श्री छिन्नमस्ता (प्रचण्डचण्डिका स्तवराज) स्तोत्र
आनन्दयित्रि परमेश्वरि वेदगर्भ मातः पुरंदरपुरांतरलब्धनेत्रे ।
लक्ष्मीमशेषजगतां परिभावयंतः सन्तो भर्जति भवतीं धनदेशलब्ध्यै ॥१ ॥
लज्जानुगां विमलविद्रुमकांतिकांतां कान्तानुरागरसिकाः परमेश्वरि त्वाम् ।
ये भावयन्ति मनसा मनुजास्त एते सीमन्तिनीभिरनिशं परिभाव्यमानाः ॥२ ॥
मायामीं निखिलपातककोटिकूटविद्राविणीं भृशमसंशयिनो भजन्ति ।
त्वां पद्मसुंदरतनुं तरुणारुणास्यां पाशांकुशाभयवराद्यकरां वरास्त्रैः ॥३ ॥
ते तर्ककर्कशधियः श्रुतिशास्व शिल्पैश्छंदोऽभिशोभितमुखाः सकलागमज्ञाः ।
सर्वज्ञलब्धविभवाः कुमुदेन्दुवर्णां ये वाग्भवे च भवतीं परिभावयंति ॥४॥
वज्रप्रणुत्रहृदया समयद्वहस्ते वैरोचने मदनमंदिरगास्यमातः ।
मायाद्वयानुगतविग्रहभूषिताऽसि दिव्यास्ववद्भिवनितानुगताऽसि धन्ये ॥५॥
वृत्तत्रयाष्टदलवह्निपुरःसरस्य मार्तण्डमण्डलगतां परिभावयन्ति ।
ये वह्निकूटसदृशीं मणिपूरकान्तस्ते कालकंटकविडंबन चंचवः स्युः ॥६॥
कालागरुभ्रमर चंदनकुण्डगोल- खण्डैरनंगमदनोद्भवमादनीभिः ।
सिन्दूरकुंकुमपटी रहिमैर्विधाय सन्मण्डलं तदुपरीह यजेन्मृडानीम् ॥७॥
चंचत्तडिन्मिहिरकोटिकरां विचेलामुद्यत्कबंधरुधिरां द्विभुजां त्रिनेत्राम् ।
वामे विकीर्णक च शीर्षकरे परे तामीडे परं परमकत्रिकया समेताम् ॥८ ॥
कामेश्वरांगनिलयां कलया सुधांशोर्विभ्राजमानहृदयामपरे स्मरंति ।
सुप्ताहिराजसदृर्शी परमेश्वरस्थां त्वामद्रिराजतनये च समानमानाः ॥९॥
लिंगत्रयोपरिगतामपि वह्निचक्रपीठानुगां सरसिजासनसन्निविष्टाम् ।
सुप्तां प्रबोध्य भवतीं मनुजा गुरूक्तहुंकार वायुवशिभिर्मनसा भजन्ति ॥१०॥
शुभ्रासि शान्तिककथासु तथैव पीता स्तम्भे रिपोरथ च शुभ्रतरासि मातः।
उच्चाटनेऽप्यसितकर्म सुकर्मणि त्वं संसेव्यसे स्फटिककांतिरनन्तचारे ॥११॥
त्वामुत्पलैर्मधुयुतैर्मधुनोपनीतैर्गव्यैः पयोविलुलितैः शतमेव कुंडे ।
साज्यैश्च तोषयति यः पुरुषस्विसंध्यं षण्मासतो भवति शक्रसमो हि भूमौ ॥१२॥
जाग्रत्स्वपन्नपि शिवे तव मन्त्रराजमेवं विचिंतयति यो मनसा विधिज्ञः ।
संसारसागरसमुद्धरणे वहित्रं चित्रं न भूतजननेऽपि जगत्सु पुंसः ॥१३॥
इयं विद्या वंद्या हरिहरविरंचिप्रभृतिभिः पुरारातेरन्तः पुरमिदमगम्यं पशुजनैः ।
सुधामंदानंदैः पशुपतिसमानव्यसनिभिः सुधासेव्यैः सद्भिर्गुरुचरणसंसार चतुरैः ॥१४॥
कुंडे वा मण्डले वा शुचिरध मनुना भाववत्येव मन्त्री, संस्थाप्योच्यैर्जुहोति प्रसवसुफलदैः पद्मपालाशकानाम् ।
हैमंक्षीरैस्तिलैर्वा समधुककुसुमैर्मालती बंधु जाती श्वेतैरब्धंसकानामपि वरसमिधा संपदे सर्वसिद्धयै ॥१५॥
अंधः साज्यं समांसं दधियुतमथवा योऽन्वहं यामिनीनां मध्ये देब्यै ददाति प्रभवति गृहगा श्री रमुष्यावखंडा ॥
आज्यं मांर्स सरक्तं तिलयुतमथवा तंडुलं पायर्स वा हुत्वा मांसं त्रिसंध्यं स भवति मनुजो भूतिभिर्भूतनाथः ॥१६ ॥
इदं देव्याः स्तोत्रं पठति मनुजो यस्विसमयं, शुचिर्भूत्वा विश्वे भवति धनदी वासवसमः ।
यशा भूपाः कांता निखिलरिपुहन्तुः सुरगणा,भर्वत्युच्चैर्वाचो यदिह ननु मासैस्विभिरपि ॥१७॥
॥ इति श्रीशंकराचार्य विरचितः प्रचण्डचण्डिका स्तवराजः सम्पूर्ण ॥
टिप्पणियाँ