श्री कमला ( श्री लक्ष्मी ) कवच,Shri Kamala Kavach

श्री कमला कवच

अथ वक्ष्ये महेशानि कवचं सर्वकामदम्। 
यस्य विज्ञानमात्रेण भवेत्साक्षातादाशिवः ॥१॥

नार्चनं तस्य देवेशि मन्त्रमात्र जपेत्ररः । 
स भवेत्पार्वतीपुत्रः सर्वशास्वविशारदः ॥२॥

विद्यार्थिनां सदा सेव्या धनदात्रीविशेषतः । 
धनार्थिभिः सदा सेव्या कमला विष्णुवल्लभा ॥३॥

विनियोगः

अस्थाश्चतुरक्षरी विष्णुवललभायाः कवचस्य श्रीभगवान शिव ऋषिः, 
अनुष्टुप् छन्दी वान्भश्री शक्तिदैवता, याग्भवं बीजं, लज्जा रमा कीलकं, 
काम बीजात्यर्क कवचं मम सुपाण्डित्य कवित्व सर्वसिद्धि समृद्धये पाठे विनियोगः।

ऐङ्कारी मस्तके पातु वाग्भची सर्वसिद्धिदा। 
ह्रीं पातु चक्षुषोर्मध्ये चक्षुर्युग्मे च शाङ्करी ॥४॥

जिह्वायां मुखवृत्ते च कर्णयोर्दन्तयोर्नसि। 
ओष्ठाधरे दन्तपंक्ती तालुमूले हनी पुनः ॥५॥

पानु विष्णुवनिता लक्ष्मीः श्रीवर्णरूपिणी ॥६॥

कर्णयुग्मे भुजद्वन्द्वे स्तनद्वन्द्वे च पार्वती। 
हृदये मणिबन्धे च ग्रीवायां पार्श्वयोः पुनः ॥७॥

पृष्ठदेशे तथा गुहझे वामे च दक्षिणे तथा। 
उपस्थे च नितम्बे च नाभी जंघाद्वये पुनः ॥८॥

जानुचके पदद्वद्वे पुटिके गुलिमूलके। 
स्वधातुप्राणशक्त्यात्मसीमन्ते मस्तके पुनः ॥९॥

बिजया पातु भवने जया पातु सदा मम। 
सबाँगे पातु कामेशी महादेवी सरस्वती ॥१०॥

तुष्टिः पातु महामाया उत्कृष्टिः सर्वदाऽवतु । 
ऋद्धिः पातु महादेवी सर्वत्र शम्भुवल्लभा ॥११॥

वाग्भवी सर्वदा पातु पातु मां हरगेहिनी रमा 
पातु महादेवी पातु माया स्वराद् स्वयं ॥१२॥

सवगि पातु मां लक्ष्मीर्विष्णुमाया सुरेश्वरी। 
शिवदूती सदा पातु सुन्दरी पातु सर्वदा ॥१३॥

शैरवी पातु सर्वत्र भेरुण्डा सर्वदाऽवतु। 
त्वरिता पातु मां नित्यमुग्रतारा सदाऽवतु ॥१४॥

पातु मां कालिका नित्यं कालरात्रिः सदाऽवतु। 
नवदुर्गा सदा पान्तु कामाक्षी सर्वदाऽवतु ॥१५॥

योगिन्यः सर्वदा पान्तु मुद्राः पान्तु सदा मम। 
मात्रा पान्तु सदा देव्यश्चक्क्रस्था योगिनीगणाः ॥१६॥

सर्वत्र सर्वकार्येषु सर्वकर्मसु सर्वदा। 
पातु मां देवदेवी च लक्ष्मीः सर्वसमृद्धिदा ॥१७॥

इति ते कथितं दिव्यं कवयं सर्वसिद्धये। 
यत्र तत्र न चक्तव्यं यदीच्छेदात्मनो हितम् ॥१८॥

शठाय भक्तिहीनाय निन्दकाय महेश्वरी। 
न्यूनांगे चातिरिक्तांगे दर्शयेन कदाचन ॥१९॥

न स्तवं दर्शयेद्दिव्यं सन्दश्वं शिवहा भवेत्। 
कुलीनाय महेच्छाय तुर्गाभक्तिपराय च ॥२०॥

वैष्णवाच विशुद्धाय दद्यात्कवचमुत्तमम् ।
निजशिष्याय शांताय धनिने ज्ञानिने तथा ॥२१॥

दद्यात् कवचमित्युक्तं सर्वतन्वसमन्वितम्। 
शनी मङ्गलवारे च रक्तचन्दनकैस्तथा ॥२२॥

यावकेन लिखेन्मन्वं सर्वतन्त्रसमन्वितम्। 
विलिख्य कवचं दिव्यं स्वयम्भुकुसुमैः शुभैः ॥२३॥

स्वशुक्रः पाशुक्रों नानागन्धसमन्वितैः। 
गोरोचना कुंकुमेन रक्तचन्दनकेन वा ॥२४॥

सुतिधी शुभयोगे वा श्रवणायां रवेर्दिने। 
आश्विन्यां कृत्तिकायां वा फाल्गुन्यां वा मधासु च ॥२५॥

पूर्वभाद्रपदायोगे स्वात्यां मंगलवासरे।
विलखेत्प्रपठेलतोत्रं शुभयोगे सुरालवे ॥२६॥

आयुष्मत्प्रीतियोगे च ब्रह्मयोगे विशेषतः। 
इन्द्रयोगे शुभे योगे शुक्क्रयोगे तथैव च ॥२७॥

कौलके बालके चैव वणिजे चैव सत्तमः। 
शून्यागारे श्मशाने च विजने च विशेषतः ४२८॥

कुमारी पूजयित्वादी यमेदेवी सनातनीम्। 
मलयैमांसैः शाकसूर्यः पूजयेत्यरदेवताम् ॥२९॥

घृताद्यैः सोपकरणः पुष्पभूषैर्विशेषतः। 
ब्राह्मणान् भोजयित्वा च पूजयेत्परमेश्वरी ॥३०॥

अखेटकमुपाख्यानं कुर्याद्दिनत्रयम् । 
तदाधरेन्महाविद्यां शंकरेण प्रभाषिताम् ॥३१॥

मारणद्वेषणादीनि लभते नात्र संशयः । 
स भवेत्पार्वतीपुत्रः सर्वशास्त्रपुरस्कृतः ॥३२॥

गुरुडेवो हरः साक्षात्पत्नी तस्य हरप्रिया। 
अभेदेन भजेद्यस्तु तस्य सिद्धिरदूरतः ॥३३॥

पठति य इह मत्यों नित्यमार्यान्तरात्मा जपफलमनुमेयं लघयते यद्विधेयम् । 
स भवति पदमुच्वैः सम्पदां पादनम्र क्षितिपमुकुटलक्ष्मीर्लक्षणानां चिराय ॥३४॥

॥ इति विश्वसारतन्त्रोक्तं लक्ष्मीकवचं कन्हैयलाल मिश्रकृताभाषाटीकासहितं समाप्तम् ॥

ये भी पढ़ें:-

टिप्पणियाँ