श्री त्रैलोक्य विजय छिन्नमस्ता कवच
॥ देव्युवाच ॥
कथिताश्छिन्नमस्ताया या या विद्याः सुगोपिताः ।
त्वया नाथेन जीवेश श्रुताश्चाधिगता मया ॥१॥
इदानीं श्रोतुमिच्छामि कवचं पूर्वसूचितम् ।
त्रैलोक्यविजयं नाम कृपया कथ्यतां प्रभो ॥२॥
॥ भैरव उवाच ॥
सर्वविद्यामयं साक्षात्सुरासुर जयप्रदम् ।
धारणात्पठनादीशस्त्रैलोक्यविजयी विभुः ॥४॥
ब्रह्मा नारायणो रुद्रो धारणात्पठनाद्यतः ।
कर्ता पाता च संहर्ता भुवनानां सुरेश्वरि ॥५॥
न देयं चरशिष्येभ्योऽभक्तेभ्योऽपि विशेषतः ।
देयं शिष्याय भक्ताय प्राणेभ्योऽप्यधिकाय च ॥६ ॥
देव्याश्च च्छिन्नमस्तायाः कवचस्य च भैरवः ।
ऋषिस्तु स्याद्विराट् छंदो देवता छिन्नमस्तका ॥७॥
त्रैलोक्यविजये मुक्तौ विनियोगः प्रकीर्तितः।
हुंकारो मे शिरः पातु छिन्नमस्ता बलप्रदा ॥८ ॥
हां हूं ऐं त्र्यक्षरी पातु भालं वक्त्रं दिगंबरा ।
श्रीं ह्रीं हूं ऐं दृशौ पातु मुंडे कत्रिंधरापि सा ॥९ ॥
सा विद्या प्रणवाद्यंता श्रुतियुग्मं सदाऽवतु ।
वज्रवैरोचनीये हुं फट् स्वाहा च ध्रुवादिका ॥१०॥
घ्राणं पातु च्छिन्नमस्ता मुण्डकत्रिविधारिणी।
श्रीमायाकूर्चवाग्बीजै र्वद्रवैरोचनीय हूं ॥११॥
हूं फट् स्वाहा महाविद्या षोडशी ब्रह्मरूपिणी।
स्वपार्श्वे वर्णिनी चासुग्धारां पाययती मुदा ॥१२॥
वदनं सर्वदा पातु च्छिन्नमस्ता स्वशक्तिका।
मुण्डकत्रिंधरा रक्ता साधकाभीष्टदायिनी ॥१३॥
वर्णिनी डाकिनीयुक्ता सापि मामभितोऽवतु ।
रामाद्या पातु जिह्वां च लज्जाद्या पातु कंठकम् ॥१४॥
कूर्चाद्या हृदयं पातु वागाद्या स्तनयुग्मकम् ।
रमया पुटिता विद्या पार्श्वी पातु सुरेश्वरी ॥ १५॥
मायया पुटिता पातु नाभिदेशे दिगंबरा।
कूर्चेण पुटिता देवी पृष्ठदेशे सदाऽवतु ॥१६॥
वाग्बीजपुटिता चैषा मध्यं पातु सशक्तिका।
ईश्वरी कूर्चवाग्बीजै वैज्रवैरोचनीय हूं ॥१७॥
हूं फट् स्वाहा महाविद्या कोटिसूर्य्यसमप्रभा ।
छिन्नमस्ता सदा पायादुरुयुग्मं सशक्तिका ॥१८॥
हीं हूं वर्णिनी जानुं श्रीं ह्रीं च डाकिनी पदम् ।
सर्वविद्यास्थिता नित्या सर्वांगं में सदाऽवतु ॥१९॥
प्राच्यां पायादेकलिंगा योगिनी पावकेऽवतु ।
डाकिनी दक्षिणे पातु श्रीमहाभैरवी च माम् ॥२०॥
नैऋत्यां सततं पातु भैरवी पश्चिमेऽवतु ।
इन्द्राक्षी पातु वायव्येऽसितांगी पातु चोत्तरे ॥२९॥
संहारिणी सदापातु शिवकोणे सकत्रिका ।
इत्यष्टशक्तयः पांतु दिग्विदिक्षु सकत्रिकाः ॥२२॥
कीं कीं कीं पातु सा पूर्व ह्रीं ह्रीं मां पातु पावके ।
हूं हूं मां दक्षिणे पातु दक्षिणे कालिकावतु ॥२३॥
क्रीं क्रीं क्रीं चैव नैऋत्यां ह्रीं ह्रीं च पश्चिमेऽवतु।
हूं हूं पातु मरुत्त्कोणे स्वाहा पातु सदोत्तरे ॥२४॥
महाकाली खड्गहस्ता रक्षः कोणे सदावतु।
तारो माया वधूः कूर्चे फट्कारोऽयं महामनुः ॥२५॥
खड्गकत्रिंधरा तारा चोर्द्धदेशं सदाऽवतु ।
ह्रीं स्वीं हूं फट् च पाताले मां पातु चैकजटा सती ।
तारा तु सहिता खेऽव्यान्महानीलसरस्वती ॥२६ ॥
इति ते कथितं देव्याः कवचं मन्वविग्रहम्।
यद्युत्वा पठनाद्भीमः क्रोधाख्यो भैरवः स्मृतः ॥२७॥
सुरासुर मुनीन्द्राणां कर्ता हर्ता भवेत्स्वयम्।
यस्याज्ञया मधुमती याति सा साधकालयम् ॥२८ ॥
भूतिन्याद्याश्च डाकिन्यो यक्षिण्याद्याश्च खेचराः।
आज्ञां गृहृत्ति तास्तस्य कवचस्य प्रसादतः ॥२९॥
एतदेव परं ब्रहाकवचं मन्मुखोदितम्।
देवीमभ्यर्च्य गंधाडद्यैर्मूले नैव पठेत्सकृत् ॥३०॥
संवत्सरकृतायास्तु पूजायाः फलमाप्नुयात्।
भूनें विलिखितं चैतद्गुटिकां कांचनस्थिताम् ॥३१॥
बाहौ कंठे वा यदि वान्यतः।
सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यं वशमानयेत् ॥३२॥
तस्य गेहे वसेल्लक्ष्मीर्वाणी च वदनांबुजे।
ब्रह्मास्वादीनि शस्वाणि तद्रात्रे यांति सौम्यताम् ॥३३॥
इदं कवचमज्ञात्वा यो भजेच्छिन्नमस्तकाम्।
सोऽपि शस्त्रप्रहारेण मृत्युमाप्नोति सत्वरम् ॥ ३४ ॥
॥ इति भैरवतन्त्रे भैरव भैरवीसंवादे त्रैलोक्यविजयं नाम छिन्नमस्ता कवचं सम्पूर्ण॥
टिप्पणियाँ