माँ मातंगी स्तोत्र,Maa Matangi Stotra
आराध्य मातश्चरणाम्बुजे ते ब्रह्मादयो विस्तृतकीर्तिमापुः
अन्ये परं वा विभवं मुनीन्द्राः परां श्रियं भक्तिभरेण चान्ये ॥१॥
नमामि देवीं नवचन्द्रमौलेर्मातंगिनीं चन्द्रकलावर्तसाम् ।
आम्नायप्राप्तिप्रतिपादितार्थ प्रबोधयंती प्रियमाद्रेण ॥२ ॥
विनम्रदेवासुरमौलिरनैनींराजितं ते चरणारविंदम् ।
भर्जति ये देवि महीपतीनां व्रजति ते संपदमादरेण ॥३॥
कृतार्थयंतीं पदवीं पदाभ्यामास्फालयंतीं कृतवालकी ताम् ।
मातंगिनीं सधृदयां धिनोमि लीलांशुकां शुद्धनितम्बबिंबाम् ॥४॥
तालीदलेनार्पितकर्णभूषां माध्वीमदोद्धूर्णित नेत्रपद्याम् ।
घनस्तनीं शंभुवधू नमामि तडिलता कांतिमनर्घ्यभूषाम्॥५ ॥
चिरेण लक्ष्यं नवलोमराज्या स्मरामि भक्त्या जगतामधीशे ।
वलित्रयायं तव मध्यमम्ब नीलोत्पलांशु श्रियमावहत्याः ॥६ ॥
कांत्या कटाक्षैः कमलाकराणां कदम्बमालाञ्चितकेशपाशाम् ।
मातङ्गकन्यां हृदि भावयामि ध्यायेयमारक्तकपोलबिंबाम् ॥७ ॥
विम्बाधरन्यस्त ललामवश्यमालील लीलालकमायताक्षम् ।
मन्दस्मितं ते बदनं महेशि स्तुत्यानया शंकरधर्मपत्नीम् ॥८ ॥
मातंगिनीं वागधिदेवतां तां स्तुवंति ये भक्तियुता मनुष्याः ।
परां श्रियं नित्यमुपाश्रयंति परत्र कैलासतले वसन्ति ॥९ ॥
उद्यद्भानुमरीचिवीचिविलसद्वासो वसाना परां गौरीं संगतिपानकर्षरकरामानन्द कन्दोद्भवाम् ।
गुंजाहार चलद्विहारहृदयामापीनतुंगस्तनीं मत्तस्मेरमुखीं नमामि सुमुखी शावासनासेदुषीम् ॥१०॥
॥ इति रुदयामले मातंगीस्तोत्रं सम्पूर्ण॥
ये भी पढ़ें:-
[ माँ मातंगी स्तोत्र, ] [ माँ मातंगी शतनाम स्तोत्र, ] [ मातङ्गी त्रैलोक्य मङ्गल कवच, ]
[ मातंगी सहस्रनाम स्तोत्र, ]
[श्री धूमावती स्तुति, 108 अष्टोत्तर शतनामावली,] [ श्री धूमावती हृदय स्तोत्र, ]
[ श्री धूमावती कवच, ]
टिप्पणियाँ