महाविद्या बगलामुखी कवच,
॥ श्रीभैरवी उवाच ॥
श्रुत्वा च बगलापूर्जा स्तोत्रं चापि महेश्वर।
इदानीं ओतुमिच्छामि कवचं वद मे प्रभो ॥१॥
वैरिनाशकरं दिव्यं सर्वाऽशुभविनाशनम् ।
शुभदं स्मरणात् पुण्यं त्राहि मां दुःखनाशन ॥२॥
॥ श्रीभैरव उवाच ॥
विनियोग:
शिरो में बगला पातु हृदयमेकाक्षरी परा।
ॐ ह्रीं ॐ में ललाटे च बगला वैरिनाशिनी ॥४॥
गदाहस्ता सदा पातु मुखं में मोक्षदायिनी।
वैरिजिह्वा धरा पातु कण्ठं मे बगलामुखी ॥५॥
उदरं नाभिदेशं च पातु नित्यं परात् परा।
परात् परतरा पातु मम गुहां सुरेश्वरी ॥६॥
हस्ती चैव तथा पातु पार्वती परिपातु मे।
विवादे विषमे घोरे संग्रामेरिपुसंकटे ॥७॥
पीताम्बरधरा पातु सर्वाङ्ग शिवनर्तकी।
श्रीविद्या समयं पातु मातङ्गी पूरिता शिवा ॥८॥
पातु पुत्रं सुतां चैव कलत्रं कालिका मम।
पातु नित्यं भ्रातरं मे पितरं शूलिनी सदा ॥९॥
रन्ने हि बगलादेव्याः कवचं मन्मुखोदितम्।
न वै देयममुख्याय सर्वसिद्धिप्रदायकम् ॥१०॥
पठनाद् धारणादस्य पूजनाद् वाञ्छितं लभेत्।
इदं कवचमज्ञात्वा यो जपेद् बगलामुखीम् ॥१९॥
पिवन्ति शोणितं तस्य योगिन्यः प्राप्य सादराः।
वश्ये चाकर्षणे चैव मारणे मोहने तथा ॥१२॥
महाभये विपत्तौ च पठेद् वा पाठयेत् तु यः।
तस्य सर्वार्थसिद्धिः स्याद् भक्तियुक्तस्य पार्वति ॥१३॥
टिप्पणियाँ