श्री भैरवी त्रैलोक्य विजय कवच
॥ श्री देव्युवाच ॥
भैरव्याः सकला विद्याः श्रुताश्चाधिगता मया।
सांप्रतं श्रोतुमिच्छामि कवचं यत्पुरोदितम् ॥१ ॥
त्रैलोक्यविजयं नाम शस्वास्वविनिवारणम् ।
त्वत्तः परतरो नाथ कः कृपां कर्तुमर्हति ॥२॥
॥ ईश्वर उवाच ॥
शृणु पार्वति वक्ष्यामि सुन्दरी प्राणवल्लभे ।
त्रैलोक्यविजयं नाम शस्वास्वविनिवारकम् ॥३॥
पठित्वा धारयित्वेदं त्रैलोक्यविजयी भवेत्।
जघान सकलान्दैत्यान् यद्धृत्वा मधुसूदनः ॥४॥
ब्रह्मासृष्टिं वितनुते यद्युत्वाभीष्टदायकम्।
धनाधिपः कुबेरोऽपि वासवस्विदशेश्वरः ॥५॥
यस्य प्रसादादीशोऽहं त्रैलोक्यविजयी विभुः ।
न देवं परशिष्येभ्योऽसाधकेभ्यः कदाचन ॥६॥
पुत्रेभ्यः किमथान्येभ्यो दद्याच्वेन्मृत्युमाप्नुयात्।
ऋषिस्तु कवचस्यास्य दक्षिणामूर्तिरव च ॥७॥
विराट् छन्दो जगद्धात्री देवता बालभैरवी ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥८ ॥
अधरो बिन्दुमानाद्यः कामः शक्तिशशीयुतः ।
भृगुर्मनुस्वरयुतः सगाँबीजत्रयात्मकः ॥९॥
बालैषा मे शिरः पातु बिन्दुनादयुतापि सा।
भालं पातु कुमारीशा सर्गहीना कुमारिका ॥१०॥
दृशौ पातु च वाग्बीजं कर्णयुग्मं सदावतु ।
कामबीजं सदा पातु घ्राणयुग्मं परावतु ॥११॥
सरस्वतीप्रदा बाला जिह्वां पातु शुचिप्रभा।
हौं कंठं इसकलरी स्कंधौ पातु हस्त्रौ भुजौ ॥१२॥
पंचमी भैरवी पातु करौ हसैं सदावतु।
हृदयं हसकलीं वक्षः पातु हसौः स्तनौ मम ॥१३॥
पातु सा भैरवी देवी चैतन्यरूपिणी मम।
हखें पातु सदा पार्श्वयुग्मं हसकलरीं सदा ॥१४॥
कुक्षिं पातु हसौर्मध्ये भैरवी भुवि दुर्लभा।
ऐंहुँओंवं मध्यदेशं बीजविद्या सदावतु ॥१५॥
हस्त्रं पृष्ठं सदा पातु नाभिं हसकलह्रीं सदा।
पातु हसाँ करौ पातु षट्कूटा भैरवी मम ॥१६॥
सहस्त्रै सक्थिनी पातु सहसकलरी सदावतु।
गुह्यदेशं हस्त्रों पातु जनुनी भैरवी मम ॥१७॥
संपत्प्रदा सदा पातु हैं जंचे हसक्लीं पदी।
पातु हंसौः सर्वदेहं भैरवी सर्वदावतु ॥१८॥
हसैं मामवतु प्राच्यां हरक्लीं पावकेऽवतु ।
हसीं मे दक्षिणे पातु भैरवी चक्रसंस्थिता ॥१९॥
ह्रीं क्लीं स्वें मां सदा पातु निर्ऋत्यां चक्रभैरवी ।
क्रीं क्रीं क्रीं पातु वायव्ये हूं हूं पातु सदोत्तरे ॥२०॥
ह्रीं ह्रीं पातु सदैशान्ये दक्षिणे कालिकावतु ।
ऊर्द्ध प्रागुक्तबीजानि रक्षन्तु मामधः स्थले ॥२१॥
दिग्विदिक्षु स्वाहा पातु कालिका खड्गधारिणी ।
ॐ ह्रीं स्वीं हूं फट् सा तारा सर्वत्र मां सदावतु ॥२२॥
संग्रामे कानने दुर्गे तोये तरंगदुस्तरे।
खड्ङ्गकत्रिंधरा सोग्रा सदा मां परिरक्षतु ॥२३॥
इति ते कथितं देवि सारात्सारतरं महत् ।
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ॥२४॥
यः पठेत्प्रयतो भूत्वा पूजायाः फलमाप्नुयात्।
स्पर्द्धमूद्धय भवने लक्ष्मीर्वाणी वसेत्ततः ॥२५॥
यः शत्रुभीतो रणकातरो वा भीतो वने वा सलिलालये वा।
वादे सभायां प्रतिवादिनी वा रक्षःप्रकोपाद् ग्रहसकुलाद्वा ॥२६॥
प्रचंडदंडाक्षमनाच्च भीतो गुरोः प्रकोपादपि कृच्छ्रसाध्यात्।
अभ्यर्च्य देवीं प्रपठेत्त्रिसंध्यं स स्यान्महेशप्रतिमो जयी च ॥२७॥
त्रैलोक्यविजयं नाम कवचं मन्मुखोदितम्।
विलिख्य भूर्जगुटिकां स्वर्णस्थां धारयेद्यदि ॥२८ ॥
कंठे वा दक्षिणे बाहाँ त्रैलोक्यविजयी भवेत्।
तद्गात्रं प्राप्य शस्त्राणि भवंति कुसुमानि च ॥२९॥
लक्ष्मीः सरस्वती तस्य निवसेद्धवने मुखे।
एतत्कवचमज्ञात्वा यो जपेद्वैरवी पराम् ।
बालां वा प्रजपेद्विद्वान्दरिद्रो मृत्युमाप्नुयात् ॥ ३० ॥
॥ इति श्रीरुद्रयामले देवीश्ररसंवादे त्रैलोक्यविजयं नाम भैरवीकवचं समाप्तम् ॥
टिप्पणियाँ