अग्नि पुराण - एक सौ नवासीवाँ अध्याय ! Agni Purana 189 Chapter !
एक सौ नवासीवाँ अध्याय श्रवण-द्वादशी व्रतका वर्णन
अग्निरुवाच
श्रवणाद्वादशीं वक्ष्ये मासि भाद्रपदे सिते ।
श्रवणेन युता श्रेष्ठा महती सा ह्युपोषिता ॥१
सङ्गमे सरितां स्नानाच्छ्रवणद्वादशोफलं ।
बुधश्रवणसंयुक्ता दानादौ सुमहाफला ॥२
निषिद्धमपि कर्तव्यन्त्रयोदश्यान्तु पारणं ।
द्वादृश्याञ्च निराहारो वामनं पूजयाम्यहं ॥३
उदकुम्भे स्वर्णमयन्त्रयोदश्यान्तु पारणं ।
आवाहयाम्यहं विष्णुं वामनं शङ्खचक्रिणं ॥४
सितवस्त्रयुगच्छन्ने घटे सच्छत्रपादुके ।
स्नापयामि जलैः शुद्धैर्विष्णुं पञ्चामृतादिभिः ॥५
छत्रदण्डधरं विष्णुं वामनाय नमो नमः ।
अर्घ्यं ददामि देवेश अर्घ्यार्हाद्यैः सदार्चितः ॥६
भुक्तिमुक्तिप्रजाकीर्तिसर्वैश्वर्ययुतं कुरु ।
वामनाय नमो गन्धं होमोऽनेनाष्टकं शतं ॥७
ओं नमो वासुदेवाय शिरः सम्पूजयेद्धरेः ।
श्रीधराय मुखं तद्वत्कण्ठे कृष्णाय वै नमः ॥८
नमः श्रीपतये वक्षो भुजो सर्वास्त्रधारिणे ।
व्यापकाय नमो नाभिं वामनाय नमः कटिं ॥९
त्रैलोक्यजयकायेति मेढ्रं जङ्घे यजेद्धरेः ।
सर्वाधिपतये पादौ विष्णोः सर्वात्मने नमः ॥१०
घृतपक्वञ्च नैवेद्यन्दद्याद्दध्योदनैर्घटान् ।
रात्रौ च जागरं कृत्वा प्रातः स्नात्वा च सङ्गमे ॥११
गन्धपुष्पादिभिः पूज्य वदेत्पुष्पाञ्जलिस्त्विदं ।
नमो नमस्ते गोविन्द बुधश्रवणसञ्ज्ञित ॥१२
अघौघसङ्क्षयं कृत्वा सर्वसौख्यप्रदो भव ।
प्रीयतान्देव देवेश मम नित्यञ्जनार्दन ॥१३
वामनो बुद्धिदो दाता द्रव्यस्थो वामनः स्वयं ।
वामनः प्रतिगृह्णाति वामनो मे ददाति च ॥१४
द्रव्यस्थो वामनो नित्यं वामनाय नमो नमः ।
प्रदत्तदक्षिणो विप्रान् सम्भोज्यान्नं स्वयञ्चरेत् ॥१५
इत्याग्नेये महा पुराणे श्रवणद्वादशीव्रतं नामैकोननवत्यधिकशतत्मोऽध्यायः ॥
अग्नि पुराण - एक सौ नवासीवाँ अध्याय !-हिन्दी मे -Agni Purana 189 Chapter!-In Hindi
- संकल्प-मन्त्र
द्वादश्यां च निराहारो वामनं पूजयाम्यहम् ॥
उदकुम्भे स्वर्णमयं त्रयोदश्यां तु पारणम्।
- आवाहन-मन्त्र
आवाहयाम्यहं विष्णुं वामनं शङ्खचक्रिणम् ॥
सितवस्त्रयुगच्छत्रे घटे सच्छत्रपादुके।
- स्नानार्पण-मन्त्र
स्नापयामि जलैः शुद्धैर्विष्णुं पञ्चामृतादिभिः ॥
छत्रदण्डधरं विष्णुं वामनाय नमो नमः।
- अध्यदान-मन्त्र
अर्घ्य ददामि देवेश अर्ध्याहांडीः सदार्चितः ॥
भुक्तिमुक्तिप्रजाकीर्तिसर्वेश्वर्ययुतं कुरु।
नमो नमस्ते गोविन्द बुधश्रवणसंज्ञित ॥
अघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव।
प्रीयतां देवदेवेश मम नित्यं जनार्दन ॥
वामनो बुद्धिदो दाता द्रव्यस्थो वामनः स्वयम्।
वामनः प्रतिगृह्णाति वामनो मे ददाति च ॥
वामनो नित्यं वामनाय नमो नमः।
click to read 👇
[अग्नि पुराण अध्यायः १८१] [अग्नि पुराण अध्यायः १८२] [अग्नि पुराण अध्यायः १८३]
[अग्नि पुराण अध्यायः १८४] [अग्नि पुराण अध्यायः १८५] [अग्नि पुराण अध्यायः १८६]
[अग्नि पुराण अध्यायः १८७] [अग्नि पुराण अध्यायः १८८] [अग्नि पुराण अध्यायः १८९]
[अग्नि पुराण अध्यायः १९०] [अग्नि पुराण अध्यायः १९१] [अग्नि पुराण अध्यायः १९२]
[अग्नि पुराण अध्यायः १९३] [अग्नि पुराण अध्यायः १९४] [अग्नि पुराण अध्यायः १९५]
[अग्नि पुराण अध्यायः १९६] [अग्नि पुराण अध्यायः १९७] [अग्नि पुराण अध्यायः १९८]
टिप्पणियाँ