अग्नि पुराण दो सौ छियालीसवाँ अध्याय ! Agni Purana 246 Chapter !
अग्निरुवाच
रत्नानां लक्षणां वक्ष्ये रत्नं धार्य्यमिदं नपैः ।
वज्रं मरकतं रत्नं पद्मरागञ्च मौक्तिकं ।। १ ।।
इन्द्रनीलं महानीलं वैदूर्य्यं गन्धशस्यकं ।
चन्द्रकान्तं सूर्यकान्तं स्फटिकं पुलकं तथा ।। २ ।।
कर्केतनं पूष्परागं तथा ज्योतीरसं द्विज ।
स्फटिकं राजपट्टञ्च तथा राजमयं शुभं ।। ३ ।।
सौगन्धिकं तथा गञ्जं शङ्खब्र्ह्ममयं तथा ।
गोमेदं रुधिराक्षञ्च तथा भल्लातकं द्विज ।। ४ ।।
धूलीं मरकतञ्चैव तुथकं सीसमेव च ।
पीलुं प्रवालकञ्चैव गिरिवज्रं द्विजोत्तम ।। ५ ।।
भूजङ्गममणिञ्चैव तथा वज्रमणिं शुभं ।
टिट्टिभञ्च तथा पिण्डं भ्रामरञ्च तथोत्पलं ।। ६ ।।
सुवर्णप्रतिबद्धानि रत्नानि श्रीजयादिके ।
अन्तःप्रभावं वैमल्यं सुसंस्थानत्वमेव च ।। ७ ।।
सुधार्या नैव धार्य्यास्तु निष्प्रभा मलिनास्तथा ।
खण्डाः सशर्करा ये च प्रशस्तं वज्रधारणम् ।। ८ ।।
अम्भस्तरति यद्वज्रमभेद्यं विमलं च यत् ।
षट्कोणं शक्रचापाबं लघु चार्कनिभं शुभम् ।। ९ ।।
शुकपक्षनिभः स्निग्धः कान्तिमान्विमलस्तथा ।
स्वर्णचूर्णनिभैः सूक्ष्मैर्मरकतश्च विन्दुभिः ।। १० ।।
स्फटिकजाः पद्मरागाः स्यू रागवन्तोऽतिनिर्म्मलाः ।
जातवङ्गा भवन्तीह कुरुविन्दसमुद्भवाः ।। ११ ।।
सौगन्धिकोत्थाः काषाया मुक्ताफलास्तु शुक्तिजाः ।
विमलास्तेभ्य उत्कृष्टा ये च शङखोद्भवा मुने ।। १२ ।।
नागदन्तभवाश्चाग्र्याः कुम्भशूकरमत्स्यजाः ।
वेणुनागभवाः श्रेष्ठा मौक्तिकं नागजं वरं ।। १३ ।।
वृत्तत्वं शुक्लता स्वाच्छ्यं महत्त्वं मौक्तिके गुणाः ।
इन्द्रनीलं शुभं क्षीरे रजते भ्राजतेऽधिकं१ ।। १४ ।।
रञ्जयेत् स्वप्रभावेण तममूल्यं विनिर्द्दिशेत् ।
नीलरक्तन्तु वैदूर्य्यं श्रेष्ठं हारादिकं भजेत्२ ।। १५ ।।
इत्यादिम्हापुराणे आग्नेये रत्नपरिक्षा नाम षट्चत्वारिंशदधिकद्विशततमोऽध्यायः ।।
अग्नि पुराण दो सौ छियालीसवाँ अध्याय हिन्दी मे -Agni Purana 246 Chapter In Hindi
click to read👇
[ अग्नि पुराण अध्यायः २३१ ] [ अग्नि पुराण अध्यायः २३२ ] [ अग्नि पुराण अध्यायः २३३ ]
[ अग्नि पुराण अध्यायः २३४ ] [ अग्नि पुराण अध्यायः २३५ ] [ अग्नि पुराण अध्यायः २३६ ]
[ अग्नि पुराण अध्यायः २३७ ] [ अग्नि पुराण अध्यायः २३८ ] [ अग्नि पुराण अध्यायः २३९ ]
[ अग्नि पुराण अध्यायः २४० ] [ अग्नि पुराण अध्यायः २४१ ] [ अग्नि पुराण अध्यायः २४२ ]
[ अग्नि पुराण अध्यायः २४३ ] [ अग्नि पुराण अध्यायः २४४ ] [ अग्नि पुराण अध्यायः २४५ ]
[ अग्नि पुराण अध्यायः २४६ ] [ अग्नि पुराण अध्यायः २४७ ] [ अग्नि पुराण अध्यायः २४८ ]
[ अग्नि पुराण अध्यायः २४९ ] [ अग्नि पुराण अध्यायः २५० ] [ अग्नि पुराण अध्यायः २५१ ]
[ अग्नि पुराण अध्यायः २५२ ] [ अग्नि पुराण अध्यायः २५३ ] [ अग्नि पुराण अध्यायः २५४ ]
[ अग्नि पुराण अध्यायः २५५ ] [ अग्नि पुराण अध्यायः २५६ ] [ अग्नि पुराण अध्यायः २५७ ]
[ अग्नि पुराण अध्यायः २५८ ] [ अग्नि पुराण अध्यायः २५९ ] [ अग्नि पुराण अध्यायः २६० ]
टिप्पणियाँ