माँ मातंगी शतनाम स्तोत्र,Maa Matangi Shatnam Stotra
॥ श्रीभैरव्युवाच ॥
॥ श्रीभैरव उवाच ॥
शृणु देवि प्रवक्ष्यामि रहस्यातिरहस्यकम्।
नाख्येयं यत्र कुत्रापि पठनीयं परात्परम् ॥२॥
यस्यैकवारपठनात्सर्वे विघ्ना उपद्रवाः।
नश्यंति तत्क्षणादेवि बह्निना तूलराशिवत् ॥३॥
प्रसत्रा जायते देवि मातंगी चास्य पाठतः।
सहस्रनामपठने यत्फलं परिकीर्तितम् ।
तत्कोटिगुणिर्त देवि नामाष्टशतकं शुभम् ॥४॥
विनियोग
ॐ अस्य श्रीमातंगीशतनामस्तोत्रस्य भगवान्मतंग ऋषिः।
अनुष्टुप्छंदः। मातंगी देवता । मातंगीप्रीतये पाठे विनियोगः ।
महामत्तमातंगिनी सिद्धिरूपा तथा योगिनी भद्रकाली रमा च ।
भवानी भयप्रीतिदा भूतियुक्ता भवाराधिता भूतिसम्पत्करी च ॥१॥
धनाधीशमाता धनागारदृष्टिर्द्धनेशार्चिता धीरवापी वरांगी।
प्रकृष्टा प्रभारूपिणी कामरूपा प्रहृष्टा महाकीर्तिदा कर्णनाली ॥२ ॥
काराली भगा घोररूपा भांगी भगाह्वा भगप्रीतिदा भीमरूपा ।
भवानी महाकौशिकी कोशपूर्णा किशोरी किशोरप्रिया नन्दईहा ॥३॥
महाकारणा कारणा कर्मशीला कपाली प्रसिद्धा महासिद्धखण्डा ।
मकारप्रिया मानरूपा महेशी मलोलासिनी लास्यलीलालयांगी ॥४॥
क्षमा क्षेमशीला क्षपाकारिणी बाक्षयप्रीतिदा भूतियुक्ता भवानी ।
भवाराधिता भूतिसत्यात्मिका च प्रभोद्धासिता भानुभास्वत्करा च ॥५॥
धराधीशमाता धनागारदृष्टिर्द्धनेशाचिंता धीवरा धीवरांगी ।
प्रकृष्टप्रभारूपिणी प्राणरूपा प्रकृष्टस्वरूपा स्वरूपप्रिया च ॥६॥
चलत्कुंडला कामिनी कांतयुक्ता कपालाचला कालकोद्धारिणी च ।
कदम्बप्रिया कोटरी कोटदेहा क्रमा कीर्तिदा कर्णरूपा च काक्ष्मीः ॥७॥
क्षमांगी क्षयप्रेमरूपा क्षया च क्षयाक्षा क्षयाद्धा क्षयप्रांतरा च ।
क्षवत्कामिनी क्षारिणी क्षीरपूर्णा शिवांगी च शाकंभरी शाकदेहा ॥८ ॥
महाशाकयज्ञा फलप्राशका च शकाह्ला शकाह्वाशकाख्या शका च ।
शकाक्षांतरोषा सुरोषा सुरेखा महाशेष यज्ञोपवीतप्रिया च ॥९॥
जयंती जया जाग्रती योग्यरूपा जयांगा जपध्यानसंतुष्टसंज्ञा ।
जयप्राणरूपा जयस्वर्णदेहा जयज्वालिनी यामिनी याम्यरूपा ॥१०॥
जगन्मातृरूया जगद्रक्षणा च स्वधावौषडंता विलम्बाविलम्बा ।
पडङ्गा महालंबरूपासिहस्ता पदाहारिणीहारिणी हारिणी च ॥११॥
महामंगला मंगलप्रेमकीर्तिनिशुंभच्छिदा शुम्भदर्पत्वहा च।
तथाऽनन्दबीजादिमुक्तिस्वरूपा तथा चण्डमुण्डापदा मुख्यचण्डा ॥१२॥
प्रचण्डाऽप्रचण्डा महाचण्डवेगा चलच्चामरा चामरा चन्द्रकीर्तिः ।
सुचामीकरा चित्रभूषोज्वलाङ्गी सुसंगीतगीतञ्च पायादपायात् ॥१३॥
इति ते कथितं देवि नाम्नामष्टोत्तरं शतम्।
गोप्यं च सर्वतंत्रेषु गोपनीयं च सर्वदा ॥१४॥
एतस्य सतताभ्यासात्साक्षाद्देवो महेश्वरः ।
त्रिसंध्यं च महाभक्त्या पठनीयं सुखोदवम् ॥१५॥
न तस्य दुष्करे किंचिज्जायते स्पर्शतः क्षणात् ।
सुकृतं यत्तदेवाप्तं तस्मादावर्त्तयेत्सदा ॥१६॥
सदैव सत्रिधौ तस्य देवी वसति सादरम्।
अयोगा ये त एवाये सुयोगाश्च भवंति वै ।
त एव मित्रभूताश भवंति तत्प्रसादतः ॥१७॥
विषाणि नोपसप्र्पति व्याद्ययो न स्पृशंति तान्।
लूताविस्फोटकाः सर्वे शमं यांति च तत्क्षणात् ॥१८ ॥
जरापलितनिर्मुक्तः कल्पजीवी भवेत्ररः।
अपि किं बहुनीक्तेन सान्निध्यं फलमाप्नुयात् ॥१९॥
पावन्मया पुरा प्रोक्तंफलं साहस्रनामकम् ।
तत्सर्वं लभते मत्यों महामायाप्रसादतः ॥२०॥
॥ इति श्रीरुद्रयामले मातंगीशतनामस्तोत्रं सम्पूर्ण ॥
ये भी पढ़ें:-
[ माँ मातंगी स्तोत्र, ] [ माँ मातंगी शतनाम स्तोत्र, ] [ मातङ्गी त्रैलोक्य मङ्गल कवच, ]
[ मातंगी सहस्रनाम स्तोत्र, ]
[श्री धूमावती सहस्रनाम स्तोत्र,] [ श्री धूमावती अष्टोत्तर शतनाम स्तोत्र, ]
[श्री धूमावती स्तुति, 108 अष्टोत्तर शतनामावली,] [ श्री धूमावती हृदय स्तोत्र, ]
[ श्री धूमावती कवच, ]
टिप्पणियाँ