अग्नि पुराण दो सौ साठवाँ अध्याय ! Agni Purana 260 Chapter !

अग्नि पुराण दो सौ साठवाँ अध्याय ! Agni Purana 260 Chapter !

अग्नि पुराण 260 अध्याय - यजुर्विधानम्

पुष्कर उवाच

यजुर्विधानं वक्ष्यामि भुक्तिमुक्तिप्रदं श्रृणु ।
ॐकारपूर्व्विका राम महाव्याहृतयो मता ।।१ ।।

सर्व्वकल्मषनाशिन्यः सर्व्वकामप्रदास्तथा ।
आज्यहुतिसहस्रेण देवानाराधयेद्‌बुधः ।।२ ।।

मनसः काङ्क्षितं राम मनसेप्सितकामदं ।
शान्तिकामो यवैः कुर्य्यात्तिलैः पापापनुत्तये ।।३ ।।

धान्यैः सिद्धार्थकैश्चैव सर्व्वकामकरैस्तथा ।
औदुम्बरीभिरिध्मामिः पशुकामस्य शस्यते ।।४ ।।

दध्ना चैवान्नकामस्य पथसा शान्तिमिच्छतः ।
अपामार्गसमिद्भिस्तु कामयन् कनकं बहु ।।५ ।।

कन्याकामो घृताक्तानि युग्मशो ग्रथितानि तु ।
जातीपुष्पाणि जुहुयाद्‌ग्रामार्थी तिलतण्डुलान् ।।६ ।।

वश्यकर्मणि शाखोटवासापामार्गमेव च ।
विषासृङ्‌मिश्रसमिधो व्याधिघातस्य भार्गव ।।७ ।।

क्रुद्धस्तु जुहुयात्सम्यक् शत्रूणां वधकाम्यया ।
सर्व्वव्रीहिमयीं कृत्वा राज्ञः प्रतिकृतिं द्विज ।।८ ।।

सहस्नशस्तु जुहुयाद्राजा वशगतो भवेत् ।
वस्त्रकामस्य पुष्पाणि दूर्व्वा व्याधिविनाशिनी ।।९ ।।

ब्रह्मवर्च्चसकामस्य वासोग्रञ्च विधीयते ।
प्रत्यङ्गिरेषु जुहुयात्तुषकण्टकभस्मभिः ।।१० ।।

विद्वेषणे च पक्ष्माणि काककौशिकयोस्तथा ।
कापिलञ्च घृतं हुत्वा तथा चन्द्रग्रहे द्विज ।।११ ।।

वचाचूर्णेन सम्पातात्समानीय च तां वचां ।
सहस्रमन्त्रितां भुक्त्वा मेधावी जायते नरः ।।१२ ।।

एकादशाङ्गुलं शङ्कु लौहं खादिरमेव च।
द्विषतो वधोसीति जपन्निखनेद्रिपुवेश्मनि ।।१३ ।।

उच्चाटनमिदं कर्म शत्रूणां कथितं तव ।
चक्षुष्पा इति जप्त्वा च विनष्टञ्चक्षुराप्नुयात् ।।१४ ।।

उपयुञ्जत इत्येतदनुवाकन्तथान्नदं ।
तनूपाग्ने सदिति दूर्व्वां हुत्वार्त्तिवर्ज्जितः ।।१५ ।।

भेषजमसीति दध्याज्यैर्होमः पशूपसर्गनुत्२ ।
त्रियम्बकं यजामहे होमः सौभाग्यवर्द्धनः ।।१६ ।।

कन्यानाम गृहीत्वा तु कन्यालाभकरः परः ।
भयेषु तु जपेन्नित्यं भयेभ्यो विप्रमुच्यते ।।१७ ।।

धुस्तूरपुष्पं सघृतं हुत्वा स्यात् सर्वकामभाक् ।
हुत्वा तु गुग्गुलं राम स्वप्ने पश्यति शङ्करं ।।१८ ।।

युञ्चते मनोऽनुवाकं जप्त्वा दीर्घायुराप्नुयात् ।
विष्णोरराटमित्येतत् सर्वबाधाविनाशनं ।।१९ ।।

रक्षोघ्नञ्च यशस्यञ्च तथैव विजयप्रदं ।
अयन्नो अग्निरित्येतत् संग्रामे विजयप्रदं ।।२० ।।

इदमापः प्रवहत स्नाने पापापनोदनं ।
विश्वकर्मन्नु हविषा सूचीं लौहीन्दशाङ्गुलाम् ।।२१ ।।

कन्याया निखनेद् द्वारि साऽन्यस्मै न प्रदीयते ।
देव सवितरेतेन हुतेनैतेन चान्नवान् ।।२२ ।।

अग्नौ स्वाहेति जुहुयाद्‌बलकामो द्विजोत्तम ।
तिलैर्यवैश्च धर्मज्ञ तथापामार्गतण्डुलैः ।।२३ ।।

सहस्रमन्त्रितां कृत्वातथा गोरोचनां द्विज ।
तिलकञ्च तथा कृत्वा जनस्यप्रियकामियात् ।।२४ ।।

रुद्राणाञ्च तथा जप्यं सर्व्वाघविनिसूदनं ।
सर्व्वकर्मकरो होमस्तथा सर्व्वत्र शान्तिदः ।।२५ ।।

अजाविकानामश्वानां कुञ्जराणां तथा गवां ।
मनुष्याणान्नरेन्द्राणां बालानां योषितामपि ।।२६ ।।

ग्रामाणां नगराणाञ्च देशानामपि भार्गव ।
उपद्रुतानां धर्मज्ञ व्याधितानां तथैव च ।।२७ ।।

मरके समनुप्राप्ते रिपुजे च तथा भये ।
रुद्रहोमः परा शान्तिः पायसेन घृतेन च ।।२८ ।।

कुष्माण्डघृतहोमेन सर्व्वान् पापान् व्यपोहति ।
शक्तुयावकभैक्षाशी नक्तं मनुजसत्तम ।।२९ ।।

बहिःस्नानरतो मासान्मुच्यते ब्रह्यहत्यया ।
मधुवातेति मन्त्रेण होमादितोऽखिलं लभेत् ।।३० ।।

दधिक्राव्णेति हुत्वा तु पुत्रान् प्राप्नोत्यसंशयं ।
तथा घृतवतीत्येतदायुष्यं स्यात् घृतेन तु ।।३१ ।।

स्वस्ति न इन्द्र इत्येतत्सर्व्वबाधाविनाशनं ।
इह गावः प्रजायध्वमिति पुष्टिविवर्धनम् ।।३२ ।।

घृताहुतिसहस्रेण तथाऽलक्ष्मीविनाशनं ।
स्रुवेण देवस्य त्वेति हुत्वापामार्गतण्डुलं ।।३३ ।।

मुच्यते विकृताच्छीघ्रमभिचारान्न संशयः ।
रुद्र पातु पलाशस्य समिद्भिः कनकं लभेत् ।।३४ ।।

शिवो भवेत्यग्न्युत्पाते व्रीहिभिर्जुहुयान्नरः ।
याः सेना इति चैतच्च तस्करेभ्यो भयापहम् ।।३५ ।।

यो अस्मभ्यमरातीयाद्‌धुत्वा कृष्णतिलान्नरः ।
सहस्रशोऽभिचारच्च मुच्यते विकृताद्‌ द्विज ।।३६ ।।

अन्नेनान्नपतेत्येवं हुत्वा चान्नमवाप्नुयात् ।
हंसः शुचिः सदित्येतज्जप्तन्तोयेऽघनाशनं ।।३७ ।।

चत्वारि शृङ्गेत्येतत्तु सर्व्वपापहरं जले ।
देवा यज्ञेति जप्त्वा तु ब्रह्मलोके महीयते ।।३८ ।।

वसन्तेति च हुत्वाज्यं आदित्याद्वरमाप्नुयात् ।
सुपर्णोसीति चेत्यस्य कर्मव्याहृतिवद्भवेत् ।।३९ ।।

नमः स्वाहेति त्रिर्ज्जप्त्वा बन्धनान्मोक्षमाप्नुयात् ।
अन्तर्ज्जले त्रिरावर्त्य द्रुपदा सर्व्वपापमुक् ।।४० ।।

इह गावः प्रजायध्वं मन्त्रोयं बुद्धिवर्द्धनः ।
हुतन्तु सर्पिषा दध्ना पयसा पायसेन वा ।।४१ ।।

शतं य इति चैतेन हुत्वा पर्णफलानि च ।
आरोग्यं श्रियमाप्नोति जीवतञ्च चिरन्तथा ।।४२ ।।

ओषधीः प्रतिमोदध्वं वपने लवनेऽर्थकृत् ।
युवा सुवासा इत्येव वासांस्याप्नोति चोत्तमम् ।।४४ ।।

मुञ्चन्तु मा शपथ्यानि सर्व्वान्तकविनाशनम् ।
मा मा हिंसीस्तिलाज्येन हुतं रिपुविनाशनं ।।४५ ।।

नमोऽस्तु सर्व्वसर्पेभ्यो घृतेन पायसेन तु ।
कृणुध्वं पाज इत्येतदभिचारविनाशनं ।।४६ ।।

दूर्व्वाकाण्डायुतं हुत्वा काण्डात् काण्डेति मानवः ।
ग्रामे जनपदे वापि मरकन्तु शमन्नयेत् ।।४७ ।।

रोगार्त्तो मुच्यते रोगात् तथा दुःखात्तु दुःखितः ।
औडुम्बरीश्च समिधो मधुमान्नो वनस्पतिः ।।४८ ।।

हुत्वा सहस्रशो राम धनमाप्नोति मानवः ।
सौभाग्यं महदाप्नोति व्यवहारे तथा जयम् ।।४९ ।।

अपां गर्भमिति हुत्वा देवं वर्षापयेद्‌ध्रुवम् ।
अपः पिबेति च तथा हुत्वा दधि घृतं मधु ।।५० ।।

प्रवर्त्तयति धर्मज्ञ महावृष्टिमनन्तरं ।
नमस्ते रुद्र इत्येतत् सर्व्वोपद्रवनाशनं ।।५१ ।।

सर्व्वशान्तिकरं प्रोक्तं महापातकनाशनं ।
अध्यवोचदित्यनेन रक्षणं व्याधितस्य तु ।।५२ ।।

रिपूणां भयदं युद्धे नात्र कार्य्या विचारणा ।
मानो महान्त इत्येवं बालानां शान्तिकारकं ।।५३ ।।

असौ यस्ताम्र इत्येतत् पठन्नित्यं दिवाकरं ।
उपतिष्ठेत धर्मज्ञ सायं प्रातरतन्द्रितः ।।५४ ।।

अन्नमक्षयमाप्नोति दीर्घमायुश्च विन्दति ।
प्रमुञ्च धन्वन्नित्येतत् षड्भिरायुधमन्त्रणं ।।५५ ।।

रिपूणां भयदं युद्धे नात्र कार्य्या विचारणा ।
मानो महान्त इत्येवं बालानां शान्तिकारकं ।।५६ ।।

नमो हिरण्यबाहवे इत्यनुवाकसप्तकम् ।
राजिकां कटुतैलाक्तां जुहुयाच्छत्रुनाशनीं ।।५७ ।।

नमो वः किरिकेभ्यश्च पद्मलक्षाहुतैर्न्नरः ।
राज्यलक्ष्मीमवाप्नोति तथा बिल्वैः सुवर्णकम् ।।५८ ।।

इमा रुद्रायेति तिलैर्होमाच्च धनमाप्यते ।
दूर्वाहोमेन चान्येन सर्वव्याधिविवर्ज्जितः ।।५९ ।।

आशुः शिशान इत्येतदायुधानाञ्च रक्षणे।
संग्रामे कथितं राम सर्वशत्रुनिबर्हणं ।।६० ।।

राजसामेति जुहुयात् सहस्रं पञ्चभिर्द्विज ।
आज्याहुतीनां धर्मज्ञ चक्षूरोगाद्विमुच्यते ।।६१ ।।

शन्नो वनस्पते गेहे होमः स्याद्वास्तुदोषनुत् ।
अग्न आयूंषि हुत्वाज्यं द्वेषं नाप्नोति केनचित् ।।६२ ।।

अपां फेनेति लाजाभिर्हुत्वा जयमवाप्नुयात् ।
भद्रा इतीन्द्रियैर्हीनो जपन् स्यात् सकलेन्द्रियः ।।६३ ।।

अग्निश्च पृथिवी चेति वशीकरणमुत्तमम् ।
अध्वनेति जपन् मन्त्रं व्यवहारे जयी भवेत् ।।६४ ।।

ब्रह्म राजन्यमिति च कर्मारम्भे तु सिद्धिकृत् ।
संवत्सरोसीति धृतैलक्षहोमादरोगवान् ।।६५ ।।

केतुं कृण्वन्नितीत्येतत् संग्रामे जयवर्द्धनम् ।
इन्द्रोग्निर्धर्म इत्येतद्रणे धर्मनिबन्धनम् ।।६६ ।।

धन्वनागेति मन्त्रश्च धनुर्ग्राहणिकः परः ।
युञ्जीतेति तथा मन्त्रो विज्ञेयो ह्यभिमन्त्रणे ।।६७ ।।

मन्त्रश्चाहिरथेत्येतच्छराणां मन्त्रणे भवेत् ।
वह्नीनां पितरित्येरत्तूणमन्त्रः प्रकीर्त्तितः ।।६८ ।।

युञ्जन्तीति तथाश्वानां योजने मन्त्र उच्यते ।
आशुः शिशान इत्येतद्‌यात्रारम्भणमुच्यते ।।६९ ।।

विष्णोः क्रमेति मन्त्रश्च रथारोहणिकः परः ।
आजङ्घेतीति चाश्वानां ताडनीयमुदाहृतं ।।७० ।।

याः सेना अभित्वरीति परसैन्यमुखे भवेत् ।
यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः ।।७१ ।।

एतैः पूर्वहुतैर्मन्त्रैः कृत्वैव विजयी भवेत् ।
यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः ।।७२ ।।

रथमुत्पादयेच्छीघ्रं संग्रामे विजयप्रदम् ।
आ कृष्णेति तथैतस्य कर्मव्याहृतिवद्भवेत् ।।७३ ।।

शिवसंकल्पजापेन समाधिं मनसो लभेत् ।
पञ्चनद्यः पञ्चलक्षं हुत्वा लक्ष्मीमवाप्नुयात् ।।७४ ।।

यदा बध्नन्दाक्षायणां मन्त्रेणानेन मन्त्रितम् ।
सहस्रकृत्वः कनकं धारयेद्रिपुवारणं ।।७५ ।।

इमं जीवेभ्य इति च शिलां लोष्ट्रञ्चतुर्द्दिशं ।
क्षिपेद्‌गृहे तदा तस्य न स्याच्चौरभयं निशि ।।७६ ।।

परि मे गामनेनेति वशीकरणमुत्तमं ।
हन्तुमभ्यागतस्तत्र वशी भवति मानवः ।।७७ ।।

भक्ष्यताम्बूलपुष्पाद्यं मन्त्रितन्तु प्रयच्छति ।
यस्य धर्मज्ञ वशगः सोस्य शीघ्रं भविष्यति ।।७८ ।।

शन्नो मित्र इतीत्येतत् सदा सर्व्वत्र शान्तिदं ।
गणानां त्वा गणपतिं कृत्वा होमञ्चतुष्पथे ।।७९ ।।

वशीकुर्य्याज्जगत्सर्वं सर्वधान्यैरसंशयम् ।
हिरण्यवर्णाः शुचयो मन्त्रोयमभिषेचने ।।८० ।।

शन्नो देवीरभिष्टये तथा शान्तिकारः परः ।
एकचक्रेति मन्त्रेण हुतेनाज्येन भागशः ।।८१ ।।

ग्रहेभ्यः शान्तिमाप्नोति प्रसादं न च संशयः ।
गावो भग इति द्वाभ्यां हुत्वाज्यं गा अवाप्नुयात् ।।८२ ।।

प्रवादांषः सोपदिति गृहयज्ञे विधीयते ।
देवेभ्यो वनस्पत इति द्रुमयज्ञे विधीयते ।।८३ ।।

गायत्री वैष्णवी ज्ञेया तद्विष्णोः परमम्पदं ।
सर्व्वपापप्रशमनं सर्व्वकामकरन्तथा१५ ।।८४ ।।

इत्यादिमहापुराणे आग्नेये यजुर्विधानं नाम षष्ट्यधिकद्विशततमोऽध्यायः ।।

अग्नि पुराण दो सौ साठवाँ अध्याय हिन्दी मे -Agni Purana 260 Chapter In Hindi

दो सौ साठवाँ अध्याय - यजुर्विधान-यजुर्वेदके विभिन्न मन्त्रोंका विभिन्न कार्योंके लिये प्रयोग

पुष्कर कहते हैं- परशुराम! अब मैं भोग और मोक्ष प्रदान करनेवाले 'यजुर्विधान' का वर्णन करता हूँ, सुनो। ॐकार-संयुक्त महाव्याहृतियाँ समस्त पापोंका विनाश करनेवाली और सम्पूर्ण कामनाओंको देनेवाली मानी गयी हैं। विद्वान् पुरुष इनके द्वारा एक हजार घृताहुतियाँ देकर देवताओंकी आराधना करे। परशुराम। इससे मनोवाञ्छित कामनाकी सिद्धि होती है; क्योंकि यह कर्म अभीष्ट मनोरथ देनेवाला है। शान्तिकी इच्छावाला पुरुष प्रणवयुक्त व्याहृति-मन्त्रसे जौकी आहुति दे और जो पापोंसे मुक्ति चाहता हो, वह उक्त मन्त्रसे तिलोंद्वारा हवन करे। धान्य एवं पीली सरसोंके हवनसे समस्त कामनाओंकी सिद्धि होती है। परधनकी कामनावालेके लिये गूलरकी समिधाओंद्वारा होम प्रशस्त माना गया है। अन्न चाहनेवालेके लिये दधिसे, शान्तिकी इच्छा करनेवालेके लिये दुग्धसे एवं प्रचुर सुवर्णकी कामना करनेवालेके लिये अपामार्गकी समिधाओंसे हवन करना उत्तम माना गया है। कन्या चाहनेवाला एक सूत्रमें ग्रथित दो-दो जातीपुष्पोंको घीमें डुबोकर उनकी आहुति दे। 

ग्रामाभिलाषी तिल एवं चावलोंका हवन करे। वशीकरण कर्ममें शाखोट (सिंहोर), वासा (अडूसा) और अपामार्ग (चिचिड़ा या ऊँगा) की समिधाओंका होम करना चाहिये। भृगुनन्दन। रोगका नाश करनेके लिये विष एवं रक्तसे सिक्त समिधाओंका हवन प्रशस्त है। शत्रुओंके वधकी इच्छासे उक्त समिधाओंका क्रोधपूर्वक भलीभाँति हवन करे। द्विज सभी धान्योंसे राजाकी प्रतिमाका निर्माण करे और उसका हजार बार हवन करे। इससे राजा वशमें हो जाता है। वस्त्राभिलाषीको पुष्पोंसे हवन करना चाहिये। दूर्वाका होम व्याधिका विनाश करनेवाला है। ब्रह्मतेजकी इच्छा करनेवाले पुरुषके लिये भगवत्प्रीत्यर्थ वासोग्य (उत्तम वस्त्र) अर्पण करनेका विधान है। विद्वेषण-कर्मके लिये प्रत्यङ्गिराप्रोक्त विधिके अनुसार स्थापित अग्निमें धानकी भूसी, कण्टक और भस्मके साथ काक और उलूकके पंखोंका हवन करे। ब्रह्मन् । चन्द्रग्रहणके समय कपिला गायके घीसे गायत्री मन्त्रद्वारा आहुति देकर उस घीमें वचाका चूर्ण मिलाकर 'सम्पात' नामक आहुति दे और अवशिष्ट वचाको लेकर उसे गायत्री मन्त्रसे एक सहस्र बार अभिमन्त्रित करे। फिर उस वचाको खाने से मनुष्य मेधावी होता है। 

लोहे या खदिर काष्ठकी ग्यारह अङ्गुल लंबी कील 'द्विषतो वधोऽसि०' (१।२८) आदि मन्त्रका जप करते हुए शत्रुके घरमें गाड़ दे। यह मैंने तुमसे शत्रुओंका नाश और उच्चाटन करनेवाला कर्म बतलाया है। 'चक्षुष्पा०' (२।१६) इत्यादि मन्त्र अथवा चाक्षुषी-जपसे मनुष्य अपनी खोयी हुई नेत्रज्योतिको पुनः पा लेता है। 'उपयुञ्जत०' इत्यादि अनुवाक अन्नकी प्राप्ति करानेवाला है। 'तनूपा अग्नेऽसि० (३।१७) इत्यादि मन्त्रद्वारा दूर्वाका होम करनेसे मनुष्यका संकट दूर हो जाता है। ' भेषजमसि० (३।५९) इत्यादि मन्त्रसे दधि एवं घृतका हवन किया जाय तो वह पशुओंपर आनेवाली महामारी रोगोंको दूर कर देता है। 'त्र्यम्बकं यजामहे० (३।६०) इस मन्त्रसे किया हुआ होम सौभाग्यकी वृद्धि करनेवाला है। कन्याका नाम लेकर अथवा कन्याके उद्देश्यसे यदि उक्त मन्त्रका जप और होम किया जाय तो वह कन्याकी प्राप्ति करानेवाला उत्तम साधन है। भय उपस्थित होनेपर 'त्र्यम्बकं०' (३।६०) मन्त्रका नित्य जप करनेवाला पुरुष सब प्रकारके भयोंसे छुटकारा पा जाता है। परशुराम। घृतसहित धतूरेके फूलकी उक्त मन्त्रसे आहुति देकर साधक अपनी सम्पूर्ण कामनाओंको प्राप्त कर लेता है। जो 'त्र्यम्बक' मन्त्रसे गुग्गुलकी आहुति देता है, वह स्वप्नमें भगवान् शंकरका दर्शन पाता है। 'युञ्जते मनः०' (५।१४) - इस अनुवाकका जप करनेसे दीर्घ आयुकी प्राप्ति होती है। 'विष्णो रराटमसि०' (५।२१) आदि मन्त्र सम्पूर्ण बाधाओंका निवारण करनेवाला है। यह मन्त्र राक्षसोंका नाशक, कीर्तिवर्द्धक एवं विजयप्रद है। ' अयं नो अग्ग्रिः०' (५। ३७) इत्यादि मन्त्र संग्राममें विजय दिलानेवाला है। स्नानकालमें 'इदमापः प्रवहत०' इत्यादि (६।१७) मन्त्रका जप पापनाशक है।  दस अङ्गुल लंबी लोहेकी सुईको 'विश्वकर्मन् हविषा०' (१७।२२)- इस मन्त्रसे अभिमन्त्रित करके जिस कन्याके द्वारपर गाड़ दे, वह कन्या दूसरे किसीको नहीं दी जा सकती। 'देव सवितः ०' (११।७)- इस मन्त्रसे होम करनेपर मनुष्य प्रचुर अन्न- राशिसे सम्पन्न होता है॥ १-२२॥

धर्मज्ञ जमदग्निनन्दन । बलकी इच्छा रखनेवाला श्रेष्ट द्विज 'अग्नौ स्वाहा' मन्त्रसे तिल, यव, अपामार्ग एवं तण्डुलोंसे युक्त हवन सामग्रीद्वारा होम करे। विप्रवर! इसी मन्त्रसे गोरोचनको सहस्र बार अभिमन्त्रित करके उसका तिलक करनेसे मनुष्य लोकप्रिय हो जाता है। रुद्र-मन्त्रोंका जप सम्पूर्ण पापोंका विनाश करनेवाला है। उनके द्वारा किया गया होम सम्पूर्ण कर्मोंका साधक और सर्वत्र शान्ति प्रदान करनेवाला है। धर्मज्ञ भृगुनन्दन ! बकरी, भेड़, घोड़े, हाथी, गौ, मनुष्य, राजा, बालक, नारी, ग्राम, नगर और देश यदि विविध उपद्रवोंसे पीड़ित एवं रोगग्रस्त हो गये हो, अथवा महामारी या शत्रुओंका भय उपस्थित हो गया हो तो घृतमिश्रित खीरसे रुद्रदेवताके लिये किया गया होम परम शान्तिदायक होता है। रुद्रमन्त्रोंसे कूष्माण्ड एवं घृतका होम सम्पूर्ण पापोंका विनाश करता है। नरश्रेष्ठ! जो मानव केवल रातमें सत्तु, जौकी लप्सी एवं भिक्षान्न भोजन करते हुए एक मासतक बाहर नदी या जलाशयमें स्नान करता है, वह ब्रह्महत्याके पापसे मुक्त हो जाता है। 'मधुवाता०' (१३। २७) इत्यादि मन्त्रसे होम आदिका अनुष्ठान करनेपर सब कुछ मिलता है। 'दधिक्राव्णो०' (२३।३२)- इस मन्त्रसे हवन करके गृहस्थ पुत्रोंको प्राप्त करता है, इसमें संशय नहीं है। 

इसी प्रकार 'घृतवती भुवनानामभि०' (३४।४५) - इस मन्त्रसे किया गया घृतका होम आयुको बढ़ानेवाला है। 'स्वस्ति न इन्द्रो० (२५।१९)- यह मन्त्र समस्त बाधाओंका निवारण करनेवाला है। 'इह गावः प्रजायध्वम्०'- यह मन्त्र पुष्टिवर्धक है। इससे घृतकी एक हजार आहुतियाँ देनेपर दरिद्रताका विनाश होता है। 'देवस्य त्वा०' इस मन्त्रसे सुवाद्वारा अपामार्ग और तण्डुलका हवन करनेपर मनुष्य विकृत अभिचारसे शीघ्र छुटकारा पा जाता है, इसमें संशय नहीं है। 'रुद्र यत्ते०' (१०।२०) मन्त्रसे पलाशको समिधाओंका हवन करनेसे सुवर्णकी उपलब्धि होती है। अग्रिके उत्पातमें मनुष्य 'शिवो भव०' (११।४५) मन्त्रसे धान्यकी  आहुति दे। 'या सेनाः० (११।७७)- इस मन्त्रसे किया गया हवन चोरोंसे प्राप्त होनेवाले भयको दूर करता है। ब्रह्मन्। जो मनुष्य 'यो अस्मभ्यमरातीयात्० (११।८०)- इस मन्त्रसे काले तिलोंकी एक हजार आहुति देता है, वह विकृत अभिचारसे मुक्त हो जाता है। 'अन्नपते०' (११।८३) - इस मन्त्रसे अन्नका हवन करने से मनुष्य को प्रचुर अन्न प्राप्त होता है। 'हंसः शुचिषत्० (१०।२४) इत्यादि मन्त्रका जल में किया गया जप समस्त पापों का नाश करता है। 'चत्वारि शृङ्गा०' (१७।९१) इत्यादि मन्त्रका जलमें किया गया जप समस्त पापोंका अपहरण करनेवाला है। 'देवा यज्ञमतन्वत०' (१९।१२) इसका जप करके साधक ब्रह्मलोकमें पूजित होता है। 'वसन्तो स्यासीद्' (३१। १४) इत्यादि मन्त्रसे घृतकी आहुति देनेपर भगवान् सूर्यसे अभीष्ट वरकी प्राप्ति होती है। 'सुपर्णोऽसि०' (१७।७२) इत्यादि मन्त्रसे साध्यकर्म व्याहृति-मन्त्रोंसे साध्यकर्मके समान ही होता है। 

'नमः स्वाहा०' आदि मन्त्रका तीन बार जप करके मनुष्य बन्धनसे मोक्ष प्राप्त कर लेता है। जलके भीतर 'हुपदादिव मुमुचानः०' (२०।२०) इत्यादि मन्त्रकी तीन आवृत्तियाँ करके मनुष्य समस्त पापोंसे मुक्त हो जाता है। 'इह गावः प्रजायध्वम्०' इस मन्त्रसे घृत, दधि, दुग्ध अथवा खीरका हवन करनेपर बुद्धिको वृद्धि होती है। 'शं नो देवीः० (३६।१२)- इस मन्त्रसे पलाशके फलोंकी आहुति देनेसे मनुष्य आरोग्य, लक्ष्मी और दीर्घ जीवन प्राप्त करता है। 'ओषधीः प्रतिमोदध्वम्० (१२।७७)- इस मन्त्रसे बीज बोने और फसल काटनेके समय होम करनेपर अर्थकी प्राप्ति होती है। 'अश्वावतीर्गोमतीर्न उषासो० (३४।४०) मन्त्रसे पायसका होम करनेसे शान्तिकी प्राप्ति होती है। 'तस्मा अरं गमाम०' (३६।१६) इत्यादि मन्त्रसे होम करनेपर बन्धनग्रस्त मनुष्य मुक्त हो जाता है। 'युवा सुवासा०' (तै० ब्रा० ३।६।१३) इत्यादि मन्त्रसे हवन करनेपर उत्तम वस्त्रोंकी प्राप्ति होती है। 'मुञ्चन्तु मा शपथ्यात्०' (१२।९०) इत्यादि मन्त्रसे हवन करनेपर शाप या शपथ आदि समस्त किल्बिषोंका नाश होता है। 'मा मा हिंसीज्जनिताः (१२।१०२) इत्यादि मन्त्रसे घृतमिश्रित तिलोंका होम शत्रुओंका विनाश करनेवाला होता है। 

'नमोऽस्तु सर्वेभ्यो०' (१३।६) इत्यादि मन्त्रसे घृतका होम एवं 'कृणुष्व पाजः०' (१३।९) इत्यादि मन्त्रसे खीरका होम अभिचारका उपसंहार करनेवाला है। 'काण्डात् काण्डात्०' (१३।२०) इत्यादि मन्त्रसे दूर्वाकाण्डकी दस हजार आहुतियाँ देकर होता ग्राम या जनपदमें फैली हुई महामारीको शान्त करे। इससे रोगपीड़ित मनुष्य रोगसे और दुःखग्रस्त मानव दुःखसे छुटकारा पाता है। परशुराम । 'मधुमान्नो वनस्पतिः०' (१३। २९) इत्यादि मन्त्रसे उदुम्बरकी एक हजार समिधाओंका हवन करके मनुष्य धन प्राप्त करता है तथा महान् सौभाग्य एवं व्यवहारमें विजय लाभ करता है। 'अपां गम्भन्सीद मा त्वा०' (वा० १३।३०) इत्यादि मन्त्रसे हवन करके मनुष्य निश्चय ही पर्जन्यदेवसे वर्षा करवा सकता है। धर्मज्ञ परशुराम! 'अपः पिवन् वौषधीः०' (१४।८) इत्यादि मन्त्रसे दधि, घृत एवं मधुका हवन करके यजमान तत्काल महावृष्टि करवाता है। 'नमस्ते रुद्र०' (१६।१) इत्यादि मन्त्रसे आहुति दी जाय तो यह कर्म समस्त उपद्रवोंका नाशक, सर्वशान्तिदायक तथा महापातकोंका निवारक कहा गया है। 'अध्यवोचदधिवक्ता०' (१६।५) इत्यादि मन्त्रसे आहुति देनेपर व्याधिग्रस्त मनुष्यकी रक्षा होती है। इस मन्त्रसे किया गया हवन राक्षसोंका नाशक, कीर्तिकारक तथा दीर्घायु एवं पुष्टिका वर्धक है। मार्गमें सफेद सरसों फेंकते हुए इसका जप करनेवाला राहगीर सुखी होता है। धर्मज्ञ भृगुनन्दन । 'असौ यस्ताम्रः० (१६।६) इसका पाठ करते हुए नित्य प्रातःकाल एवं सायंकाल आलस्यरहित होकर भगवान् सूर्यका उपस्थान करे। इससे वह अक्षय अन्न एवं दीर्घ आयु प्राप्त करता है। 'प्रमुञ्च धन्वन्० (१६।९-१४) इत्यादि छः मन्त्रोंसे किया गया आयुधोंका अभिमन्त्रण युद्धमें शत्रुओंके लिये भयदायक है, इसमें कोई अन्यथा विचार नहीं करना चाहिये। 'मा नो महान्तम्०' (१६।१५) इत्यादि मन्त्रका जप एवं होम बालकोंके लिये शान्तिकारक होता है। 'नमो हिरण्यबाहवे०' (१६।१७) इत्यादि सात अनुवाकोंसे कड़ए तेलमें मिलायी गयी राईकी आहुति दे तो वह शत्रुओंका नाश करनेवाली होती है। 

'नमो वः किरिकेभ्यो०' (१६।४६) - इस अर्धमन्त्रसे एक लाख कमल- पुष्योंका हवन करके मनुष्य राज्यलक्ष्मी प्राप्त कर लेता है तथा बिल्वफलोंसे उतनी ही आहुतियाँ देनेपर उसे सुवर्णराशिकी उपलब्धि होती है। 'इमा रुद्राय०' (१६।४८) मन्त्रसे तिलोंका होम करनेपर धनकी प्राप्ति होती है। एवं इसी मन्त्रसे घृतसिक्त दूर्वाका हवन करनेपर मनुष्य समस्त व्याधियोंसे मुक्त होता है। परशुराम ! 'आशुः शिशानः०' (१७।३३) यह मन्त्र आयुधोंकी रक्षा एवं संग्राममें सम्पूर्ण शत्रुओंका विनाश करनेवाला है। धर्मज्ञ द्विजश्रेष्ठ! 'वाजश्च मे०' (१८।१५-१९) इत्यादि पाँच मन्त्रोंसे घृतकी एक हजार आहुतियाँ दे। इससे मनुष्य नेत्ररोगसे मुक्त हो जाता है। 'शं नो वनस्पते०' (१९।३८) इस मन्त्रसे घरमें आहुति देनेपर वास्तुदोषका नाश होता है। 'अग्न आयूंषि०' (१९।३८) इत्यादि मन्त्रसे घृतका हवन करके मनुष्य किसीका द्वेषपात्र नहीं होता। 'अपां फेनेन०' (१९।७१) मन्त्रसे लाजाका होम करके योद्धा विजय प्राप्त करता है। 'भद्रा उत प्रशस्तयो०' (१४। ३९) इत्यादि मन्त्रके जपसे इन्द्रियहीन अथवा दुर्बलेन्द्रिय मनुष्य समस्त इन्द्रियोंकी शक्तिसे सम्पन्न हो जाता है। 'अग्निश्च पृथिवी च०' (२६।१) इत्यादि मन्त्र उत्तम वशीकरण है। 

अध्वना० (५।३३) आदि मन्त्रका जप करनेवाला मनुष्य व्यवहार (मुकदमे) में विजयी होता है। कार्यके आरम्भमें 'ब्रह्य क्षेत्रं पवते०' (१९।५) इत्यादि मन्त्रका जप सिद्धि प्रदान करता है। 'संवत्सरोऽसि०' (२७।४५) इत्यादि मन्त्र से घृतकी एक लाख आहुतियाँ देनेवाला रोगमुक्त हो जाता है। 'केतुं कृण्वन्०' (२९।३७) इत्यादि मन्त्र संग्राममें विजय दिलानेवाला है। 'इन्द्रोऽग्निर्धर्मः' मन्त्र युद्धमें धर्मसंगत विजयको प्राप्ति कराता है। 'धन्वना गा०' (२९।३९) मन्त्रका धनुष ग्रहण करनेके समय जप करना उत्तम माना गया है। 'यजीत' यह मन्त्र धनुषकी प्रत्यञ्डाको अभिमन्त्रित करनेके लिये है, ऐसा जानना चाहिये। 'अहिरिव भोगैः (२९।५१) मन्त्रका बाणोंको अभिमन्त्रित करनेमें प्रयोग करे। 'वह्नीनां पिता०' (२९।४२)- यह तूणीरको अभिमन्त्रित करनेका मन्त्र बतलाया गया है। 'युञ्जन्त्यस्य०' (२३।६) इत्यादि मन्त्र अश्वोंको रथमें जोतनेके लिये उपयोगी बताया गया है। 'आशुः शिशानः०' (१७।३३) यह मन्त्र यात्रारम्भके समय मङ्गलके रूपमें पठनीय कहा जाता है। 'विष्णोः क्रमोऽसि०' (१२।५) मन्त्रका पाठ रथारोहणके समय करना उत्तम है। 'आजङ्घन्ति०' (२९।५०) इस मन्त्रसे अश्वको प्रेरित करनेके लिये प्रथम बार चाबुकसे हाँके। 'वाः सेना अभित्वरीः० (११।७७) इत्यादि मन्त्रका शत्रुसेनाके सम्मुख जप करे। 'दुन्दुभ्यः०' इत्यादि मन्त्रसे दुन्दुभि या नगारेको पीटे। इन मन्त्रोंसे पहले हवन करके तब उपर्युक्त कर्म करनेपर योद्धाको संग्राममें विजय प्राप्त होती है। विद्वान् पुरुष 'यमेन दत्तं० (२९।१३) इस मन्त्रसे एक करोड़ आहुतियाँ देकर संग्रामके लिये शीघ्र ही विजयप्रद रथ उत्पन्न कर सकता है। 'आकृष्णेन० (३४।३१) इत्यादि मन्त्रसे साध्यकर्म व्याइतियोंके समान ही होता है। 

'यज्जाग्रतो०' (३४।१) इत्यादि शिवसंकल्प- सम्बन्धी सूक्तोंके जपसे साधकका मन एकाग्र होता है। 'पञ्चनद्यः० (३४।११) इत्यादि मन्त्रसे पाँच लाख घीकी आहुतियाँ देनेपर लक्ष्मीकी प्राप्ति होती है। 'यदाबघ्नन् दाक्षायणाः०' (३४।५२)- इस मन्त्रसे हजार बार अभिमन्त्रित करके सुवर्णको धारण करे। यह प्रयोग शत्रुओंका निवारण करनेवाला होता है। 'इमं जीवेभ्यः०' (३५।१५) मन्त्रसे शिला अथवा डेलेको अभिमन्त्रित करके घरमें चारों ओर फेंक दे। ऐसा करनेवालेको रातमें चोरोंसे भय नहीं होता। 'परीमे गामनेषत्०' (३५।१८)- यह उत्तम वशीकरण मन्त्र है। इस मन्त्रके प्रयोगसे मारनेके लिये आया हुआ मनुष्य भी वशमें हो जाता है। धर्मात्मन् । उक्त मन्त्रसे अभिमन्त्रित भक्ष्य, ताम्बूल, पुष्प आदि किसीको दे दिया जाय तो वह शीघ्र ही देनेवालेके वशीभूत हो जायगा। 'शं नो मित्रः० (३६।९) यह मन्त्र सदैव सभी स्थानोंपर शान्ति प्रदान करनेवाला है। 'गणानां त्वा गणपतिं० (२३।१९) इस मन्त्रसे चौराहेपर सप्तधान्यका हवन करके होता सम्पूर्ण जगत्‌को वशीभूत कर लेता है, इसमें संशय नहीं है। 'हिरण्यवर्णाः शुकयः- इस मन्त्रका अभिषेकमें प्रयोग करना चाहिये। 'शं नो देवीरभीष्टये०' (३६।१२)- यह मन्त्र परम शान्तिकारक है। 'एकचक्र०' इत्यादि मन्त्रसे आज्यभागपूर्वक ग्रहोंके लिये घीकी आहुति देनेपर साधकको शान्ति प्राप्त होती है और निस्संदेह उसे ग्रहोंका कृपाप्रसाद सुलभ हो जाता है। 'गाव उपावतावम्० (३३।२९) एवं 'भग प्रणेतः०' (३४।३६-३७) इत्यादि दो मन्त्रोंसे घृतका हवन करके मनुष्य गौओंकी प्राप्ति करता है। 'प्रवादां षः सोपत्०' इस मन्त्रका ग्रहयज्ञमें प्रयोग होता है। 'देवेभ्यो वनस्पते०' इत्यादि मन्त्रका वृक्षयज्ञमें विनियोग होता है। गायत्रीको विष्णुरूपा जाने। समस्त पापोंका प्रशमन एवं समस्त कामनाओंको पूर्ण करनेवाला विष्णुका परमपद भी वही है॥ २३-८४॥

इस प्रकार आदि आग्रेय महापुराणमें 'यजुर्वेद-विधान-कथन' नामक दो सौ साठवाँ अध्याय पूरा हुआ ॥ २६० ॥

click to read👇

अग्नि पुराण अध्यायः २३१ ]  [ अग्नि पुराण अध्यायः २३२ ]  [ अग्नि पुराण अध्यायः २३३ ] 

अग्नि पुराण अध्यायः २३४ ]  [ अग्नि पुराण अध्यायः २३५ ]  [ अग्नि पुराण अध्यायः २३६ ]

अग्नि पुराण अध्यायः २३७ ]  [ अग्नि पुराण अध्यायः २३८ ] [ अग्नि पुराण अध्यायः २३९ ]

अग्नि पुराण अध्यायः २४० ]  [ अग्नि पुराण अध्यायः २४१ ]  [ अग्नि पुराण अध्यायः २४२ ]

अग्नि पुराण अध्यायः २४३ ] [ अग्नि पुराण अध्यायः २४४ ]  [ अग्नि पुराण अध्यायः २४५ ]

अग्नि पुराण अध्यायः २४६ ]  [ अग्नि पुराण अध्यायः २४७ ]  [ अग्नि पुराण अध्यायः २४८ ]

अग्नि पुराण अध्यायः २४९ ]  [ अग्नि पुराण अध्यायः २५० ]  [ अग्नि पुराण अध्यायः २५१ ]

अग्नि पुराण अध्यायः २५२ ]  [ अग्नि पुराण अध्यायः २५३ ]  [ अग्नि पुराण अध्यायः २५४ ]

अग्नि पुराण अध्यायः २५५ ]  [ अग्नि पुराण अध्यायः २५६ ]  [ अग्नि पुराण अध्यायः २५७ ]

अग्नि पुराण अध्यायः २५८ ]  [ अग्नि पुराण अध्यायः २५९ ]  [ अग्नि पुराण अध्यायः २६० ]

टिप्पणियाँ