श्री कमला स्तोत्र,Shri Kamala Stotra

श्री कमला स्तोत्र

ओङ्कार रूपिणी देवि विशुद्धसत्त्वरूपिणी।
देवानां जननी त्वं हि प्रसन्ना भव सुन्दरी

तन्यावञ्चैव भूतानि तव वक्षःस्थलं स्मृतम्।
त्वमेव वेदगम्या तु प्रसन्ना भव सुन्दरि ॥

देवदानवगंधर्वयक्षराक्षसकिरैः स्तूपसे
त्वं सदा लक्ष्मि प्रसन्ना भव सुन्दरि ॥

लोकातीता द्वैतातीता समस्तभूतवेष्टिता। 
विद्वजनकीर्त्तिता च प्रसना भव सुन्दरि ॥

परिपूर्णा सदा लक्ष्मि जात्री तु शरणार्थिषु। 
विश्वाद्या विश्वकर्मी च प्रसना भव सुन्दरि॥

ब्रह्मरूपा च सावित्री त्वद्दीप्त्या भासते जगत्। 
विश्वरूपा वरेण्या य प्रसत्रा भव सुन्दरि ॥

क्षित्यप्तेजो महद्व्योमपंचभूतस्वरूपिणी। 
बन्धादेः कारणं त्वं हि प्रसत्रा भव सुन्दरि ॥

महेशे त्वं हेमवती कमला केशवेऽपि च। 
ब्रह्मणः प्रेयसी त्वं हि प्रसन्ना भव सुन्दरि ॥

चण्डी दुर्गा कालिका च कौशिकी सिद्धिरूपिणी। 
योगिनी योगगम्या च प्रसजा भव सुन्दरि ॥

बाल्ये च बालिका त्वं हि यौवने युवतीति च। 
स्थविरे वृद्धरूपा च प्रसन्ना भब सुन्दरि ॥

गुणमयी गुणातीता आद्या विद्या सनातनी। 
महत्तत्वादिसंयुक्ता प्रसत्रा भव सुन्दरि ॥

तपस्विनी तपः सिद्धिः स्वर्गसिद्धिस्तदर्थिषु। 
चिन्मयी प्रकृतिस्वं तु प्रसन्ना भव सुन्दरि ॥

त्वमादिर्जगतां देवि त्वमेव स्थितिकारणम्। 
त्वमन्ते निधनस्थानं स्वेच्छाचारा त्वमेव हि॥

चराचराणां भूतानां वहिरन्तस्त्वमेव हि। 
व्याप्यव्यापकरूपेण त्वं भासि भक्तवत्सले ॥

त्वमायया हतज्ञाना नष्टात्मानो विचेतसः। 
गतागतं प्रपद्यन्ते पापपुण्यवशात्सदा ॥

तावन्सत्यं जगद्धाति शुक्तिकारजतं यथा। 
यावन्त्र ज्ञायते ज्ञानं चेतसा मान्वगामिनी ॥

त्वज्ञानात्नु सदा युक्तः पुत्रदारगृहादिषु। 
रमन्ते विषयान्सव्र्व्यानन्ते दुःखप्रदान् ध्रुवम् ॥

स्वदाज्ञया तु देवेशि गगने सूर्यमण्डलम् । 
चन्द्रा धमते नित्यं प्रसत्रा भव सुन्दरि ॥

ब्रहोशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया । 
व्यक्ताव्यक्ता च देवेशि प्रसजा भव सुन्दरि॥

लचला सर्वगा त्वं हि मायातीता महेश्वरि। 
शिवात्या शाश्वता नित्या प्रसत्रा भव सुन्दरि ॥

सर्वकायनियन्त्री च सर्वभूतेश्वरेश्वरी। 
अनन्ता निष्कला त्वं हि प्रसना भव सुन्दरि ॥

सर्वेश्वरी सर्ववन्द्या अधिन्या परमात्मिका। 
भुक्तिमुक्तिप्रदा त्वं हि प्रसना भव सुन्दरि ॥

ब्रह्माणी बहालोके त्वं वैकुण्ठे सर्वमंगला। 
इन्द्राणी अमरावत्यामम्बिका बरुणालये ॥

यमालये कालरूपा कुबेरभवने शुभा। 
महानन्दाग्निकोणे च प्रसत्रा भव सुन्दरि ॥

नैर्ऋत्यां रक्तदन्ता त्वं वायव्यां भूगवाहिनी।
पाताले वैष्णवीरूपा प्रसन्ना भवः सुन्दरि ॥

सुरसा त्वं मणिद्वीपे ऐशान्यां शूलधारिणी। 
भद्रकाली च लंकायां प्रसन्ना भव सुन्दरि ॥

रामेश्वरी सेतुबंधे सिंहले देवमोहिनी।
विमला त्वं च श्रीक्षेत्रे प्रसन्ना भव सुन्दरि ॥

कालिका त्वं कालिघट्टे कामाख्या नीलपर्वते। 
विरंजा ओइदेशे त्वं प्रसत्रा भव सुन्दरि ॥

वाराणस्यामन्नपूर्णा अयोध्यायां महेश्वरी। 
गयासुरी गयाधाम्नि प्रसन्ना भव सुन्दरि ॥

भद्रकाली कुरुक्षेत्रे त्वज्य कात्यायनी व्रजे। 
महामाया द्वारकायां प्रसन्ना भव सुन्दरि ॥

क्षुधा त्वं सर्वजीवानां बेला व सागरस्य हि।
महेश्वरी मथुरायां प्रसन्ना भव सुन्दरि ॥

रामस्य जानकी त्वज्य शिवस्य मनमोहिनी।
दक्षस्य दुहिता चैव प्रसन्ना भव सुन्दरि ॥

विष्णुभक्तिप्रदा त्वं च कंसासुरविनाशिनी । 
रावणनाशिनी चैव प्रसन्ना भव सुन्दरि ॥

लक्ष्मीस्तोत्रमिदं पुण्यं यः पठेद्भक्तिसंयुतः । 
सर्वज्वरभयं नश्येत्सर्वव्याधि निवारणम् ॥

इदं स्तोत्रं महापुण्यमापदुद्धारकारणम् ।
त्रिसंध्यमेकांसन्ध्यं वा यः पठेत्सततः नरः ॥

मुच्यते सर्वपापेभ्यो तथा तु सर्वसंकटात्।
मुच्यते नात्र सन्देहो भुवि स्वर्गे रसातले ॥

समस्तं च तथा चैकं यः पठेद्भक्तितत्परः। 
स सर्वदुष्करं तीत्वां लभते परमां गतिम् ॥

सुखदं मोक्षदं स्तोत्रं यः पठेद्भक्तिसंयुतः। 
स तु कोटितीर्थफलं प्राप्नोति नात्र संशयः ॥

एका देवी तु कमला यस्मिस्तुष्टा भवेत्सदा । 
तस्याऽसाध्यं तु देवेशि नास्ति किंचिण्जरत्रये ॥

पठनादपि स्तोत्रस्य किं न सिद्धयति भूतले। 
तस्मालतोत्रवों प्रोक्तं सत्यं सत्यं हि पार्वति ॥

॥ इति श्री कमला स्तोत्र समाप्तम् ॥

ये भी पढ़ें:- 

माँ मातंगी स्तोत्र, ] [ माँ मातंगी शतनाम स्तोत्र, ] [ मातङ्गी त्रैलोक्य मङ्गल कवच, ]
मातंगी सहस्रनाम स्तोत्र, ]

ये भी पढ़ें:-

[श्री धूमावती सहस्रनाम स्तोत्र, [ श्री धूमावती अष्टोत्तर शतनाम स्तोत्र, ]
[श्री धूमावती स्तुति, 108 अष्टोत्तर शतनामावली, [ श्री धूमावती हृदय स्तोत्र, ]
श्री धूमावती कवच, ]

ये भी पढ़ें:-

टिप्पणियाँ