अग्नि पुराण दो सौ बावनवाँ अध्याय ! Agni Purana 252 Chapter !
अग्निरुवाच
भ्रान्तमुद् भ्रान्तमाविद्धमाप्लुतं विप्लुतं सृतं ।
सम्पातं समुदीशञ्च श्येनपातमथाकुलं ।। १ ।।
उद्धूतमवधूतञ्च सव्यं दक्षिणमेव च ।
अनालक्षितविस्फोटौ करालेन्द्रमहासखौ ।। २ ।।
विकरालनिपातौ च विभीषणभयानकौ ।
समग्रार्द्धतीयांशपादपादार्द्धवारिजाः ।। ३ ।।
प्रात्यालीढमथालीढं वराहं लुलितन्तथा ।
इति द्वात्रिंशतो ज्ञेयाः खड्गचर्मविधौ रणे ।। ४ ।।
परवृत्तमपावृत्तं गृहीतं लघुसञ्ज्ञितं ।
ऊद्र्ध्वात् क्षइप्तमधः क्षिप्तं सन्धारितविधारितं ।। ५ ।।
श्येनपातं गजपानं ग्राहग्राह्यन्तथैव च ।
एवमेकादशविधा ज्ञेयाः पाशविधा रणाः ।। ६ ।।
ऋज्वायतं विशालञ्च तिर्य्यग्भ्रामितमेव च ।
पञ्चकर्म विनिर्द्दिष्टं व्यस्ते पाशे महात्मभिः ।। ७ ।।
छेदनं भेदनं पातो भ्रमणं शयनं तथा ।
विकर्त्तनं कर्त्तऩञ्च चक्रकर्मेदमेव च ।। ८ ।।
आस्फोटः क्ष्वेडनं भेदस्त्रासान्दोलितकौ तथा ।
शूलकर्माणि जानीहि षष्ठमाघातसञ्ज्ञितं ।। ९ ।।
दृष्टिघातं भुजाघातं पार्श्वघातं द्विजोत्तम ।
ऋजुपक्षेषुणा पातं तोमरस्य प्रकीर्त्तितं ।। १० ।।
आहतं विप्र गोमूत्रप्रभूतङ्कमलासनं ।
ततोर्द्धगात्रं नमितं वामदक्षिणमेव च ।। ११ ।।
आवृत्तञ्च चपरावृत्तं पादोद्धतमवप्लुतं ।
हंसमर्द्दं विमर्दञ्च३ गदाकर्म प्रकीर्त्तितं ।। १२ ।।
करालमवघातञ्च दंशोपप्लुतमेव च ।
क्षिप्तहस्तं स्थितं शून्यं परशोस्तु विनिर्दिशेत् ।। १३ ।।
ताडनं छेदनं विप्र तथा चूर्णनमेव च ।
मुद्गरस्य तु कर्माणि तथा प्लवनघातनं ।। १४ ।।
सं श्रान्तमथ विश्रान्तं गोविसर्गं सुदुर्द्धरं ।
भिन्दिपालस्य कर्माणि लगुडस्य च तान्यपि ।। १५ ।।
अन्त्यं मध्यं परावृत्तं निदेशान्तं द्विजोत्तम ।
वज्रस्यैतानि कर्माणि लगुडस्य च तान्यपि ।। १६ ।।
हरणं छेदनं घातो बलोद्धारणमायतं ।
कृपाणकर्म निर्दिष्टं पातनं स्फोटनं तथा ।। १७ ।।
त्रासनं रक्षणं घातो बलोद्धरणमायतम् ।
क्षेपणीकर्म निर्दिष्टं यन्त्रकर्मैतदेव तु ।। १८ ।।
सन्त्यागमवदंशश्च वराहोद्धूतकं तथा ।
हस्तावहस्तमालीनमेकहस्तावहस्तके ।। १९ ।।
द्विहस्तवाहुपाशे च कटिरेचितकोद्गते ।
उरोललाटघाते च भुजाविधमनन्तथा ।। २० ।
द्विहस्तवाहुपाशे च कटिरेचिककोद्गते ।
गात्रसंश्लेषणं शान्तं तथा गात्रविपर्य्ययः ।। २१ ।।
ऊद्र्ध्वप्र्हारं घातञ्च गोमूत्रं सव्यदक्षिणे ।
पारकन्तारकं दण्डं करवीरन्धमाकुलं ।। २२ ।।
तिर्य्यग्बन्धमपामार्गं५ भीमवेगं सुदर्शनं ।
सिंहाक्रान्तं गजाक्रान्तं गर्द्दभाक्रान्तमेव च ।। २३ ।।
गदाकर्माणि जानीयान्नियुद्धस्याथ कर्म च ।
आकर्षणं विकषञ्च बाहूनां मूलमेव च ।। २४ ।।
ग्रीवाविपरिवर्त्तञ्च पृष्ठभङ्गं सुदारुणं ।
पर्य्यासनविपर्य्यासौ पशुमारमजाविकं ।। २५ ।।
पादप्रहारमास्फोटं ककटिरेचितकन्तथा ।
गात्रश्लेषं स्कन्धगतं महीव्याजनमेव च ।। २६ ।।
उरोललाटघातञ्च विस्पष्टकरणन्तथा ।
उद्धूतमवधूतञ्च तिर्य्यङ्मार्गगतं तथा ।। २७ ।।
गजस्कन्धमवक्षेपमपराङ्मुखमेव च ।
देवमार्गमधोमार्गममार्गगमनाकुलं ।। २८ ।।
यष्टिघातमवक्षेपो वसुधादारणन्तथा ।
जानुबन्धं भुजाबन्धं गात्रबन्धं सुदारुणं ।। २९ ।।
विपृष्ठं सोदकं शुभ्रं भुजावेष्टितमेव च ।
सन्नद्धैः संयुगे भाव्यं सशस्त्रैस्तैर्गजादिभिः ।। ३० ।।
वराङ्कुशधरौ चोभौ एको ग्रीवागतोऽपरः ।
स्कन्धगौ द्वौ च धानुष्कौ द्वौ च खड्गधरौगजे ।। ३१ ।।
रथे रणे गजे चैव तुरङ्गाणां त्रयं भवेत् ।
धानुष्काणान्त्रयं प्रोक्तं रक्षआर्थे तुरगस्य च ।। ३२ ।।
धन्विनो रक्षणार्थाय चर्मिणन्तु६ नियोजयेत् ।
स्वमन्त्रैः शस्त्रमभ्यर्च्य शास्त्रान्त्रैलोक्यमोहनं ।। ३३ ।।
यो युद्धे याति स जयेदरीन् सम्पालयेद्भुवं ।।
इत्यादिमहापुराणे आग्नेये नाम द्विपञ्चाशदधिकद्विशततमोऽध्यायः ।
अग्नि पुराण दो सौ बावनवाँ अध्याय हिन्दी मे -Agni Purana 252 Chapter In Hindi
click to read👇
[ अग्नि पुराण अध्यायः २३१ ] [ अग्नि पुराण अध्यायः २३२ ] [ अग्नि पुराण अध्यायः २३३ ]
[ अग्नि पुराण अध्यायः २३४ ] [ अग्नि पुराण अध्यायः २३५ ] [ अग्नि पुराण अध्यायः २३६ ]
[ अग्नि पुराण अध्यायः २३७ ] [ अग्नि पुराण अध्यायः २३८ ] [ अग्नि पुराण अध्यायः २३९ ]
[ अग्नि पुराण अध्यायः २४० ] [ अग्नि पुराण अध्यायः २४१ ] [ अग्नि पुराण अध्यायः २४२ ]
[ अग्नि पुराण अध्यायः २४३ ] [ अग्नि पुराण अध्यायः २४४ ] [ अग्नि पुराण अध्यायः २४५ ]
[ अग्नि पुराण अध्यायः २४६ ] [ अग्नि पुराण अध्यायः २४७ ] [ अग्नि पुराण अध्यायः २४८ ]
[ अग्नि पुराण अध्यायः २४९ ] [ अग्नि पुराण अध्यायः २५० ] [ अग्नि पुराण अध्यायः २५१ ]
[ अग्नि पुराण अध्यायः २५२ ] [ अग्नि पुराण अध्यायः २५३ ] [ अग्नि पुराण अध्यायः २५४ ]
[ अग्नि पुराण अध्यायः २५५ ] [ अग्नि पुराण अध्यायः २५६ ] [ अग्नि पुराण अध्यायः २५७ ]
[ अग्नि पुराण अध्यायः २५८ ] [ अग्नि पुराण अध्यायः २५९ ] [ अग्नि पुराण अध्यायः २६० ]
टिप्पणियाँ