श्री त्रिपुर भैरवी कवच,Sri Tripura Bhairavi Kavach

श्री त्रिपुर भैरवी कवच

मां त्रिपुर भैरवी को दशमहाविद्याओं में से एक माना जाता है. कुछ ग्रंथों में उन्हें त्रिमूर्ति से भी श्रेष्ठ माना गया है. शास्त्रों में उन्हें मां काली का ही स्वरूप माना गया है. त्रिपुर भैरवी की जयंती मार्गशीर्ष महीने की पूर्णिमा को मनाई जाती है

श्री त्रिपुर भैरवी कवच,Sri Tripura Bhairavi Kavach

॥ श्री पार्वत्युवाच ॥ 

देवदेव महादेव सर्वशास्त्र विशारद ।
कृपां कुरु जगन्नाथ धम्र्मज्ञोऽसि महामते ॥१ ॥

भैरवी या पुरा प्रोक्ता विद्या त्रिपुरपूर्विका ।
तस्यास्तु कवचं दिव्यं महां कथय तत्त्वतः ॥२॥

तस्यास्तु वचनं श्रुत्वा जगाद जगदीश्वरः ।
अद्भुतं कवचं देव्या भैरव्या दिव्यरूपि वै ॥३॥

॥ ईश्वर उवाच ॥

कथयामि महाविद्या कवचं सर्वदुर्लभम्।
शृणुष्व त्वं च विधिना श्रुत्वा गोप्यं तवापि तत् ॥४॥

यस्याः प्रसादात्सकलं बिभर्मि भुवनत्रयम्।
यस्याः सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति ॥५॥

माता पिता जगद्धन्या जगद् ब्रह्मस्वरूपिणी।
सिद्धिदात्री च सिद्धास्या हासिद्धा दुष्टजंतुषु ॥६ ॥

सर्वभूतप्रियकरी सर्वभूतस्वरूपिणी।
ककारी पातु मां देवी कामिनी कामदायिनी ॥७॥

एकारी पातु मां देवी मूलाधारस्वरूपिणी ।
इकारी पातु मां देवी भूरिसर्वसुखप्रदा ॥८ ॥

लकारी पातु मां देवी इन्द्राणी वरवल्लभा ।
ह्रींकारी पातु मां देवी सर्वदा शम्भुसुन्दरी ॥९ ॥

एतैर्वणैर्महामाया शाम्भवी पातु मस्तकम्।
ककारे पातु मां देवी शर्वाणी हर गेहिनी ॥१०॥

मकारे पातु मां देवी सर्वपापप्रणाशिनी ।
ककारे पातु मां देवी कामरूपधरा सदा ॥११॥

ककारे पातु मां देवी शम्बरारिप्रिया सदा।
पकारे पातु मां देवी धरा धरणिरूपधृक् ॥१२॥

हॉकारी पातु मां देवी अकारार्द्ध शरीरिणी।
एतैर्वणैर्महामाया कामराहुप्रियाऽवतु ॥१३॥

मकारः पातु मां देवी सावित्री सर्वदायिनी।
ककारः पातु सर्वत्र कलाम्बर स्वरूपिणी ॥१४॥

लकारः पातु मां देवी लक्ष्मीः सर्वसुलक्षणा ।
ह्रीं पातु मां तु सर्वत्र देवी त्रिभुवनेश्वरी ॥१५॥

एतैर्वणैर्महामाया पातु शक्तिस्वरूपिणी ।
वाग्भवं मस्तकं पातु वदनं कामराजिका ॥१६॥

शक्तिस्वरूपिणी पातु हृदयं यंत्रसिद्धिदा।
सुन्दरी सर्वदा पातु सुन्दरी परिरक्षतु ॥१७ ।।

रक्तवर्णा सदा पातु सुन्दरी सर्वदायिनी।
नानालंकार संयुक्ता सुन्दरी पातु सर्वदा ॥१८ ॥

सर्वांगसुन्दरी पातु सर्वत्र शिवदायिनी।
जगदाह्लाद जननी शम्भुरूपा च मां सदा ॥१९॥

सर्वमंत्रमयी पातु सर्वसौभाग्यदायिनी ।
सर्वलक्ष्मीमयी देवी परमानन्द दायिनी ॥२०॥

पातु मां सर्वदा देवी नानाशंखनिधिः शिवा।
पातु पद्यनिधिर्देवी सर्वदा शिवदायिनी ॥२१॥

मां पातु दक्षिणामूर्तिऋषिः सर्वत्र मस्तके।
पंक्तिश्छन्दः स्वरूपा तु मुखे पातु सुरेश्वरी ॥२२॥

गंधाष्टकात्मिका पातु हृदयं शाङ्करी सदा।
सर्वसम्मोहिनी पातु पातु संक्षोभिणी सदा ॥२३॥

सर्वसिद्धिप्रदा पातु सर्वाकर्षणकारिणी।
क्षोभिणी सर्वदा पातु वशिनी सर्वदावतु ॥२४॥

आकर्षिणी सदा पातु सम्मोहिनी सदावतु ।
रतिर्देवी सदा पातु भगांगा सर्वदावतु ॥२५॥

माहेश्वरी सदा पातु कौमारी सर्वदावतु ।
सर्वाह्लादनकरी मां पातु सर्ववशंकरी ॥२६ ॥

क्षेमंकरी सदा पातु सर्वांगसुन्दरी तथा।
सर्वांग युवतिः सर्वा सर्वसौभाग्यदायिनी ॥२७॥

वाग्देवी सर्वदा पातु वाणिनी सर्वदावतु ।
वशिनी सर्वदा पातु महासिद्धिप्रदा सदा ॥२८॥

सर्वविद्राविणी पातु गणनाथः सदावतु।
दुर्गादेवी सदा पातु वटुकः सर्वदावतु ॥२९॥

क्षेत्रपालः सदा पातु पातु चा वीरशांतिका।
अनंतः सर्वदा पातु वराहः सर्वदावतु ॥३०॥

पृथिवी सर्वदा पातु स्वर्णसिंहासनं तथा।
रक्तामृतं च सततं पातु मां सर्वकालतः ॥३१॥

सुरार्णवः सदा पातु कल्पवृक्षः सदावतु । 
श्वेतच्छत्रं सदा पातु रक्तद्वीपः सदावतु ॥३२॥

सततं नन्दनोद्यानं पातु मां सर्वसिद्धये।
दिक्यालाः सर्वदा पातु द्वन्द्वौघाः सकलास्तथा ॥३३॥

वाहनानि सदा पांतु अस्वाणि पांतु सर्वदा।
शस्त्राणि सर्वदा पातु योगिन्यः पांतु सर्वदा ॥३४॥

सिद्धाः पांतु सदा देवी सर्वसिद्धिप्रदावतु ।
सर्वांगसुन्दरी देवी सर्वदा पातु मां तथा ॥३५॥

आनन्दरूपिणी देवी चित्वरूपा चिदात्मिका ।
सर्वदा सुन्दरी पातु सुन्दरी भवसुन्दरी ॥ ३६॥

पृथग्देवालये घोरे संकटे दुर्गमे गिरी।
अरण्ये प्रांतरे वापि पातु मां सुन्दरी सदा ॥३७॥

इदं कवचमित्युक्तो मंत्रोद्धारश्च पार्वति ।
यः पठेत्प्रयतो भूत्वा त्रिसंध्यं नियतः शुचिः ॥३८॥

तस्य सर्वार्थसिद्धिः स्याद्यद्यन्मनसि वर्तते। 
गोरोचना कुंकुमेन रक्तचन्दननेन वा ॥३९॥

स्वयंभूकुसुमैः शुक्लैर्भूमिपुत्रे शनौ सुरै।
श्मशाने प्रांतरे वापि शून्यागारे शिवालये ॥४०॥

स्वशक्त्या गुरुणां यंत्रं पूजयित्वा कुमारिकाः ।
तन्मनुं पूजयित्वा च गुरुपंक्तिं तथैव च ॥४१॥

देव्यै बलिं निवेद्याथ नरमार्जार सूकरैः।
नकुलैर्महिषैर्मेधैः पूजयित्वा विधानतः ॥४२॥

धृत्वा सुवर्णमध्यस्थं कण्ठे वा दक्षिणे भुजे।
सुतिथौ शुभनक्षत्रे सूर्यस्योदयने तथा ॥४३॥

धारयित्वा च कवचं सर्वसिद्धिं लभेन्नरः।
कवचस्य च माहात्म्यं नाहं वर्षशतैरपि ॥४४॥

शक्नोमि तु महेशानि वक्तुं तस्य फलं तु यद्।
न दुर्भिक्षफलं तत्र न चापि पीडनं तथा ॥४५॥

सर्वविघ्नप्रशमनं सर्वव्याधि - विनाशनम् ।
सर्वरक्षाकरं जंतोश्चतुर्वर्ग- फलप्रदम् ॥४६ ॥

मंत्रं प्राप्य विधानेन पूजयेत्सततं सुधीः।
तत्रापि दुर्लभं मन्ये कवचं देवरूपकम् ॥४७॥

गुरोः प्रसाद मासाद्य विद्यां प्राप्य सुगोपिताम्। 
तत्रापि कवचं दिव्यं दुर्लभं भुवनत्रये ॥४८ ॥

सर्व वा श्लोकमेकं वा यः पठेत्प्रयतः शुचिः।
तस्य सर्वार्थसिद्धिः स्याच्छंकरेण प्रभाषितः ॥४९ ॥

गुरुर्देवो हरः साक्षात्पत्नी तस्य च पार्वती।
अभेदेन भजेद्यस्तु तस्य सिद्धिरदूरतः ॥५०॥

॥ इति श्री रुद्रयामले भैरव भैरवीसंवादे श्री त्रिपुरभैरवी कवर्थ समाप्तम् ॥

ये भी पढ़ें:-

टिप्पणियाँ