अग्नि पुराण दो सौ सत्रहवाँ अध्याय ! Agni Purana 217 Chapter !
अग्निरुवाच
लिङ्गमूर्तिं शिवं स्तुत्वा गायत्र्या योगमाप्तवान् ।
निर्वाणं परमं ब्रह्म वसिष्ठोऽन्यश्च शङ्करात् ॥१
नमः कनकलिङ्गाय वेदलिङ्गाय वै नमः ।
नमः परमलिङ्गाय व्योमलिङ्गाय वै नमः ॥२
नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः ।
नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः ॥३
नमः पाताललिङ्गाय ब्रह्मलिङ्गाय वै नमः ।
नमो रहस्यलिङ्गाय सप्तद्वीपोर्धलिङ्गिने ॥४
नमः सर्वात्मलिङ्गाय सर्वलोकाङ्गलिङ्गिने ।
नमस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः ॥५
नमोऽहङ्कारकिङ्गाय भूतलिङ्गाय वै नमः ।
नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने ॥६
नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः ।
नमो रजोर्धलिङ्गाय सत्त्वलिङ्गाय वै नमः ॥७
नमस्ते भवलिङ्गाय नमस्त्रैगुण्यलिङ्गिने ।
नमोऽनागतलिङ्गाय तेजोलिङ्गाय वै नमः ॥८
नमो वायूर्ध्वलिङ्गाय श्रुतिलिङ्गाय वै नमः ।
नमस्तेऽथर्वलिङ्गाय सामलिङ्गाय वै नमः ॥९
नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः ।
नमस्ते तत्त्वलिङ्गाय देवानुगतलिङ्गिने ॥ १०
दिश नः परमं योगमपत्यं मत्समन्तथा ।
ब्रह्म चैवाक्षयं देव शमञ्चैव परं विभो ॥ ११
अक्षयन्त्वञ्च वंशस्य धर्मे च मतिमक्षयां ।
अग्निरुवाच
वसिष्ठेन स्तुतः शम्भुस्तुष्टः श्रीपर्वते पुरा ॥ १२
वसिष्ठाय वरं दत्त्वा तत्रैवान्तरधीयत ॥१३॥
इत्याग्नेये महापुराणे गायत्रीनिर्वाणं नाम सप्तदशाधिकद्विशततमोऽध्यायः ॥
अग्नि पुराण - दो सौ सत्रहवाँ अध्याय ! हिन्दी मे -Agni Purana 217 Chapter!-In Hindi
click to read 👇
[ अग्नि पुराण अध्यायः २०७ ] [ अग्नि पुराण अध्यायः २०८ ] [ अग्नि पुराण अध्यायः २०९ ]
[ अग्नि पुराण अध्यायः २१० ] [ अग्नि पुराण अध्यायः २११ ] [ अग्नि पुराण अध्यायः २१२ ]
[ अग्नि पुराण अध्यायः २१३ ] [ अग्नि पुराण अध्यायः २१४ ] [ अग्नि पुराण अध्यायः २१५ ]
[ अग्नि पुराण अध्यायः २१६ ] [ अग्नि पुराण अध्यायः २१७ ] [ अग्नि पुराण अध्यायः २१८ ]
[ अग्नि पुराण अध्यायः २१९ ] [ अग्नि पुराण अध्यायः २२० ] [ अग्नि पुराण अध्यायः २२१ ]
[ अग्नि पुराण अध्यायः २२२ ] [ अग्नि पुराण अध्यायः २२३ ] [ अग्नि पुराण अध्यायः २२४ ]
[ अग्नि पुराण अध्यायः २२५ ] [ अग्नि पुराण अध्यायः २२६ ] [ अग्नि पुराण अध्यायः २२७ ]
[ अग्नि पुराण अध्यायः २२८ ] [ अग्नि पुराण अध्यायः २२९ ] [ अग्नि पुराण अध्यायः २३० ]
टिप्पणियाँ