श्री ब्रह्मास्त्र महाविद्या स्तोत्र ( बगलामुखी स्तोत्र )
विनियोग
करन्यास
॥ अथ ध्यानम् ॥
॥ अथ स्तोत्रम् ॥
मध्येसुधाब्धि मणिमण्डप रनवेद्यां सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरण माल्यविभूषिताङ्गीम् देवीं नमामि धृतमुद्गरवैरिजिह्वाम् ॥ १ ॥
जिह्वाग्रमादाय करेणदेवीं, वामेन शत्रून् परिपीडयन्तीम्।
गदाभिघातेन च दक्षिणेन पीताम्बराढ्यां द्विभुजां नमामि ॥२॥
त्रिशूलधारिणीमम्बां सर्वसौभाग्यदायिनीम्।
सर्वशृङ्गारवेशाढ्यां देवीं ध्यात्वा प्रपूजयेत् ॥३॥
पीतवस्त्रां त्रिनेत्रां च द्विभुजां हाटकोज्ज्वलाम्।
शिलापर्वतहस्तां च स्मरेत् तां बगलामुखीम् ॥॥४॥
रिपुजिह्वाग्रहां देवीं पीतपुष्यविभूषिताम्।
वैरिनिर्दलनार्थाय स्मरेत् तां बगलामुखीम् ॥१५ ॥
गम्भीरां च मदोन्मत्तां स्वर्णकान्तिसमप्रभाम्।
चतुर्भुजां त्रिनेत्रां च कमलासनसंस्थिताम् ॥६॥
मुद्गरे दक्षिणे पाशं वामे जिहां च वज्रकम्।
पीताम्बरधरां सान्द्रहड़पीनपयोधराम् ॥७॥
हेमकुण्डलभूषां च पीतचन्द्रार्धशेखराम्।
पीतभूषणपीताङ्गी स्वर्णसिंहासने स्थिताम् ॥८ ॥
एवं ध्यात्वा जपेत् स्तोत्रमेकाग्रकृतमानसः।
सर्वसिद्धिमवाप्नोति मन्त्रध्यानपुरः सरम् ॥९॥
आराध्या जगदम्ब दिव्यकविभिः सामाजिकैः स्तोतृभिः।
माल्यैश्चन्दनकुङ्कुमैः परिमलैरभ्यर्चिता सादरात् ॥
सम्यङन्यासिसमस्तभूतनिवहे सौभाग्यशोभाप्रदे
श्रीमुग्धे बगले प्रसीद विमले दुःखापहे पाहि माम् ॥१०॥
आनन्दकारिणी देवी रिपुस्तम्भनकारिणी।
मदनोन्मादिनी चैव प्रीतिस्तम्भनकारिणी ॥११॥
महाविद्या महामाया साधकस्य फलप्रदा।
यस्याः स्मरणमात्रेण त्रैलोक्यं स्तम्भयेत् क्षणात् ॥१२॥
वामे पाशाडकुशी शक्तिं तस्याधस्ताद् वरं शुभम्।
दक्षिणे क्रमतो बन्नं गदाजिह्वाऽभयानि च ॥१३॥
विश्वतीं संसमरेन्नित्यं पीतमाल्यानुलेपनाम्।
पीताम्बरधरां देवीं ब्रह्मादिसुरवन्दिताम् ॥१४॥
केयूराङ्गदकुण्डलभूषां बालार्कद्युतिरञ्जितवेषाम्।
तरुणादित्यसमानप्रतिमां कौशेयांशुकबद्धनितम्बाम्१५ ॥
कल्पद्रुमतलनिहितशिलायां प्रमुदितचित्तौल्लासदलकान्ताम् ।
पञ्चप्रेतनिकेतनबद्धां भक्तजनेभ्यो वितरणशीलाम् ॥ १६ ॥
एवं विद्यां तां बगलां ध्यात्वा मनसि साधकः।
सर्वसम्पत्समृद्धयर्थ स्तोत्रमेतदुदीरयेत् ॥१७॥
चलत् कनककुण्डलोल्लसित चारुगण्डस्थलाम् ।
लसत्कनकचम्पकद्युतिमदिन्दुबिम्बाननाम् ॥
गदाहतविपक्षकां कलितलोलजिह्वां चलाम्।
स्मरामि बगलामुखीं विमुखवाङ्मुखस्तम्भिनीम् ॥ १८ ॥
पीयूषोदधि मध्यचारुविलसद्रत्नोज्ज्वले मण्डपे।
तत्सिंहासनमूलपातितरिपुं प्रेतासनाध्यासिनीम् ॥
स्वर्णाभां करपीडितारिरसनां भ्राम्यद्गदां विभ्रमां।
यस्त्वां ध्यायति, यान्ति तस्य विलयं सद्योऽथ सर्वापदः ॥१९॥
देवि त्वच्चरणाम्बुजार्चनकृते यः पीतपुष्पाञ्जलिं
मुद्रां वामकरे निधाय च पुनर्मन्त्री मनोज्ञाक्षरम् ॥
पीताध्यानपरोऽथ कुम्भकवशाद् बीजं स्मरेत् पार्थिवं ।
तस्यामित्रमुखस्य वाचि हृदये जाङां भवेत् तत्क्षणात् ॥२०॥
मन्त्रस्तावदलं विपक्षदलने स्तोत्रं पवित्रं च ते।
यन्त्रं वादिनियन्त्रणे त्रिजगतां जैत्रं न चित्रं हि तत् ॥
मातः श्रीबगलेति नाम ललितं यस्यास्ति जन्तोर्मुखे।
तन्नामस्मरणेन संसदि मुखस्तम्भो भवेद्वादिनाम् ॥२१॥
बादी मूकति रङ्कति क्षितिपतिवैश्वानरः शीतति।
क्रोधी शाम्यति दुर्जनः सुजनति क्षिप्रानुगः खञ्जति ॥
गवीं खर्चति सर्वविच्च जडति त्वद्यन्त्रणायन्त्रितः
श्रीनित्ये बगलामुखि प्रतिदिनं कल्याणि तुभ्यं नमः ॥२२॥
दुष्टस्तम्भनमुग्र विघ्नशमनं दारिद्रयविद्रावणं ।
भूभृत्संनमनं चं यन्मृगदृशां चेतः समाकर्षणम् ॥
सौभाग्यैकनिकेतनं समदृशां कारुण्यपूर्णेक्षणे।
शत्रोर्मारणमाविरस्तु पुरतो मातस्त्वदीयं वपुः ॥२३॥
मातर्भञ्जय मद्विपक्षवदनं जिह्वां च संकीलय।
ब्राह्मीं यन्वय मुद्रयाशु धिषणामुग्रां गतिं स्तम्भय ॥
शत्रूवर्णय चूर्णयाशु गदया गौराङ्गि पीताम्बरे।
विघ्नौघं बगले हर प्रणमतां कारुण्यपूर्णेक्षणे ॥२४॥
मातर्भरवि भद्रकालि विजये वाराहि विश्वाश्रये।
श्रीविद्ये समये महेशि बगले कामेशि वामे रमे ॥
मातङ्गि त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदे।
दासोऽहं शरणागतोऽस्मि कृपया विश्वेश्वरि त्राहि माम् ॥२५॥
त्वं विद्या परमा त्रिलोकजननी विघ्नौयविध्वंसिनी।
योषाकर्षणकारिणी त्रिजगतामानन्दसंवर्धिनी ।।
दुष्टोच्चाटनकारिणी पशुमनः संमोहसंदायिनी जिह्वाः
कीलय वैरिणां विजयसे ब्रह्मास्वाविद्या परा ॥२६ ॥
मातर्यस्तु मनोरमं स्तवमिमं देव्याः पठेत् सादरम्
धृत्वा यन्त्रमिदं तथैव समरे बाह्रोः करे वा गले ॥
राजानो वरयोषितोऽथ करिणः सर्पामृगेन्द्राः वै
यान्ति विमोहिता रिपुगणा लक्ष्मीः स्थिरा सर्वदा ॥२७॥
अनुदिनमभिरामं साधको यस्विकालं
पठति म भुवनेऽसौ पूज्यते देववर्गः ।।
सकलममलकृत्यं तत्त्वद्रष्टा च लोके भवति ।
परमसिद्धा लोकमाता पराम्बा ॥ २८ ॥
पीतवस्त्रवसनामरिदेह प्रेतजासननिवेशितदेहाम्।
फुलपुष्परविलोचनरम्यां दैत्यजालदहनोज्वलभूषाम् ॥२९॥
पर्योपरि लसद्विभुजां कम्बुहेमनतकुण्डललोलाम्।
वैरिनिर्दलनकारणरोषां चिन्तयामि बगलां हृदयाब्जे ॥ ३०॥
चिन्तयामि सुभुजां भूणिहस्तां सद्भुजांचसुरवन्दितचरणाम्।
षष्ठिसमतिशतैधृतशस्वैर्बाहुभिः परिवृतां बगलाम्बाम् ॥३१ ॥
बौराणां संकटे च प्रहरणसमये बन्धने वारिमध्ये।
वही वादे विवादे प्रकुपितनृपती दिव्यकाले निशायाम् ॥
वश्ये वा स्तम्भने वा रिपुबधसमये प्राणबाधे रणे वा।
गच्छेस्तिष्ठस्विकालं स्तवपठनमिदं कारयेदाशु धीरः ॥३२ ॥
विद्यालक्ष्मीः सर्वसौभाग्यमायुः पुत्राः सम्पद् राज्यमिष्टं च सिद्धिः।
मातः श्रेयः सर्ववश्यत्वसिद्धिः प्राप्तं सर्वं भूतले त्वत्परेण ॥३३ ॥
गेहं नाकति गर्वितः प्रणमति स्त्रीसंगमो मोक्षति द्वेषी
मित्रति पातकं सुकृतति क्ष्मावल्लभो दासति ॥
मृत्युर्वेद्यति दूषणं गुणति वै यत्पादसंसेवनात् तां
वन्दे भवभीतिभञ्जनकरी गौरीं गिरीशप्रियाम् ॥ ३४ ॥
यत् कृतं जपसंध्यानं चिन्तनं परमेश्वरि ।
शत्रूणां स्तम्भनार्थाय तद् गृहाण नमोऽस्तुते ॥३५॥
ब्रह्मास्वमेतद् विख्यातं त्रिषु लोकेषु दुर्लभम्।
गुरुभक्ताय दातव्यं न देयं यस्य कस्यचित् ॥३६॥
पीताम्बरां च द्विभुजां त्रिनेत्रां गात्रकोज्वलाम् ।
शिलामुद्गरहस्तां च स्मरेत् तां बगलामुखीम् ॥३७॥
सिद्धिं सध्येऽवगन्तुं गुरुवरवचनेष्वार्हविश्वासभाजाम्।
स्वान्तः पद्मासनस्थां वररुचिंबगलां ध्यायतां तारतारम्॥
गायत्रीपूतवाचां हरिहरमनने तत्पराणां नराणाम्।
प्रातर्मध्याह्नकाले स्तवपठनमिदं कार्यसिद्धिप्रदं स्यात् ॥३८ ॥
टिप्पणियाँ