श्री छिन्नमस्ता ( प्रचण्डचण्डिका ) स्तोत्र,Shri Chhinnamasta (Prachandchandika) Stotra

श्री छिन्नमस्ता ( प्रचण्डचण्डिका ) स्तोत्र,Shri Chhinnamasta (Prachandchandika) Stotra

॥ ध्यानम् ॥

नाभौ शुभ्रारविन्दं तदुपरि विलसन्मण्डलं चण्डरश्मेः
संसारस्यैकसारां त्रिभुवनजननीं धम्र्मकर्मार्थदात्रीम्।

तस्मिन्मध्ये त्रिभागे त्रितयतनुधारां छिन्नमस्तां प्रशस्तां तां
वन्दे छिन्नमस्तां शमनभयहरां योगिनीं योगमुद्राम् ॥१ ॥

॥ स्तोत्रम् ॥

नाभी शुभ्रसरोजवक्त्र विलसद्वंधूक पुष्पारुणं, 
भास्वद्भास्करमण्डलं तदुदरे तद्योनिचक्रं महत् ।

तन्मध्ये विपरीत मैथुनरतप्रद्युम्नसत्कामिनी पृष्ठस्थां 
तरुणार्क कोटिविलसत्तेजः स्वरूपां शिवाम् ॥१॥

वामे च्छिन्नशिरोधरां तदितरे पाणी महत्कत्रिंकां, 
प्रत्यालीढपदां दिगंतवसनामुन्मुक्तकेश व्रजाम् ।

छिन्नात्मीयशिरः समुच्छलदसुग्धारां पिबंर्ती परां, 
बालादित्यसमप्रकाशविलसन्नेत्र त्रयोद्धासिनीम् ॥२॥

वामादन्यत्र नालं बहुगहनगलद्रक्तधाराभिरुच्यैः, 
पायंतीमस्थिभूषां करकमललसत्कत्रिं कामुग्ररूपाम्।

रक्ताभांरक्तकेशीमपगतवसनां वर्णिनीमात्मशक्ति,
प्रत्यालीढोरुपादामरुणि तनयनां योगिनींयोनिमुद्राम् ॥३ ॥

दिग्वस्त्रां मुक्तकेशीं प्रलयघनघटाघोटरूपां प्रचण्डां, 
दंष्ट्रादुष्प्रेक्ष्य वक्रोदरविवरल सल्लोलजिह्वाग्रभासाम् ।

विद्युत्रोलाक्षियुग्मां हृदयतटलस‌द्भोगिनीमात्ममूर्ति, 
सद्यश्छिन्नात्मकंठ प्रगलितरुधिरैडर्डाकिनीं वर्द्धयंतीम् ॥४॥

ब्रह्मेशाभाच्युताधीः शिरसि विनिहितां मंदपादारविंदैराङ्गै  
यौंगीन्द्र मुख्यैः प्रतिपदमनिशं चिंतितां चिंत्यरूपाम्।

संसारे सारभूतां त्रिभुवनजननीं छिन्नमस्तां प्रशस्तामिष्टां 
तामिष्टदात्री कलिकलुषहरां चेतसा चिंतयामि ॥५॥

उत्पत्तिस्थितिसंहतीर्घटयितुं धत्ते त्रिरूपां तर्नु, 
त्रैगुण्याञ्जगतो यदीयविकृतिर्ब्रह्याच्युतः शूलभूत् ।

तामाद्यां प्रकृतिं स्मरामि मनसा सर्वार्थसंसिद्धये, 
यस्याः स्मेरपदारविंदयुगले लाभं भर्जतेऽमराः ॥६॥

अभिलषित परस्त्रीयोगपूजापरोऽहं, 
बहुविधजनभावारं भसंभावितोऽहम्।

पशुजनविमुखो ऽहं भैरवीसंयुतोऽहं 
गुरुचरणपरोऽहं भैरवोऽहं शिवोऽहम् ॥७॥

इदं स्तोत्रं महापुण्यं ब्रह्मणा भाषित पुरा।
सर्वसिद्धिप्रर्द साक्षान्महापातकनाशनम् ॥८॥

यः पठेत्प्रातरुत्थाय देव्याः सन्निहितो भवेत्।
तस्य सिद्धिर्भवेदेवि वांछितार्थप्रदायिनी ॥९॥

धनं धान्यं सुतान् जार्या हर्य हस्तिनमेव च।
वसुंधरां महाविद्यामष्टसिद्धौर्लभेद्युवम् ॥१०॥

वैयाघ्राजिनरंजितस्य जघने रम्ये प्रलंबोदरे,
खर्वानिर्वचनीयसर्वसुभगे मुण्डावलीमण्डिते।

कर्शी कुंदरुचिं विचित्रकलितां ज्ञाने दधाने 
पदेमातर्भक्तजनानुकंपिनि महामायेऽस्तु तुभ्यं नमः ॥११॥

॥ इति श्रीब्रहाविरचितं प्रचण्डचण्डिका स्तोत्रं सम्पूर्ण !!

ये भी पढ़ें:-

टिप्पणियाँ