श्री धूमावती कवच,Shri Dhumavati Kavach

श्री धूमावती कवच

॥ श्री पार्वत्युवाच ॥

धूमावत्यर्चनं शंभो श्रुतं विस्तरतो मया। 
कवचं श्रोतुमिच्छामि तस्या देव वदस्व मे ॥१॥

॥ श्रीभैरव उवाच ॥

शृणु देवि परे गुहां न प्रकाश्यं कलौ युगे। 
कवचं श्रीधूमवत्याः शत्रुनिग्रहकारकम् ॥२॥

ब्रह्माद्या देवि सततं बद्वशाद‌रिघातिनः। 
योगिनो भवंति शत्रुघ्ना यस्या ध्यानप्रभावतः ॥३॥ 

विनियोगः

ॐ अस्य श्रीधूमावतीकवचस्य पिप्पलाद ऋषिः। अनुष्टुप्छंदः। 
श्रीधूमावती देवता। धुं बीजम्। स्वाहा शक्तिः। 
धूमावती कीलकम्। शत्रुहनने पाठे विनियोगः।

ॐ धू बीजं में शिरः पातु धूं ललाटं सदाऽवतु । 
धूमा नेत्रयुगं पातु वती कर्णी सदाऽवतु ॥४॥

दीर्घा तूदरमध्ये तु नाभिं में मलिनाम्बरा।
शूभंहस्ता पातु गुहां रूक्षा रक्षतु जानुनी ॥५॥

मुखं मे पातु भीमाख्या स्वाहा रक्षतु नासिकाम्।
सर्वविद्याऽवतु कण्ठं विवर्णा बाहुयुग्मकम् ॥६॥

चञ्चला हृदयं पातु धृष्टा पाचे सदाऽवतु ।
धूमहस्ता सदा पातु पादौ पातु भयावहा ॥७॥

प्रवृद्धरोमा तु भृशं कुटिला कुटिलेक्षणा।
क्षुत्पिपासार्दिता देवी भयदा कलहप्रिया ॥८॥

सर्वांगं पातु मे देवी सर्वशत्रुविनाशिनी।
इति ते कथितं पुण्यं कवचं भुवि दुर्लभम् ॥९॥

न प्रकाश्यं न प्रकाश्यं न प्रकाश्यं कलौयुगे। 
पठनीयं महादेवि त्रिसंध्यं ध्यानतत्परः ॥१०॥

दुष्टाभिचारो देवेशि तद्‌गात्रं नैव संस्पृशेत् ॥११ ॥ 

॥ इति भैरवी भैरव संवादे धूमावतीतत्त्वे धूमावती कवचं सम्पूर्णम् ॥

ये भी पढ़ें:-

टिप्पणियाँ