मातङ्गी त्रैलोक्य मङ्गल कवच,Matangi Trilokya Mangal Kavach

मातङ्गी त्रैलोक्य मङ्गल कवच

विनियोग 

ॐ अस्य श्रीमातङ्गी कवचस्य श्रीदक्षिणामूर्तिः ऋषिः। विराट् छन्दः।
श्रीमातङ्गी देवता। चतुर्वर्ग सिद्धये पाठे विनियोगः। 

ऋष्यादिन्यास:

श्रीदक्षिणा मूर्ति ऋषये नमः शिरसि। विराट् छन्दसे नमः मुखे।
श्रीमातङ्गी देवतायै नमः हृदि। चतुवर्ग सिद्धये जपे विनियोगाय नमः सर्वाङ्गे।

॥ मूल कवच स्तोत्र ॥

ॐ शिरो मातङ्गिनी पातु भुवनेशी तु चक्षुषी।
तोडला कर्णयुगलं त्रिपुरा वदनं मम ॥

पातु कण्ठे महामाया इदि माहेश्वरी तथा।
त्रिपुष्या पार्श्वयोः पातु गुदे कामेश्वरी मम ॥

ऊरुद्वये तथा चण्डी जङ्घयोश्च हरप्रिया।
महामाया पादयुग्मे सर्वाङ्गेषु कुलेश्वरी ॥

अङ्ग प्रत्यङ्गकं चैव सदा रक्षतु वैष्णवी।
ब्रह्मरन्धे सदा रक्षेन् मातङ्गी नाम संस्थिता॥

रक्षेन्नित्यं ललाटे सा महापिशाचिनीति च।
नेत्रयोः सुमुखी रक्षेत् देवी रक्षतु नासिकाम् ॥

महापिशाचिनी पायान्मुखे रक्षतु सर्वदा। 
लज्जा रक्षतु मां दन्ताञ्चौष्ठी सम्मार्जनी करा ॥

चिबुके कण्ठदेशे च ठकार त्रितयं पुनः। 
सविसर्ग महादेवि ! हृदयं पातु सर्वदा ॥

नाभि रक्षतु मां लोला कालिकाऽवतु लोचने। 
उदरे पातु चामुण्डा लिङ्गे कात्यायनी तथा ॥

उग्रतारा गुदे पातु पादौ रक्षतुचाम्बिका। 
भुजौ रक्षतु शर्वाणी हृदयं चण्डभूषणा ॥

जिह्वायां मातृका रक्षेत्पूर्वे रक्षतु पुष्टिका। 
विजया दक्षिपणे पातु मेधा रक्षतु वारुणे ॥

नैर्ऋत्ये सुदया रक्षेद् वायव्यां पातु लक्ष्मणा। 
ऐशान्यां रक्षेन्मां देवी मातङ्गी शुभकारिणी ॥

रक्षेत् सुरेशी चाग्नेव्यां बगला पातु चोत्तरे। 
ऊर्ध्वं पातु महादेवी! देवानां हितकारिणी ॥

पाताले पातु मां निर्त्य वशिनी विश्वरूपिणी।
प्रणवं च तमो माया कामबीजं च कूर्चकम् ॥

मातङ्गिनी डेयुतास्त्रं वह्निजायाऽवधिर्मनुः।
सार्द्धकादश वर्णा सा सर्वत्र पातु मां सदा ॥

इति ते कथितं देवि ! गुह्याद् गुह्यतरं परम्। 
त्रैलोक्य मङ्गलं नाम कवचं देव दुर्लभम् ॥

य इदं प्रपठेन्नित्वं जायते सम्पदालयम् । 
परमैश्वर्यमतुलं प्राप्नुयान्नात्र संशयः ॥

गुरुमभ्यर्च्य विधिवत् कवचं प्रपठेद्यदि।
ऐश्वर्यं सु कवित्वं च वाक् सिद्धिं लभते ध्रुवम् ॥

नित्यं तस्य तु मातङ्गी महिला मङ्गलं चरेत्।
ब्रह्मा विष्णुश्च रुद्रश्च ये देवाः सुर सत्तमाः ॥

ब्रह्मराक्षस वेताला ग्रहायण भूतजातयः ।
तं दृष्ट्वा साधकं देवि लज्जायुक्ता भवंति ते ॥

कवचं धारयेद्यस्तु सर्वसिद्धिं लभेद् ध्रुवम्।
राजानोऽपि च दासाः स्युः षट्‌कर्माणि च साधयेत् ॥

सिद्धो भवति सर्वत्र किमन्यैबंडू भाषितैः ।
इदं कवचमज्ञात्वा मातङ्गीं यो भजेत्ररः ॥

अल्पायुर्निर्द्धनो मूखों भवत्येव न संशयः।
गुरी भक्तिः सदा कार्या कवचे च दृढा मतिः ॥

तस्मै मातङ्गिनी देवी सर्वसिद्धि प्रयच्छति ॥ 

॥ इति पन्द्यावर्ते उत्तरखण्डे त्वरित फलदायिनी मातंगी कवचं सम्पूर्ण॥

ये भी पढ़ें:- 

माँ मातंगी स्तोत्र, ] [ माँ मातंगी शतनाम स्तोत्र, ] [ मातङ्गी त्रैलोक्य मङ्गल कवच, ]
मातंगी सहस्रनाम स्तोत्र, ]

ये भी पढ़ें:-

[श्री धूमावती सहस्रनाम स्तोत्र, [ श्री धूमावती अष्टोत्तर शतनाम स्तोत्र, ]
[श्री धूमावती स्तुति, 108 अष्टोत्तर शतनामावली, [ श्री धूमावती हृदय स्तोत्र, ]
श्री धूमावती कवच, ]

टिप्पणियाँ