श्री धूमावती हृदय स्तोत्र
विनियोग;-
हृदयादिषडङ्गन्यास:-
॥ ध्यानम्॥
ॐ धूम्राभां धूम्रवस्त्रां प्रकटितदशनां मुक्तवालां वराड्यां,
काकांकस्यन्दनस्थां धवलकरयुगां शूर्पहस्तातिरूक्षाम् ।
नित्यं श्रुत्क्षामदेहां मुहुरतिकुटिलां वारिवांछाविचित्रां,
ध्यायेद् धूमावतीं वामनयनयुगलां भीतिदां भीषणास्याम् ॥१ ॥
कल्पादौ या कालिकाद्याऽचीकलन्मधुकैटभौ ।
कल्पांते त्रिजगत्सर्व धूमावर्ती भजामि ताम् ॥२॥
गुणागाराऽगम्यगुणा या गुणागुणवर्द्धिनी ।
गीतावेदार्थतत्त्वज्ञैर्धूमावतीं भजामि ताम् ॥३॥
खट्वांगधारिणी खर्वा खण्डिनीखलरक्षसाम्।
धारिणी खेटकस्यापि धूमावतीं भजामि ताम् ॥४॥
पूर्णा पूर्णकरा घोरा घूर्णिताक्षी घनस्वना।
घातिनी घातकानां या धूमावर्ती भजामि ताम् ॥५॥
चर्वतीमस्थिखण्डानां चण्डमुण्डविदारिणीम् ।
चण्डाडुहासिनीं देवीं भजे धूमावतीमहम् ॥६॥
छिन्त्रग्रीवां क्षताच्छन्नां छिन्नमस्तस्वरूपिणीम्।
छेदिनीं दुष्टसंघानां भजे धूमावतीमहम् ॥७॥
जाता या याचिता देवैरसुराणां विघातिनी।
जल्पंती बहु गर्जती भजे तां धूम्ररूपिणीम् ॥८ ॥
झंकारकारिणी झंझां झंझमाझमवादिनीम्।
झटित्याकर्षिणीं देवीं भजे धूमावतीमहम् ॥९॥
टीपटंकार संयुक्तां धनुष्टंकारकारिणीम्।
घोरां घनघटाटोपां वंदे धूमावतीमहम् ॥१०॥
ठंठंठंठं मनुप्रीतिं ठःठः मंत्रस्वरूपिणीम् ।
ठमकाह्रगति प्रीतांभजे धूमावतीमहम् ॥११॥
डमरू डिंडिमारावां डाकिनीगणमण्डिताम्।
डाकिनीभोगसन्तुष्टां भजे धूमावतीमहम् ॥१२॥
ढकानादेन संतुष्टां ढक्कावादकसिद्धिदाम् ।
ढक्कावादचलच्चित्तां भजे धूमावतीमहम् ॥१३॥
तत्त्ववात्र्त्ताप्रियप्राणां भवपाथोधितारिणीम्।
तारस्वरूपिणीं तारां भजे धूमावतीमहम् ॥१४॥
थां थीं थू थे मंत्ररूपां थें थीं थे थः स्वरूपिणीम् ।
थकारवर्णसर्वस्वां भजे धूमावतीमहम् ॥१५ ॥
दुर्गास्वरूपिणीं देवीं दुष्टदानबदारिणीम्।
देवदैत्यकृतध्वंसां वंदे धूमावतीमहम् ॥१६ ॥
ध्वांताकारांधकध्वंसां मुक्तधम्मिल्लधारिणीम्।
धूमधाराप्रभां धीरां भजे धूमावतीमहम् ॥१७॥
नर्तकीनटनप्रीतां नाट्यकम्र्म्मविवर्द्धिनीम्।
नारसिंहीं नराराध्यां नौमि धूमावतीमहम् ॥ १८ ॥
पार्वतीपतिसंपूज्यां पर्वतोपरिवासिनीम्।
पद्यारूपां पद्मपूजां नौमि धूमावतीमहम् ॥१९॥
फूत्कारसहितश्वार्सा फर्मत्रफलदायिनीम् ।
फेत्कारिगणसंसेव्यों सेवे धूमावतीमहम् ॥ २०॥
बलिपूज्यां बलाराध्यां बगलारूपिणी वराम्।
ब्रह्मादिवंदितां विद्यां वंदे धूमावतीमहम् ॥२१॥
भव्यरूपां भवाराध्यां भुवनेशीस्वरूपिणीम्।
भक्तभव्यप्रदां देवीं भजे धूमावतीमहम् ॥२२॥
मायां मधुमर्ती मान्यां मकरध्वजमानिताम् ।
मत्यांसमहास्वादां मन्ये धूमावतीमहम् ॥२३॥
योगयज्ञप्रसन्नास्यां योगिनीपरिसेविताम् ।
यशोदां यज्ञफलदां यजे धूमावतीमहम् ॥२४॥
रामाराध्यपदद्वंद्वां रावणध्वंसकारिणीम् ।
रमेशरमर्णी पूज्यामहं धूमावर्ती श्रये ॥२५॥
लक्षलीलाकलालक्ष्यां लोकवंद्यपदांबुजाम् ।
लंबितां बीजकोशाड्यां वंदे धूमावतीमहम् ॥२६॥
बकपूज्यपदांभोजां वकध्यानपरायणाम्।
बालां बकारिसंध्येयां वंदे धूमावतीमहम् ॥२७॥
शांकरीं शंकरप्राणां संकटध्वंसकारिणीम् ।
शत्रुसंहारिणी शुद्धां श्रये धूमावतीमहम् ॥२८ ॥
षडाननारिसंहंत्री षोडशीरूपधारिणीम्।
षडुसास्वादिनी सौम्यां सेवे धूमावतीमहम् ॥२९॥
सुरसेवितपादाब्जां सुरसौख्यप्रदायिनीम्।
सुन्दरीगणसंसेव्यां सेवे धूमावतीमहम् ॥३०॥
हेरंबजननीं योग्यां हास्यलास्यविहारिणीम् ।
हारिणीं शत्रुसंधानां सेवे धूमावतीमहम् ॥३१॥
क्षीरोदतीरसंवासां क्षीरपानप्रहर्षिताम् ।
क्षणदेशेज्यपादाब्जां सेवे धूमावतीमहम् ॥३२॥
चतुस्त्रिंशद्वर्णकानां प्रतिवर्णादिनामभिः ।
कृतं तु हृदयं स्तोत्रं धूमावत्याः सुसिद्धिदम् ॥३३॥
य इदं पठति स्तोत्रं पवित्रं पापनाशनम्।
स प्राप्नोति परां सिद्धिं धूमावत्याः प्रसादतः ॥३४॥
पठत्रेकाग्रचित्तो यो यद्यदिच्छति मानवः।
तत्सर्वं समवाप्नोति सत्यं सत्यं वदाम्यहम् ॥३५॥
॥ इति धूमावतीहृदयं स्तोत्रं समाप्तम् ॥
टिप्पणियाँ