अग्नि पुराण दो सौ उनसठवाँ अध्याय ! Agni Purana 259 Chapter !
अग्नि पुराण 259 अध्याय - ऋग्विधानम्
अग्निरुवाच
ऋग्यजुःसामाथर्वविधानं पुष्करोदितम् ।
भुक्तिभुक्तिकरं जप्याद्धोमाद्रामाय तद्वदे ।।१ ।।
पुष्कर उवाच ।
प्रतिवेदन्तु कर्म्माणि कार्य्याणि प्रवदामि ते ।
प्रथमं ऋग्विधानं वै श्रृणु त्वं भुक्तिमुक्तिदम् ।।२ ।।
अन्तर्ज्जले तथा होमे जपतो मनसेप्सितम् ।
कामं करोति गायत्री प्राणायामाद्विशेपतः ।।३ ।।
गायत्र्या दशसाहस्रो जपो नक्ताशिनो द्विज ।
बहुस्नातस्य तत्रैव सर्वकल्पमनाशनः ।।४ ।।
दशायुतानि जप्त्वाऽथ हविष्याशी स मुक्तिभाक् ।
प्रणवो हि परं ब्रह्म तज्जपः सर्वपापहा ।।५ ।।
ओंकारशतकजप्तन्तु नाभिमात्रोदके स्थितः
जलं पिवेत् स सर्वेस्तु पापैर्वै विप्रमुच्यते ।।६ ।।
मात्रात्रयं त्रयो वेदास्त्रयो देवास्त्रयोऽग्नयः ।
महाव्याहृतयः सप्त लोका होमोऽखिलाघहा ।।७ ।।
गायत्री परमा जाप्या महाव्याहृतयस्तथा ।
अन्तर्ज्जले तथा रामप्रोक्तश्चैवाघमर्षणः ।।८ ।।
अग्निमीले पुरोहितं सूक्तोऽयं वह्निदैवतः ।
शिरसा धारयन् वह्निं यो जपेत्परिवत्सरम् ।।९ ।।
होमं त्रिषवणं भैक्ष्यमनग्निज्चवलनञ्चरेत् ।
अतः परमृचः सप्त वाय्वाद्या याः प्रकीर्त्तिताः ।।१० ।।
ता जपन् प्रयतो नित्यमिष्टान् कामान् समश्नुते ।
मेधाकामो जपेन्नित्यं सदसन्यमितित्यृचम् ।।११ ।।
अन्वयो यन्निमाः प्रोक्ताः नवर्चो मृत्युनाशनाः ।
शुनःशेफमृषिं बद्धः सन्निरुद्धोऽथ वा२ जपेत् ।।१२ ।।
मुच्यते सर्वपापेभ्यो गदी वाप्यगदो भवेत् ।
य इच्छेच्छाश्वतं कामं मित्रं प्राज्ञं पुरन्दरं ।।१३ ।।
ऋग्भिः षोड़शभिः कुर्य्यादिन्द्रस्येति दिने दिने ।
हिहण्यस्तूपमित्येतज्जपन् शत्रून् प्रबाधते ।।१४ ।।
क्षेमी भवति चाध्वानो ये ते पन्था जपन् नरः ।
रौद्रीभिः षड्भिरीशानं स्तूयाद् यो वै दिने दिने ।।१५ ।।
चरुं वा कल्पयेद्रौद्रं तस्यशान्तिः पराभवेत् ।
उदित्युदन्तमादित्यमुपतिष्ठन् दिने दिने ।।१६ ।।
क्षिपेज्जलाञ्जलीन् सप्त मनोदुःखविनाशनं ।
द्विषन्तमित्यथार्द्धर्च्चं यद्विप्रान्तं जपन् स्मरेत् ।।१७ ।।
आगस्कृत् सप्तरात्रेण विद्वेषमधिगच्छति ।
आरोग्यकामी रोगी वा प्रस्कन्नस्योत्तमं जपेत् ।।१८ ।।
उत्तमस्तस्य चार्द्धर्च्चो जपेद्वै विविधासने ।
उदयत्यायुरक्ष्यय्यं तेजो मध्यन्दिने जपेत् ।।१९ ।।
अस्तं प्रतिगते सूर्य्ये द्विषन्तं प्रतिबाधते ।
न वयश्चेति सूक्तानि जपन् शत्रून्नियच्छति ।।२० ।
एकाद्श सुपर्णस्य सर्व्वकामान्विनिर्द्दिशेत् ।
आद्यात्मिकी कइत्येता जपन्मोक्षमवाप्नुयात् ।।२१ ।।
आ नो भद्रा इत्यनेन दीर्घमायुरबाप्नुयात् ।
त्वं सीमेति च सूक्तेन नवं पश्येन्निशाकरं ।।२२ ।।
उपतिष्ठेत् समित्पाणिर्व्वासांस्याप्नोत्यसंशयं ।
आयुरीप्सन्निममिति कौत्स सूक्तं सदा जपे ।।२३ ।।
आपनः शोशुचदिति स्तुत्वा मध्ये दिवाकरं ।
यथा मुञ्चति चेषीकां तथा पापं प्रमुञ्चति ।।२४ ।।
जातवेदस इत्येतज्जपेत् स्वस्त्ययनं पथि ।
भयैर्व्विमुच्यते सर्व्वः स्वस्तिमानाप्नुयात् गृहान् ।।२५ ।।
व्युष्टायाञ्च तथा रात्र्यामेतद्दुःस्वप्ननाशनं ।
प्रमन्दिनेति सूयन्त्या जपेद्गर्भविमोचनं ।।२६ ।।
जपन्निन्द्रमिति स्नातो वै श्वदेवन्तु सप्तकं ।
मुञ्चत्याज्यं तथा जुह्वत् सकलं किल्विषं नरः ।।२७ ।।
इमामिति जपन् शश्वत् कामानाप्नोत्यभीप्सितान् ।
मानस्तोक इति द्वाभ्यां त्रिरात्रोपोषितः शुचिः ।।२८ ।।
औडुम्बरीश्च जुहुयात्समिधश्चाज्यसंस्कृताः ।
छित्त्वा सर्व्वान्मृत्युपाशान् जीवेद्रोगविवर्जितः ।।२९ ।।
ऊद्र्ध्ववाहुरनेनैव स्तुत्वा शम्भुं तथैव च ।
मानस्तोकेति च ऋचा शिखाबन्धे कृते नरः ।।३० ।।
अधृष्यः सर्वभूतानां जायते संशयं विना ।
चित्रमित्युपतिष्ठेत त्रिसन्ध्यं भास्करं तथा ।।३१ ।।
समित्पाणिर्नरो नित्यमीप्सितं धनमाप्नुयात् ।
अथ स्वप्नेति च जपन् प्रातर्मध्यन्दिने दिने ।।३२ ।।
दुःस्वप्नञ्चार्द्दते कृत्स्नं भोजनञ्चाप्नुयाच्छुभम् ।
उभे पुमानिति तथा रक्षोघ्नः परिकीर्त्तितः ।।३३ ।।
उभे वासा इति ऋचो जपन् कामानवाप्नुयात् ।
न सागान्निति च जपन् मुच्यते चाततायिनः ।।३४ ।।
कया शुभेति च जपन् जातिश्रैष्ठमवाप्नुयात् ।
इमन्नृसोममित्येतत् सर्व्वान् कामानवाप्नुयात् ।।३५ ।।
पितरित्युपतिष्ठेत नित्यमर्थमुपस्थितं ।
अग्ने नयेति सूक्तेन घृतहोमश्च मार्गगः ।।३६ ।।
वीरान्नयमवाप्नोति सुश्लोकं यो जपेत् सदा।
सङ्कतो नेति सूक्तेन विषान् सर्व्वान् व्यपोहति ।।३७ ।।
यो जात इति सूक्तेन सर्व्वान् कामानवाप्नुयात् ।
गणानामिति सूक्तेन स्निग्धमाप्नोत्यनुत्तमं ।।३८ ।।
यो मे राजन्नितीमांन्तु दुःस्वप्नशमनीमृचं ।
अध्वनि प्रस्थितो यस्तु पश्येच्छत्रुं समुत्थितं ।।३९ ।।
अप्रसस्तं प्रशस्तं वा कुविदङ्ग इमं जपेत् ।
द्वाविंशकं जपन् सूक्तमाध्यात्मिकमनुत्तमं ।।४० ।।
पर्वसु प्रयतो नित्यमिष्टान् कामान् समश्नुते ।
कृणुष्वेति जपन् सूक्तं जुह्वदाज्यं समाहितः ।।४१ ।।
अरातीनां हरेत् प्राणान् रक्षांस्यपि विनाशयेत् ।
उपतिष्ठेत् स्वयं वह्निं परित्यचा दिने दिने ।।४२ ।।
तं रक्षति स्वयं वह्निर्व्विश्वतो विश्वतोमुखः ।
हंसः शुचिः सदित्येतच्छुचिरीक्षेद्दिवाकरं ।।४३ ।।
कृषिं प्रपद्यमानस्तु स्थालीपाकं यथाविधि ।
जुहुयात् क्षेत्रमध्ये तु स्वनीस्वाहास्तु पञ्चभिः ।।४४ ।।
इन्द्राय च मरुद्ब्यस्तु पर्ज्जन्याय भगाय च ।
यथालिङ्गन्तु विहरेल्लाङ्गलन्तु कृषीबलः ।।४५ ।।
युक्तो धान्याय सीतायै सुनासीरमथोत्तरं ।
गन्धमाल्यैर्नमस्कारैर्यजेदेताश्च देवताः ।।४६ ।।
प्रवापने प्रलवने खलसीतापहारयोः ।
अमोघङ्गर्म्म भवति वर्द्धते सर्व्वदा कृषिः ।।४७ ।।
समुद्रादिति सूक्तेन कामानाप्नोति पावकात् ।
विश्वानर इति द्वाभ्यां य ऋग्भ्यां वह्निमर्हति ।।४८ ।।
स तरत्यापदः सर्व्वा यशः प्राप्नोति चाक्षयं ।
विपुलां श्रियमाप्नोति जयं प्राप्नोत्यनुत्तमं ।।४९ ।
अग्ने त्वमिति च स्तुत्वा धनमाप्नोति वाञ्छितं ।
प्रजाकामो जपेन्नित्यं वरुणदैवतत्रयं ।।५० ।।
स्वस्त्या त्रयं जपेत् प्रातः सदा स्वस्त्ययनं महत् ।
स्वस्ति पन्था इति प्रोच्य स्वस्तिमान् व्रजतेऽध्वनि ।।५१ ।।
विजीगीषुर्वनस्पते शत्रणां व्याधितं भवेत् ।
स्त्रिया गर्भप्रमूढाया गर्भमोक्षणमुत्तमं ।।५२ ।।
अच्छावदेति सूक्तञ्च वृष्टिकामः प्रयोजयेत् ।
निराहारः क्लिन्नवासा न चिरेण प्रवर्षति ।।५३ ।।
मनसः काम इत्येतां पशुकामो नरो जपेत् ।
कर्द्दमेन इति स्नायात्प्रजाकामः शुचिव्रतः ।।५४ ।।
अश्वपूर्वा इति स्नायाद्राज्यकामस्तु मानवः ।
रोहिते चर्म्मणि स्नायात् ब्राह्मणस्तु यथाविधि ।।५५ ।।
राजा चर्म्मणि वैयाघ्रे छागे वैश्यस्तथैव च ।
दशसाहस्रिको होमः प्रत्येकं परिकीर्त्तितः ।।५६ ।।
आगार इति सूक्तेन गोष्ठे गां लोकमातरं ।
उपतिष्ठेद् व्रजेच्चैव यदिच्छेत्ताः सदाक्षयाः ।।५७ ।।
उपेतितिसृभी राज्ञो दुन्दुभिमभिमन्त्रयेत् ।
तेजो बलञ्ज प्राप्नोति शत्रुञ्चैव नियच्छति ।।५८ ।।
तृणपाणिर्ज्जपेत्सूक्तं रक्षोघ्नं दस्युभिर्वृतः ।
ये के च ज्मेत्यृचं जप्त्वा दीर्घमायुरवाप्नुयात्६ ।।५९ ।।
जमूतमृक्तेन तथा सेनाङ्गान्यभिमन्त्रयेत् ।
यधा लिङ्गं ततो राजा विनिहन्ति रणे रिपून् ।।६० ।।
आग्नेयेति त्रिभिः सूक्तैर्धनमाप्नोति चाक्षयं ।
अमीवहेति सूक्तेन भूतानि स्थापयेन्निशि ।।६१ ।।
संबाधे विषमे दुर्गे बन्धो वा निर्गतः क्कचित् ।
पलायन् वा गृहीतो वा सूक्तमेतत्तथा जपेत् ।।६२ ।।
त्रिरात्रं नियतोपोष्य श्रापयेत् पायसञ्चरुं ।
तेनाहुतिशतं पूर्णं जुहुयात् त्र्यम्बकेत्यृचा ।।६३ ।।
समुद्दिश्य महादेवं जीवेदब्दशतं सुखं ।
तच्चक्षुरित्यचा स्नात उपतिष्ठेद्दिवाकरं ।।६४ ।।
उद्यन्तं मध्यागञ्चैव दीर्घमायुर्ज्जिजीविषुः ।
इन्द्रा सोमेति सूक्तन्तु कथितं शत्रुनाशनं ।।६५ ।।
यस्य लुप्तं व्रतं मोहाद्व्रात्यैर्वा संसृजेत्सह ।
उपोष्याज्यं स जुहुयात्त्वमग्ने व्रतपा इति ।।६६ ।।
आदित्येत्यृक् च सम्राजं जप्त्वा वादे जयी भवेत् ।
महीति च चतुष्केण मुच्यते महतो भयात् ।।६७ ।।
ऋचं जप्त्वा यदि ह्येतत् सर्व्वकामानवाप्नुयात् ।
द्वाचत्वारिंशतिं चैन्द्रं जप्त्वा नाशयते रिपून् ।।६८ ।।
वाचं महीति जप्त्वा च प्राप्नोत्यारोग्यमेव च ।
शन्नो भवेति द्वाभ्यान्तु भुक्त्वान्नं प्रथतः शुचिः ।।६९ ।।
हृदयं पाणिना स्पृष्ट्वा व्याधिबिन्नाभिभूयते ।
उत्तभेदमिति स्नातो हुत्वा शत्रुं प्रमापयेत् ।।७० ।।
शन्नोग्न इति सूक्तेन हुतेनान्नमवाप्नुयात् ।
कन्या वारर्षिसूक्तेन दिग्दोषाद्विप्रमुच्यते ।।७१ ।।
यदत्य कव्येत्युदिते जप्तेऽवश्यं जगद्भवेत् ।
यद्वागिति च जप्तेन वाणी भवति संस्कृता ।।७२ ।।
वाचो विदमिति त्वेतां जपन् वाचं समश्नुते ।
पवित्राणां पवित्रन्तु पावमान्येयृचो मताः ।।७३ ।।
वैखानसाऋचस्त्रिंशत्पवित्राः परमा मताः ।
ऋचो द्विषष्टिः प्रोक्ताश्च परस्वेत्यृषिसत्तम ।।७४ ।।
सर्व्वकल्मषनाशाय पावनाय शिवाय च ।
स्वादिष्टयेतिसूक्तानां सप्तषष्टिरुदाहृता ।।७५ ।।
दशोत्तराण्यृचाञ्चैताः पावमान्यः शतानि षट्।
एतज्जपंश्च जुह्वच्च घोरं मृत्युभयं जयेत् ।।७६ ।।
आपोहिष्ठेति वारिस्थो जपेत्पापभयार्द्दने ।
प्रदेवन्नेति नियते जपेच्च मरुधन्वसु ।।७७ ।।
प्राणान्तिके भये प्राप्ते क्षिप्रमायुस्तु विन्दति ।
प्रावेयाबित्यृचमेकां जपेच्च मनसा निशि ।।७८ ।।
व्युष्टायामुदिते सृर्य्ये द्युते जयमवाप्नुयात् ।
मा प्रगामेति मूढश्च पन्थानं पथि विन्दति ।।७९ ।।
क्षीणायुरिति मन्येत् यङ्कञ्चित् सुहृदं प्रियं ।
यक्तेयमिति तु रत्नातस्तस्य मूर्द्धानमालभेत् ।।८० ।।
सहस्रकृत्वः पञ्चाहं तेनायुर्विन्दते महत् ।
इदं मेध्येति जुहुयात् घृतं प्राज्ञः सहस्रशः ।।८१ ।।
पशुकामो गवां गोष्ठे अर्थकामश्चतुष्पथे ।
वयः सुपर्ण इत्येतां जपन् वै विन्दते श्रियं ।।८२ ।।
इविष्यन्तीयमब्यस्य सर्व्वपापैः प्रमुच्यते ।
तस्य रोगा विनश्यन्ति कायाग्निर्वर्द्धते तथा ।।८३ ।।
या ओषधयः स्वस्त्ययनं सर्व्वव्याधिविनाशनं ।
वृहस्पते अतीत्येतद्वृष्टिकामः प्रयोजयेत् ।।८४ ।।
सर्व्वत्रेति परा शान्तिर्ज्ञेया प्रतिरथस्तथा ।
सूत संकाश्यपन्नित्यं प्रजाकामस्य कीर्त्तितं ।।८५ ।।
अहं स्द्रेति इत्येतद्वाग्मी भवति मानवः ।
न योनौ जायते विद्वान् जपन्रतीति रात्रिषु ।।८६ ।।
रात्रिसुक्तं जपन्रात्रौ रात्रिं क्षेमी नयेन्नरः ।
कल्पयन्तीति च चजपन्नित्यं कृत्त्वारिनाशनं ।।८७ ।।
आयुष्यञ्चैव वर्च्चस्यं सूक्तं दाक्षायणं महत् ।
उत देवा इति जपेदामयघ्नं धृतव्रतः ।।८८ ।।
अयप्तग्ने जनित्येतज्जपेदग्निभये सति ।
अरण्यानीत्यरण्येषु जपेत्तद्बयनाशनं ।।८९ ।।
व्राह्मीमासाद्य सूक्ते द्वे ऋचं चब्राह्मीं शतावरीं ।
पृथगद्भिर्घृतैर्वाथ मेधां लक्ष्मीञ्च विन्दति ।।९० ।।
माम इत्यसपत्नघ्नं संग्रामं विजिगीषतः ।
ब्रह्मणोग्निः संविदानं गर्भमृत्युनिवारणं ।।९१ ।।
अपैहीति जपेत्सूक्तं शुषिर्दुस्वप्ननाशनं ।
येनेदमिति वै जप्त्वा समाधिं विन्दते परं ।।९२ ।।
मयो भूर्व्वात इत्येतत् गवां स्वस्त्ययनं परं ।
शाम्वरीमिन्द्रजालं वा मायामेतेन वारयेत् ।।९३ ।।
महीत्रीणामवरस्त्विति पथि स्वस्त्ययनं जपेत् ।
अग्नये बिद्विषन्नेवं जपेच्च रिपुनाशनं ।।९४ ।।
वास्तोष्पतेन मन्त्रेण यजेत् गृहदेवताः ।
जपस्यैष विधिः प्रोक्तो हुते ज्ञेयो विशेषतः ।।९५ ।।
होमान्ते दक्षिणा देयै पापशान्तिर्हुतेन तु ।
हुतं शाम्यति चान्नेन अन्नहेमप्रदानतः ।।९६ ।।
विप्राशिषस्त्वमोघाः स्युषंहिःस्नानन्तु सर्वतः ।
सिद्धार्थका यवा धान्यं पयो दधि घृतं तथा ।।९७ ।।
क्षीरवृक्षास्तथेध्मन्तु हामा वै सर्वकामदाः ।
समिपः कण्टकिन्यश्च राजिका रुधिरं विषं ।।९८ ।।
अबिचारे तथा शैलं अशनं शक्तवः पथः ।
दधि भैक्ष्यं फलं मृलमृग्विधानमुदाहृतं ।।९९ ।।
इत्यादिमहापुराणे आग्नेये ऋग्विधानं नाम उनषष्ट्यधिकद्विशततमोऽध्यायः ।।
अग्नि पुराण दो सौ उनसठवाँ अध्याय हिन्दी मे -Agni Purana 259 Chapter In Hindi
दो सौ उनसठवाँ अध्याय - ऋग्विधान-विविध कामनाओं की सिद्धि के लिये प्रयुक्त होने वाले ऋग्वेदीय मन्त्रों का निर्देश
अग्निदेव कहते हैं- वसिष्ठ! अब मैं महर्षि पुष्करके द्वारा परशुरामजीके प्रति वर्णित ऋग्वेद, यजुर्वेद, सामवेद और अथर्ववेद का विधान कहता हूँ, जिस के अनुसार मन्त्रों के जप और होम से भोग एवं मोक्ष की प्राप्ति होती है॥ १॥
पुष्कर बोले- परशुराम । अब मैं प्रत्येक वेदके अनुसार तुम्हारे लिये कर्तव्यकर्मोंका वर्णन करता हूँ। पहले तुम भोग और मोक्ष प्रदान करनेवाले 'ऋग्विधान'को सुनो। गायत्री मन्त्रका विशेषतः प्राणायामपूर्वक जलमें खड़े होकर तथा होमके समय जप करनेवाले पुरुषकी समस्त मनोवाञ्छित कामनाओंको गायत्री देवी पूर्ण कर देती हैं। ब्रह्मन् ! जो दिनभर उपवास करके केवल रात्रिमें भोजन करता और उसी दिन अनेक बार स्नान करके गायत्री मन्त्रका दस सहस्र जप करता है, उसका वह जप समस्त पापोंका नाश करनेवाला है। जो गायत्रीका एक लाख जप करके हवन करता है, वह मोक्षका अधिकारी होता है। 'प्रणव' परब्रह्म है। उसका जप सभी पापोंका हनन करनेवाला है। नाभिपर्यन्त जलमें स्थित होकर ॐकारका सौ बार जप करके अभिमन्त्रित किये गये जलको जो पीता है, वह सब पापोंसे मुक्त हो जाता है। गायत्रीके प्रथम अक्षर प्रणवकी तीन मात्राएँ- अकार, उकार और मकार ये ही 'ऋक्', 'साम' और 'यजुष्' तीन वेद हैं, ये ही ब्रह्मा, विष्णु और शिव तीनों देवता हैं तथा ये ही गार्हपत्य, आहवनीय और दक्षिणाग्नि-तीनों अग्रियाँ हैं। गायत्रीकी जो सात महाव्याहृतियाँ हैं, वे ही सातों लोक हैं। इनके उच्चारणपूर्वक गायत्री मन्त्रसे किया हुआ होम समस्त पापोंका नाश करने वाला होता है। सम्पूर्ण गायत्री मन्त्र तथा महाव्याहृतियाँ- ये सब जप करनेयोग्य एवं उत्कृष्ट मन्त्र हैं। परशुरामजी। अघमर्षण-मन्त्र 'ऋतं च सत्यं च०' (१०।१९०।१-३) इत्यादि जलके भीतर डुबकी लगाकर जपा जाय तो सर्वपापनाशक होता है।
'अग्निमीळे पुरोहितम्०' (ऋग्वेद १।१।१)- यह ऋग्वेद का प्रथम मन्त्र अग्निदेवता का सूक्त है। अर्थात् 'अग्नि' इसके देवता हैं। जो मस्तकपर अग्निका पात्र धारण करके एक वर्षतक इस सूक्तका जप करता है, तीनों काल स्रान करके हवन करता है, गृहस्थोंके घरमें चूल्हेकी आग बुझ जानेपर उनके यहाँसे भिक्षान्न लाकर उससे जीवननिर्वाह करता है तथा उक्त प्रथम सूक्तके अनन्तर जो वायु आदि देवताओंके सात सूक्त (१।१।२ से ८ सूक्त) कहे गये हैं, उनका भी जो प्रतिदिन शुद्धचित्त होकर जप करता है, वह मनोवाञ्छित कामनाओंको प्राप्त कर लेता है। जो मेधा (धारण शक्ति) को प्राप्त करना चाहे, वह प्रतिदिन 'सदसस्पति०' (१।१८।६-८) इत्यादि तीन ऋचाओंका जप करे ॥ २-११ ॥
'अम्बयो यन्त्यध्वभिः०' (१।२३।१६-२४) आदि ये नौ ऋचाएँ अकालमृत्युका नाश करने वाली कही गयी हैं। कैदमें पड़ा हुआ या अवरुद्ध (नजरबंद) द्विज 'शुनःशेपो यमहृद्गुभीतः ०' (१।२४।१२-१४) इत्यादि तीन ऋचाओंका जप करे। इसके जपसे पापी समस्त पापोंसे छूट जाता है और रोगी रोगरहित हो जाता है। जो शाश्वत कामनाकी सिद्धि एवं बुद्धिमान् मित्रकी प्राप्ति चाहता हो, वह प्रतिदिन इन्द्रदेवताके 'इन्द्रस्थ०' आदि सोलह ऋचाओंका जप करे। 'हिरण्यस्तूपः०' (१०।१४९।५) इत्यादि मन्त्रका जप करनेवाला शत्रुओंकी गतिविधिमें बाधा पहुँचाता है। 'ये ते पन्थाः०' (१।३५।११) का जप करनेसे मनुष्य मार्गमें क्षेमका भागी होता है। जो रुद्रदेवता-सम्बन्धिनी छः ऋचाओंसे प्रतिदिन शिवकी स्तुति करता है, अथवा रुद्रदेवताको चरु अर्पित करता है, उसे परम शान्तिकी प्राप्ति होती है। जो प्रतिदिन 'उद्वयं तमसः ०' (१।५०।१०) तथा 'उदुत्यं जातवेदसम्०० (१।५०।१)- इन ऋचाओंसे प्रतिदिन उदित होते हुए सूर्यका उपस्थान करता है तथा उनके उद्देश्यसे सात बार जलाञ्जलि देता है, उसके मानसिक दुःखका विनाश हो जाता है। 'द्विषन्तं०' इत्यादि आधी ऋचासे लेकर 'यद्विप्राः०' इत्यादि मन्त्रतकका जप और चिन्तन करे। इसके प्रभावसे अपराधी मनुष्य सात ही दिनोंमें दूसरोंके विद्वेषका पात्र हो जाता है ॥ १२-१७॥
आरोग्यको कामना करनेवाला रोगी 'पुरीष्यासोऽग्नयः० (३।२२।४)- इस ऋचाका जप करे। इसी ऋचाका आधा भाग शत्रुनाशके लिये उत्तम है। अर्थात् शत्रुकी बाधा दूर करनेके लिये इसका जप करना चाहिये। इसका सूर्योदयके समय जप करनेसे दीर्घ आयु, मध्याह्नमें जप करनेसे अक्षय तेज और सूर्यास्तकी वेलामें जप करनेसे शत्रुनाश होता है। 'नव यः० (८।९३।२) आदि सूक्तका जप करनेवाला शत्रुओंका दमन करता है। सुपर्ण सम्बन्धिनी ग्यारह ऋचाओंका जप सम्पूर्ण कामनाओंकी प्राप्ति करानेवाला है। अध्यात्मका प्रतिपादन करनेवाली 'क०' आदि ऋचाओंका जप करनेवाला मोक्ष प्राप्त करता है॥ १८-२१ ॥
'आ नो भद्राः ( 2169 12)- इस ऋवाके जपसे दीर्घ आयुकी प्राप्ति होती है। हाथमें समिधा लिये 'त्वं सोम० (९।८६।२४) - इस ऋचासे शुक्लपक्षकी द्वितीयाके चन्द्रमाका दर्शन करे। जो हाथमें समिधा लेकर उक्त मन्त्रसे चन्द्रमाका उपस्थान करता है, उसे निस्संदेह वस्त्रोंकी प्राप्ति होती है। दीर्घ आयु चाहनेवाला 'इर्म०' (218x) आदि कौत्ससूक्तका सदा जप करे। जो मध्याह्नकालमें 'अप नः शोशुचदघम्०' (१।९७।१-८ ) इत्यादि ऋचाके द्वारा सूर्यदेवकी स्तुति करता है, वह अपने पापोंको उसी प्रकार त्याग देता है, जैसे कोई मनुष्य तिनकेसे सॉकको अलग कर लेता है। यात्री 'जातवेदसे० (१।९९।१)- इस मङ्गलमयी ऋचाका मार्गमें जप करे। ऐसा करके वह समस्त भयोंसे छूट जाता और कुशलपूर्वक घर लौट आता है। प्रभातकालमें इसका जप करनेसे दुःस्वप्नका नाश होता है। 'प्र मन्दिने पितुमदर्चता० (१।१०१।१)- इस ऋचाका जप करनेसे प्रसव करनेवाली स्त्री सुखपूर्वक प्रसव करती है। 'इन्द्रम्०' (१।१०६।१) इत्यादि ऋचाका जप करते हुए सात बार बलिवैश्वदेव- कर्म करके घृतका होम करनेसे मनुष्य समस्त पापोंसे छूट जाता है। 'इमाम्० (१०।८५।४५)- इस ऋचाका सदा जप करनेवाला अभीष्ट कामनाओंको प्राप्त कर लेता है। तीन दिन उपवास करके पवित्रतापूर्वक 'मा नस्तोके' (१।११४।८-९) आदि दो ऋचाओंद्वारा गूलरकी घृतयुक्त समिधाओंका हवन करे। ऐसा करनेसे मनुष्य मृत्युके समस्त पाशोंका छेदन करके रोगहीन जीवन बिताता है। दोनों बाँहें ऊपर उठाकर इसी 'मा नस्तोके०' (१।११४।८) आदि ऋचासे भगवान् शंकरकी स्तुति करके शिखा बाँध लेनेपर मनुष्य सम्पूर्ण भूत-प्राणियोंके लिये अजेय हो जाता है, इसमें कोई संशय नहीं है। जो मनुष्य हाथमें समिधाएँ लेकर 'चित्रं देवानाम्०' (१।११५।१) इत्यादि मन्त्रसे प्रतिदिन तीनों संध्याओंके समय भगवान् भास्करका उपस्थान करता है, वह मनोवाञ्छित धन प्राप्त कर लेता है। 'स्वप्नेनाभ्युप्या चुमुरिम्० (? 1341 ?) आदि ऋचाका प्रातः, मध्याह्न और अपराह्नमें जप करनेसे सम्पूर्ण दुःस्वप्नका नाश होता है एवं उत्तम भोजनकी प्राप्ति होती है। 'उभे पुनामि रोदसी०' (१।१३३।१)- यह मन्त्र राक्षसोंका विनाशक कहा गया है। 'उभयासो जातवेदः० (२।२।१२ १३) आदि ऋचाओंका जप करनेवाला मनोऽभिलषित वस्तुओंको प्राप्त करता है। 'तमागन्म सोमरयः० (८।१९।३२) ऋचाका जप करनेवाला मनुष्य आततायीके भयसे छुटकारा पाता है॥ २२-३४॥
'कया शुभा सवयसः०' (१।१६५।१) इस ऋचाका जप करनेवाला अपनी जातिमें श्रेष्ठताको प्राप्त करता है। 'इमं नु सोमम् ०' (१।१७९।५) इस ऋचाका जप करनेसे मनुष्यको समस्त कामनाओंकी प्राप्ति होती है। 'पितुं नु स्तोषं०' (१।१८७।१) ऋचासे नित्य उपस्थान करनेपर नित्य अन्न उपस्थित होता है। 'अग्ने नय सुपथा०' (१।१८९।१) - इस सूक्तसे घृतका होम किया जाय तो वह परलोकमें उत्तम मार्ग प्रदान करनेवाला होता है। जो सदा सुश्लोकका जप करता है, वह वीरोंको न्यायके मार्गपर ले जाता है। 'कङ्कतो न कङ्कतो० (१।१९१।१)- इस सूक्तका जप सब प्रकारके विघ्नोंका प्रभाव दूर कर देता है। 'यो जात एव प्रथमो० (२।१२)- इस सूक्तका जप करनेवाला सभी कामनाओंको प्राप्त कर लेता है। 'गणानां त्वा०' (? 1 ??1?) सूक्तके जपसे उत्तम स्निग्ध पदार्थ प्राप्त होता है। 'यो मे राजन्०' (२।२८।१०) - यह ऋचा दुःस्वप्नोंका शमन करनेवाली है। मार्गमें प्रस्थित हुआ जो मनुष्य अपने सामने प्रशस्त या अप्रशस्त शत्रुको खड़ा हुआ देखे, वह 'कुविदङ्ग०' इत्यादि मन्त्रका जप करे, इससे उसकी रक्षा हो जाती है। बाईसवें उत्तम आध्यात्मिक सूक्तका पर्वकालमें जप करनेवाला मनुष्य सम्पूर्ण अभीष्ट कामनाओंको प्राप्त कर लेता है। 'कृणुष्व पाजः०' (४।४।१)- इस सूक्तका जप करते हुए एकाग्रचित्तसे घीकी आहुति देनेवाला पुरुष शत्रुओंके प्राण ले सकता है तथा राक्षसोंका भी विनाश कर सकता है। जो स्वयं 'परि०' इत्यादि सूक्तसे प्रतिदिन अग्निका उपस्थान करता है, विश्वतोमुख अग्निदेव स्वयं उसकी सब ओरसे रक्षा करते हैं। 'हंसः शुचिषत्' (४१४०।५) इत्यादि मन्त्रका जप करते हुए सूर्यका दर्शन करे। ऐसा करनेसे मनुष्य पवित्र हो जाता है ॥ ३५-४३ ॥
कृषिमें संलग्न गृहस्थ मौन रहकर क्षेत्रके मध्यभागमें विधिवत् स्थालीपाक होम करे। ये आहुतियाँ 'इन्द्राय स्वाहा। मरुद्भयः स्वाहा। पर्जन्याय स्वाहा। एवं भगाय स्वाहा।' कहकर उन-उन देवताओंके निमित्त अग्रिमें डाले। फिर जैसे स्वीकी योनिमें बीज-वपनके लिये जननेन्द्रियका व्यापार होता है, उसी तरह किसान धान्यका बीज बोनेके लिये हराईके साथ हलका संयोग करे और 'शुनासीराविमां० (४।५७।५) - इस ऋचाका जप भी करावे। इसके बाद गन्ध, माल्य और नमस्कारके द्वारा इन सबके अधिष्ठाता देवताओंकी पूजा करे। ऐसा करनेपर बीज बोने, फसल काटने और फसलको खेतसे खलिहान में लानेके समय किया हुआ सारा कर्म अमोघ होता है, कभी व्यर्थ नहीं जाता। इससे सदैव कृषिकी वृद्धि होती है। 'समुद्रादूर्मिर्मधुमान्०' (४।५८।१) इस सूक्तके जपसे मनुष्य अग्निदेवसे अभीष्ट वस्तुओंकी प्राप्ति करता है। जो 'विश्वानि नो दुर्गहा० (41 18 - 20) आदि दो ऋचाओंसे जो अग्निदेवका पूजन करता है, वह सम्पूर्ण विपत्तियोंको पार कर जाता है और अक्षय यशकी प्राप्ति करता है। इतना ही नहीं, वह विपुल लक्ष्मी और उत्तम विजयको भी हस्तगत कर लेता है। 'अग्ने त्वम्० (412 - 11) इस ऋचासे अग्रिकी स्तुति करनेपर धनकी प्राप्ति होती है। संतानकी अभिलाषा रखनेवाला वरुणदेवता-सम्बन्धी तीन ऋचाओंका नित्य जप करे ॥ ४४-५०॥
'स्वस्ति न इन्द्रो०' (१।८९।६-८) आदि तीन ऋचाओंका सदा प्रातःकाल जप करे। यह महान् स्वस्त्ययन है। 'स्वस्ति पन्थामनु चरेम० (५।५१।१५)- इस ऋचाका उच्चारण करके मनुष्य मार्गमें सकुशल यात्रा करता है। 'वि जिहीष्व वनस्पते०' (५।७८।५) के जपसे शत्रु रोगग्रस्त हो जाते हैं। इसके जपसे गर्भवेदनासे मूच्छित स्त्रीको गर्भके संकटसे भलीभाँति छुटकारा मिल जाता है। वृष्टिकी कामना करनेवाला निराहार रहकर भीगे वस्त्र पहने हुए 'अच्छा बद०' (५।८३) आदि सूक्तका प्रयोग करे। इससे शीघ्र ही प्रचुर वर्षा होती है। पशुधनकी इच्छा रखनेवाला मनुष्य 'मनसः कामम्०' (श्रीसूक्त १०) इत्यादि ऋचाका जप करे। संतानाभिलाषी पुरुष पवित्र व्रत ग्रहण करके 'कर्दमेन० (श्रीसूक्त ११)- इस मन्त्रसे स्नान करे। राज्यकी कामना रखनेवाला मानव 'अश्वपूर्वा०' (श्रीसूक्त ३) इत्यादि ऋचाका जप करता हुआ स्नान करे। ब्राह्मण विधिवत् रोहितचर्मपर, क्षत्रिय व्याघ्रचर्मपर एवं वैश्य बकरेके चर्मपर नान करे। प्रत्येकके लिये दस-दस सहस्र होम करनेका विधान है। जो सदा अक्षय गोधनकी अभिलाषा रखता हो, वह गोष्ठमें जाकर 'आ गावो अग्मन्नुत भद्रम्० (६।२८।१) ऋचाका जप करता हुआ लोकमाता गौको प्रणाम करे और गोचरभूमितक उसके साथ जाय। राजा 'उप०' आदि तीन ऋचाओंसे अपनी दुन्दुभियोंको अभिमन्त्रित करे। इससे वह तेज और बलकी प्राप्ति करता है और शत्रुपर भी काबू पाता है। दस्युओंसे घिर जानेपर मनुष्य हाथमें तूण लेकर 'रक्षोघ्न-सूक्त' (१०।८७) का जप करे। 'ये के च ज्या०० (६।५२।१५) इस ऋचाका जप करनेसे दीर्घायुकी प्राप्ति होती है। राजा 'जीमूत सूक्त से सेनाके सभी अङ्गोंको उसके चिड़के अनुसार अभिमन्त्रित करे। इससे वह रणक्षेत्रमें शत्रुओंका विनाश करनेमें समर्थ होता है। 'प्राग्नये' (७।५) आदि तीन सूक्तोंके जपसे मनुष्यको अक्षय धनकी प्राप्ति होती है। 'अमीवहा' (७।५५)- इस सूक्तका पाठ करके रात्रिमें भूतोंकी स्थापना करे। फिर संकट, विषम एवं दुर्गम स्थलमें, बन्धनमें या बन्धनमुक्त अवस्थामें, भागते अथवा पकड़े जाते समय सहायताकी इच्छासे इस सूक्तका जप करे। तीन दिन नियमपूर्वक उपवास रखकर खीर और चरु पकावे। फिर 'त्र्यम्बकं यजामहे० (७।५९।१२) मन्त्रसे उसकी सौ आहुतियाँ भगवान् महादेवके उद्देश्यसे अग्निमें डाले तथा उसीसे पूर्णाहुति करे। दीर्घकालतक जीवित रहनेकी इच्छावाला पुरुष स्नान करके 'तच्चक्षुर्देवहितम्०' (७।६६।१६) - इस ऋचासे उदयकालिक एवं मध्याह्नकालिक सूर्यका उपस्थान करे। 'न हि०' आदि चार ऋचाओंक पाठसे मनुष्य महान् भयसे मुक्त हो जाता है। 'पर ऋणा सावी:" (२।२८।९-१०) आदि दो ऋचाओंसे होम करनेपर ऐश्वर्यकी उपलब्धि होती है। 'इन्द्रा सोमा तपतम्० (७।१०४) से प्रारम्भ होनेवाला सूक्त शत्रुओंका विनाश करनेवाला कहा गया है। मोहवश जिसका व्रत भङ्ग हो गया अथवा व्रात्य संसर्गक कारण जो पतित हो गया है, वह उपवास करके 'त्वमग्ने व्रतपा० (८।११।१)- इस ऋचासे घृतका होम करे। 'आदित्य' और 'सम्राजा'- इन दोनों ऋचाओंका जप करनेवाला शास्त्रार्थमें विजयी होता है। 'मही०' आदि चार ऋचाओंके जपसे महान् भयसे मुक्ति मिलती है। 'यदि०' इत्यादि ऋचाका जप करके मनुष्य सम्पूर्ण कामनाओंको प्राप्त कर लेता है। इन्द्रदेवतासम्बन्धिनी बयालीसवीं ऋचाका जप करनेसे शत्रुओंका विनाश होता है। 'वाचं मही०' इस ऋचाका जप करके मनुष्य आरोग्यलाभ करता है। प्रयत्नपूर्वक पवित्र हो 'शं नो भव०' (८।४८।४-५) - इन दो ऋचाओंके जपपूर्वक भोजन करके हृदयका हाथसे स्पर्श करे। इससे मनुष्य कभी व्याधिग्रस्त नहीं होता। स्नान करके 'उत्तमेदम्०' इस मन्त्रसे हवन करके पुरुष अपने शत्रुओंका विनाश कर डालता है। 'शंनो अग्नि०' (७।३५) - इस सूक्तसे हवन करनेपर मनुष्य धन पाता है। 'कन्या वाखायती०' (८।९१)- इस सूक्तका जप करके वह दिग्भ्रमके दोषसे छुटकारा पाता है। सूर्योदयके समय 'यदद्यकच्च०' (८।९३।४) - इस ऋचाका जप करनेसे सम्पूर्ण जगत् वशीभूत हो जाता है। 'यद्वा० (८।१००।१०)- इत्यादि ऋचाके जपसे वाणी संस्कारयुक्त होती है। 'वचोविदम्' (८।१०१।१६) ऋचाका मन-ही-मन जप करनेवाला वाक्-शक्ति प्राप्त करता है। पावमानी ऋचाएँ परम पवित्र मानी गयी हैं। वैखानस सम्बन्धिनी तीस ऋचाएँ भी परम पवित्र मानी गयी हैं। ऋषिश्रेष्ठ परशुराम । 'परस्य०' इत्यादि बासठ ऋचाएँ भी पवित्र कही गयी हैं। 'स्वादिष्ठया०' (९।१-६७) इत्यादि सरसठ सूक्त समस्त पापोंके नाशक, सबको पवित्र करनेवाले तथा कल्याणकारी कहे गये हैं। छः सौ दस पावमानी ऋचाएँ कही गयी हैं। इनका जप और इनसे हवन करनेवाला मनुष्य भयंकर मृत्युभयको जीत लेता है। पाप-भयके विनाशके लिये 'आपो हि ष्ठाः' (१०।९।१-३) इत्यादि ऋचाका जलमें स्थित होकर जप करे। 'प्र देवत्रा ब्रह्मणे' (१०।३०।१) - इस ऋचाका मरुप्रदेशमें मनुष्य प्राणान्तक भयके उपस्थित होनेपर नियमपूर्वक जप करे। उससे शीघ्र भयमुक्त होकर मनुष्य दीर्घायु प्राप्त करता है। 'प्रा वेपा मा बृहतः (१०।३४।१)- इस एक ऋचाका प्रातःकाल सूर्योदयके समय मानसिक जप करे। इससे द्यूतमें विजयकी प्राप्ति होती है। 'मा प्र गाम' (१०।५७।१)- इस ऋचाका जप करनेसे पथभ्रान्त मनुष्य उचित मार्गको पा जाता है। यदि अपने किसी प्रिय सुहृद्की आयु क्षीण हुई जाने तो स्नान करके 'यत्ते यमं०' (१०।५८।१)- इस मन्त्रका जप करते हुए उसके मस्तकका स्पर्श करे। पाँच दिनतक हजार बार ऐसा करनेसे वह लंबी आयु प्राप्त करता है। विद्वान् पुरुष 'इदमित्था रौद्रं गूर्तवचा०' (१०।६१।१) - इस ऋचासे घृतकी एक हजार आहुतियाँ दे। पशुओंकी इच्छा करनेवालेको गोशालामें और अर्थकामीको चौराहेपर हवन करना चाहिये। 'वयः सुपर्णा०' (१०।७३। ११)- इस ऋचाका जप करनेवाला लक्ष्मीको प्राप्त करता है। 'हविष्यान्तमजरं स्वर्विदि०' (१०। ८८।१) - इस मन्त्रका जप करके मनुष्य सम्पूर्ण पापोंसे मुक्त हो जाता है, उसके रोग नष्ट हो जाते हैं तथा उसकी जठराग्रि प्रबल हो जाती है। 'या ओषधयः०' यह मन्त्र स्वस्त्ययन (मङ्गलकारक) है। इसके जपसे रोगोंका विनाश हो जाता है। वृष्टिकी कामना करनेवाला 'बृहस्पते अति यदर्यो० (२।२३।१५) आदि ऋचाका प्रयोग करे। 'सर्वत्र०' इत्यादि मन्त्रके जपसे अनुपम पराशान्तिकी प्राप्ति होती है, ऐसा जानना चाहिये। संतानकी कामनावाले पुरुषके लिये 'संकाश्य- सूक्त का जप सदा हितकर बताया गया है। 'अहं रुद्रेभिर्वसुभिः०' (१०। १२५।१)- इस ऋचाके जपसे मानव प्रवचनकुशल हो जाता है। 'रात्री व्यख्यदायती०' (१०।१२७। १) - इस ऋचाका जप करनेवाला विद्वान् पुरुष पुनर्जन्मको नहीं प्राप्त होता। रात्रिके समय 'रात्रिसूक्त'का जप करनेवाला मनुष्य रात्रिको कुशलपूर्वक व्यतीत करता है। 'कल्पयन्ती'- इस ऋचाका नित्य जप करनेवाला शत्रुओंका विनाश करनेमें समर्थ होता है। 'दाक्षायणसूक्त' महान् आयु एवं तेजकी प्राप्ति कराता है। 'उत देवाः०' (१०।१३७।१)- यह रोगनाशक मन्त्र है। व्रतधारणपूर्वक इसका जप करना चाहिये। अग्रिसे भय होनेपर 'अयमग्ने जरिता त्वे०' (१०।१४२।१) इत्यादि ऋचाका जप करे। जंगलोंमें 'अरण्यान्य-रण्यानि०' (१०।१४६।१)- इस मन्त्रका जप करे तो भयका नाश होता है। ब्राह्मीको प्राप्त करके ब्रह्म-सम्बन्धिनी दो ऋचाओंका जप करे और पृथक् पृथक् जलसे ब्राह्मीलता एवं शतावरीको ग्रहण करे। इससे मेधाशक्ति और लक्ष्मीकी प्राप्ति होती है। 'शाश इत्त्था०' (१०।१५२११)- यह ऋचा शत्रुनाशिनी मानी गयी है। संग्राममें विजयकी अभिलाषा रखनेवाले वीरको इसका जप करना चाहिये। 'ब्रह्मणाग्रिः संविदानः (१०।१६२। १)- यह ऋचा गर्भमृत्युका निवारण करनेवाली है॥ ५१-९१॥
'अपेहि० (१०। १६४) इस सूक्तका पवित्र होकर जप करना चाहिये। यह दुःस्वप्नको नाश करनेवाला है। 'येनेदम्०' इत्यादि ऋचाका जप करके साधक परम समाधिमें स्थिर होता है। 'मयोभूर्वातः०' (१०।१६९।१)- यह ऋचा गौओंके लिये परम मङ्गलकारक है। इसके द्वारा शाम्बरी माया अथवा इन्द्रजालका निवारण करे।'महि त्रीणामवोऽस्तु० (१०।१८५।१) - इस कल्याणकारी ऋचाका मार्गमें जप करे। द्वेषपात्रके प्रति विद्वेष रखनेवाला पुरुष 'प्राग्ग्रये०' (१०।१८७।१) इत्यादि ऋचाका जप करे, इससे शत्रुओंका नाश होता है। 'वास्तोष्पते०' आदि चार मन्त्रोंसे गृहदेवताका पूजन करे। यह जपकी विधि बतायी गयी है। अब हवनमें जो विशेष विधि है, वह जाननी चाहिये। होमके अन्तमें दक्षिणा देनी चाहिये। होमसे पापकी शान्ति, अन्नसे होमकी शान्ति और स्वर्णदानसे अन्नको शान्ति होती है। इससे मिलनेवाले ब्राह्मणोंके आशीर्वाद कभी व्यर्थ नहीं जाते। यजमानको सब ओरसे बाह्य स्रान करना चाहिये। सिद्धार्थक (सरसों), यव, धान्य, दुग्ध, दधि, घृत, क्षीरवृक्षकी समिधाएँ हवनमें प्रयुक्त होनेपर सम्पूर्ण कामनाओंको सिद्ध करने वाली हैं तथा अभिचार में कण्टकयुक्त समिधा, राई, रुधिर एवं विषका हवन करें। होमकालमें शिलोञ्छवृत्तिसे प्राप्त अन्न, भिक्षान्न, सत्तू, दूध, दही एवं फल-मूलका भोजन करना चाहिये। यह 'ऋग्विधान' कहा गया है॥ ९२-९८॥
इस प्रकार आदि आग्रेय महापुराणमें 'ऋग्विधानका कथन' नामक दो सौ उनसठवाँ अध्याय पूरा हुआ ॥ २५९॥
टिप्पणियाँ