अग्नि पुराण दो सौ सत्तरवाँ अध्याय ! Agni Purana 270 Chapter !
पुष्कर उवच
त्रिपुरञ्जघ्नुषः पूर्वं ब्रह्मणा विष्णुपञ्जरं ।
शङ्करस्य द्विजश्रेष्ठ रक्षणाय निरूपितं ॥१
वागीशेन च शक्रस्य बलं हन्तुं प्रयास्यतः ।
तस्य स्वरूपं वक्ष्यामि तत्त्वं शृणु जयादिमत् ॥२
विष्णुः प्राच्यां स्थितश्चक्री हरिर्दक्षिणतो गदी ।
प्रतीच्यां शार्ङ्गधृग्विष्णुर्जिष्णुः खड्गी ममोत्तरे ॥३
हृषीकेशो विकोणेषु तच्छिद्रेषु जनार्दनः ।
क्रोडरूपी हरिर्भूमौ नरसिंहोऽम्बरे मम ॥४
क्षुरान्तममलञ्चक्रं भ्रमत्येतत्सुदर्शनं ।
अस्यांशुमाला दुष्प्रेक्ष्या हन्तुं प्रेतनिशाचरान् ॥५
गदा चेयं सहस्रार्चिःप्रदीप्तपावकोज्ज्वला ।
रक्षोभूतपिशाचानां डाकिनीनाञ्च नाशनी ॥६
शार्ङ्गविस्फूर्जितञ्चैव वासुदेवस्य मद्रिपून् ।
तिर्यङ्मनुष्यकूष्माण्डप्रेतादीन् हन्त्वशेषतः ॥७
खड्गधारोज्ज्वलज्योत्स्नानिर्धूता ये समाहिताः ।
ते यान्तु शाम्यतां सद्यो गरुडेनेव पन्नगाः ॥८
ये कूष्माण्डास्था यक्षा ये दैत्या ये निशाचराः ।
प्रेता विनायकाः क्रूरा मनुष्या जम्भगाः खगाः ॥९
सिंहादयश्च पशवो दन्दशूकाश्च पन्नगाः ।
सर्वे भवन्तु ते सौम्याः कृष्णशङ्खरवाहताः ॥१०
चित्तवृत्तिहरा ये मे ये जनाः स्मृतिहारकाः ।
बलौजसञ्च हर्तारश्छायाविभ्रंशकाश्च ये ॥११
ये चोपभोगहर्तारो ये च लक्षणनाशकाः ।
कूष्माण्डास्ते प्रणश्यन्तु विष्णुचक्ररवाहताः ॥१२
बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमैन्द्रियकं तथा ।
ममास्तु देवदेवस्य वासुदेवस्य कीर्तनात् ॥१३
पृष्ठे पुरस्तान्मम दक्षिणोत्तरे विकोणतश्चास्तु जनार्दनो हरिः ।
तमीड्यमीशानमनन्तमच्युतं जनार्दनं प्रणिपतितो न सीदति ॥१४
यथा परं ब्रह्म हरिस्तथा परः जगत्स्वरूपश्च स एव केशवः ।
सत्येन तेनाच्युतनामकीर्तनात्प्रणाशयेत्तु त्रिविधं ममाशुभं ॥१५
इत्यादिमहा पुराणे आग्नेये विष्णु पञ्जरं नाम सप्तत्यधिकद्विशततमोऽध्यायः ।।
अग्नि पुराण - दो सौ सत्तरवाँ अध्याय ! हिन्दी मे -Agni Purana 270 Chapter!-In Hindi
इस प्रकार आदि आग्रेय महापुराण में 'विष्णुपञ्जर स्तोत्र का कथन' नामक दो सौ सत्तस्वाँ अध्याय पूरा हुआ ॥ २७० ॥
click to read 👇
[ अग्नि पुराण अध्यायः २६१ ] [ अग्नि पुराण अध्यायः २६२ ] [ अग्नि पुराण अध्यायः २६३ ]
[ अग्नि पुराण अध्यायः २६४ ] [ अग्नि पुराण अध्यायः २६५ ] [ अग्नि पुराण अध्यायः २६६ ]
[ अग्नि पुराण अध्यायः २६७ ] [ अग्नि पुराण अध्यायः २६८ ] [ अग्नि पुराण अध्यायः २६९ ]
[ अग्नि पुराण अध्यायः २७० ] [ अग्नि पुराण अध्यायः २७१ ] [ अग्नि पुराण अध्यायः २७२ ]
[ अग्नि पुराण अध्यायः २७३ ] [ अग्नि पुराण अध्यायः २७४ ] [ अग्नि पुराण अध्यायः २७५ ]
[ अग्नि पुराण अध्यायः २७६ ] [अग्नि पुराण अध्यायः २७७ ] [ अग्नि पुराण अध्यायः २७८ ]
[ अग्नि पुराण अध्यायः २७९ ] [ अग्नि पुराण अध्यायः २८० ] [ अग्नि पुराण अध्यायः २८१ ]
[ अग्नि पुराण अध्यायः २८२ ] [ अग्नि पुराण अध्यायः २८३ ] [ अग्नि पुराण अध्यायः २८४ ]
[ अग्नि पुराण अध्यायः २८५ ] [ अग्नि पुराण अध्यायः २८६ ] [ अग्नि पुराण अध्यायः २८७ ]
[ अग्नि पुराण अध्यायः २८८ ] [ अग्नि पुराण अध्यायः २८९ ] [ अग्नि पुराण अध्यायः २९० ]
टिप्पणियाँ