्तोभूऽद्दुष्मन्तस्तस्य चात्मजः ।
दुष्मन्तस्य वरूथोऽभूद्गाण्डीरस्तु वरूथतः ।। २ ।।
गाण्डीराच्चैव गान्धारः पञ्च जानपदास्ततः ।
गान्धाराः केरलाश्चोलाः पाण्ड्याः कोला महाबलाः ।। ३ ।।
द्रुह्यस्तु वभ्रुसेतुश्च वभ्रुसेतोः पुरोवसुः ।
ततो गान्धारा गान्धारैर्घर्म्मो घर्म्माद् घृतोऽभवत् ।। ४ ।।
घृतात्तु विदुषस्तस्मात् प्रचेतास्तस्य वै शतम् ।
आनद्रश्च सभानरश्चाक्षुपः परमेषुकः ।। ५ ।।
सभानरात् कालानलः कालानलजसृञ्जयः ।
पुरञ्जयः सृञ्जयस्य तत्पुत्रो जनमेजयः ।। ६ ।।
तत्पुत्रस्तु महाशालस्तुत्पुत्रोऽभून्महामनाः ।
तस्मादुशीनरो ब्रह्मन्नृगायान्तु तृगस्ततः ।। ७ ।।
नरायान्तु नरश्चासीत् कृमिस्तु कृमितः सुतः ।
दशायां सुब्रतो जज्ञे दृशद्वत्यां शिविस्तथा ।। ८ ।।
शिवेः पुत्त्रास्तु चत्वारः पृथुदर्भश्च वीरकः ।
कैकेयो भद्रकस्तेषां नाम्ना जनपदाः शुभाः ।। ९ ।।
तितिक्षुरुशीनरजस्तितिक्षोस्च रुषद्रयः ।
रुषद्रथादभूत्पैलः पैलाच्च सुतपाः सुतः ।। १० ।।
महायोगी बलिस्तस्मादह्गो वङ्गश्च मुख्यकः ।
पुण्डुः कलिङ्गो बालोयो बलिर्योगी बलान्वितः ।। ११ ।।
अङ्गाद्दधिवाहनोऽभूत तस्माद्दिविरथो नृपः ।
दिविरथाद्धर्म्मरथस्तस्य चित्ररथः सुतः ।। १२ ।।
चित्ररथात्सत्यरथो लोमपादश्च तत्सुतः ।
लोमपादाच्चतुरङ्गः पृथुलाक्षश्च तत्सुतः ।। १३ ।।
पृथुलाक्षाच्च चम्पोऽभूच्चम्पाद्धर्य्यङ्गकोऽभवत् ।
हर्य्यङ्गाच्च भद्ररथो बृहत्कर्म्मा च तत्सुतः ।। १४ ।।
तस्मादभूद्वॄहद्भानुर्वृहद्भानोर्बृहात्मवान् ।
तस्माज्जयद्रथो ह्यासीज्जयद्रथाद्वृहद्रथः ।। १५ ।।
वृहद्रथाद्विश्वजिच्च कर्णो विश्वजितोऽभवत् ।
कर्णस्य वृषसेनस्तु पृथुसेनस्तदात्मजः ।। १६ ।।
एतेऽङ्गवंशजा भूपाः पूरोर्वंशं निबोध मे । १७।।
इत्यादिमहापुराणे आग्नेये राज वंशवर्णनं नाम सप्तसप्तत्यधिकद्विशततमोऽध्यायः ।।
अग्नि पुराण - दो सौ सतहत्तरवाँ अध्याय ! हिन्दी मे -Agni Purana 277 Chapter!-In Hindi
click to read 👇
[ अग्नि पुराण अध्यायः २६१ ] [ अग्नि पुराण अध्यायः २६२ ] [ अग्नि पुराण अध्यायः २६३ ]
[ अग्नि पुराण अध्यायः २६४ ] [ अग्नि पुराण अध्यायः २६५ ] [ अग्नि पुराण अध्यायः २६६ ]
[ अग्नि पुराण अध्यायः २६७ ] [ अग्नि पुराण अध्यायः २६८ ] [ अग्नि पुराण अध्यायः २६९ ]
[ अग्नि पुराण अध्यायः २७० ] [ अग्नि पुराण अध्यायः २७१ ] [ अग्नि पुराण अध्यायः २७२ ]
[ अग्नि पुराण अध्यायः २७३ ] [ अग्नि पुराण अध्यायः २७४ ] [ अग्नि पुराण अध्यायः २७५ ]
[ अग्नि पुराण अध्यायः २७६ ] [अग्नि पुराण अध्यायः २७७ ] [ अग्नि पुराण अध्यायः २७८ ]
[ अग्नि पुराण अध्यायः २७९ ] [ अग्नि पुराण अध्यायः २८० ] [ अग्नि पुराण अध्यायः २८१ ]
[ अग्नि पुराण अध्यायः २८२ ] [ अग्नि पुराण अध्यायः २८३ ] [ अग्नि पुराण अध्यायः २८४ ]
[ अग्नि पुराण अध्यायः २८५ ] [ अग्नि पुराण अध्यायः २८६ ] [ अग्नि पुराण अध्यायः २८७ ]
[ अग्नि पुराण अध्यायः २८८ ] [ अग्नि पुराण अध्यायः २८९ ] [ अग्नि पुराण अध्यायः २९० ]
टिप्पणियाँ