श्री भुवनेश्वरी ( रक्षा ) पञ्जर स्तोत्र,Shri Bhuvaneshwari (Raksha) Panjar Stotra

श्री भुवनेश्वरी पञ्जर स्तोत्र

श्री भुवनेश्वरी ( रक्षा ) पञ्जर स्तोत्र "दुर्ग-किले " के समान साधक की रक्षा करता है। इस स्तोत्र के पाठ में प्रत्येक दिशा में रक्षा करने के लिए भुवनेश्वरी के बाद 'योगविद्ये महामाये योगिनी गणसेविते से लेकर ,त्रैलोक्य मोहिन्यैविद्महे विश्व जनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥' तक अवश्य पढ़ें।

श्री भुवनेश्वरी ( रक्षा ) पञ्जर स्तोत्रम् ॥

इदं श्रीभुवनेश्वर्याः पञ्जरं भुवि दुर्लभम्।
येन संरक्षितो मर्यो वाणैः शस्वैर्न बाध्यते ॥१ ॥

ज्वरमारी पशु व्याघ्र कृत्या चौराद्युपद्रवैः।
नद्यम्बु धरणी विद्युत्कृशानु भुजगारिभिः ॥२ ॥

सौभाग्यारोग्य सम्पत्ति कीर्ति कान्ति यशोऽर्थदम् ॥३ ॥
ॐ क्रीं श्रीं ह्रीं ऐं सौः पूर्वेऽधिष्ठाय मां पाहि चक्रिणि भुवनेश्वरि ! 

योगविद्ये महामाये योगिनी- गणसेविते !
कृष्णवर्णे महद्भूते वृहत् कर्णे भयङ्करि । 

देव-देवि ! महादेवि ! मम शत्रून् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितं ॥

यदि शक्यमशक्यं तन्मे भगवति ! शमय स्वाहा ।
त्रैलोक्य मोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्त्रः शक्तिः प्रचोदयात् ॥१ ॥

ममाग्नेयां स्थिता पाहि गदिनी भुवनेश्वरि! 
योगविद्ये कृष्णवर्णे तन्नः शक्तिः प्रचोदयात् ॥२॥

याम्येऽधिष्ठाय मां पाहि शङ्खिनी भुवनेश्वरि ! 
योगविद्ये कृष्णवर्णे. तन्नः शक्तिः प्रचोदयात् ॥3॥

नैर्ऋत्ये मां स्थिता पाहि ख‌ङ्गिनी भुवनेश्वरि ! 
योगविद्ये कृष्णवर्णे तन्नः शक्तिः प्रचोदयात् ॥4॥

पश्चिमे मां स्थिता पाहि पाशिनी भुवनेश्वरि ! 
योगविद्ये कृष्णवर्णे तन्नः शक्तिः प्रचोदयात् ॥५ ।।

वायव्ये मां स्थिता पाहि शक्तिनी भुवनेश्वरि । 
योगविद्ये कृष्णवर्णे तन्नः शक्तिः प्रचोदयात् ॥६ ॥

सौम्येऽधिष्ठाय मां पाहि चापिनी भुवनेश्वरि । 
योगविद्ये कृष्णवर्णे तन्नः शक्तिः प्रचोदयात् ॥७ ॥

ईशेऽधिष्ठाय मां पाहि शूलिनी भुवनेश्वरि । 
योगविद्ये कृष्णवर्णे तन्नः शक्तिः प्रचोदयात् ॥८॥

ऊध्र्वेऽधिष्ठाय मां पाहि पद्मिनी भुवनेश्वरि। 
योगविद्ये कृष्णवर्णे तन्नः शक्तिः प्रचोदयात् ॥९ ॥

अधस्तान्मां स्थिता पाहि वाणिनी भुवनेश्वरि । 
योगविद्ये कृष्णवर्णे तन्नः शक्तिः प्रचोदयात् ॥१०॥

अग्रतो मां सदा पाहि सांकुशे भुवनेश्वरि । 
योगविद्ये कृष्णवणें तन्नः शक्तिः प्रचोदयात् ॥११ ॥

पृष्ठतो मां स्थिता पाहि वरदे भुवनेश्वरि । 
योगविद्ये कृष्णवर्णे तन्नः शक्तिः प्रचोदयात् ॥१२॥

सर्वतो मां सदा पाहि सायुधे भुवनेश्वरि । 
योगविद्ये कृष्णवर्णे तन्नः शक्तिः प्रचोदयात् ॥१३ ॥

फलश्रुति में १४ दिशाओं का रक्षण कहा गया है परन्तु स्तोत्र में १२ दिशओं का ही लेख है अतः यदि १३वे श्लोक
में ''सर्वतो मां" की जगह वामे दक्षे प्रयुक्त होतो १४ दिशाओं का रक्षण होता है।

॥ फलश्रुति ॥

प्रोक्ता दिड्मनवो देवि ! चतुर्दश शुभ प्रदाः।
एतत् पञ्जरमाख्यातं सर्व रक्षाकरं नृणाम् ॥

गोपनीयं प्रयत्नेन स्व-योनिरिव पार्वति । 
न भक्ताय प्रदातव्यं नाशिष्याय कदाचन ॥

सिद्धिकामो महादेवि ! गोपयेन्मातृ-जारवत् । 
भयकाले होमकाले पूजाकाले विशेषतः ॥

दीपस्यारम्भ- काले वै यः कुर्यात् पञ्जरं सुधीः। 
सर्वान् कामानवाप्नोति प्रत्यूहैर्नाभि भूयते ॥

रणे राजकुले द्यूते सर्वत्र विजयी भवेत्। 
कृत्या रोग- पिशाचाद्यौर्न कदाचित् प्रबाध्यते ॥

प्रातः काले च मध्याह्ने सन्ध्यायामर्द्धरात्रके। 
यः कुर्यात् पञ्जरं मों देवीं ध्यात्वा समाहितः ॥

काल मृत्युमपि प्राप्तं जयेदत्र न संशयः ।
ब्रह्मास्वादीनि शस्त्राणि तद् गात्रं न लगन्ति च ॥

पुत्रवान् धनवाँल्लोके यशस्वी जायते नरः ॥

ये भी पढ़ें:-

ये भी पढ़ें:-

टिप्पणियाँ