श्री भुवनेश्वरी त्रैलोक्य मंगल कवच
॥ देव्युवाच ॥
भुवनेश्याश्च देवेश! या या विद्याः प्रकाशिताः ।
श्रुताश्चाधिगताः सर्वाः श्रोतुमिच्छामि सांप्रतं ॥१ ॥
त्रैलोक्य मङ्गलं नाम कवचं यत् पुरोदितम्।
कथयस्व महादेव ! मम प्रीतिकरं परम् ॥२॥
॥ ईश्वर उवाच ॥
शृणु पार्वति ! वक्ष्यामि सावधानाऽवधारय ।
त्रैलोक्यमङ्गलं नाम कवचं मन्त्र विग्रहम् ॥३॥
सिद्धविद्यामयं देवि ! सर्वैश्वर्य प्रदायकम्।
पठनाद् धारणान्मर्त्य स्वैलोक्यैश्वर्यवान् भवेत् ॥४॥
त्रैलोक्य मंगलस्यास्य कवचस्य ऋषिशिवः,
छन्दो विराट् जगद्धात्री देवता भुवनेश्वरी।
धर्मार्थ काम मोक्षेषु विनियोगः प्रकीर्तितः ॥५ ॥
॥ कवच स्तोत्र ॥
ह्रीं बीजं मे शिरः पातु भुवनेशी ललाटकम्।
ऐं पातु दक्ष नेत्रं मे ह्रीं पातु वाम लोचनम् ॥१ ॥
श्रीं पातु दक्षकर्णं मे त्रिवर्णात्मा महेश्वरी।
वामकर्णं सदा पातु ऐं घ्राणं पातु मे सदा ॥२॥
ह्रीं पातु वदनं देवी ऐं पातु रसनां मम।
वाक्युटा च त्रिवर्णात्मा कण्ठं पातु पराम्बिका ॥३॥
श्रींस्कन्धौ पातु नियतं ह्रीं भुजौ पातु सर्वदा।
क्लीं करौ त्रिपुरेशानी त्रिपुरैश्वर्य दायिनी ॥४॥
ॐ पातु हृदयं ह्रीं मे मध्यदेशं सदाऽवतु।
क्रों पातु नाभि देशं सा त्र्यक्षरी भुवनेश्वरी ॥५॥
सर्व बीजप्रभा पृष्ठं पातु सर्ववशङ्करी।
ह्रीं पातु गुह्यदेशं मे नमो भगवती कटिम् ॥६ ॥
माहेश्वरी सदा पातु सक्थिनी जानुयुग्मकम्।
अन्नपूर्णा सदापातु स्वाहा पातु पदद्वयम् ॥७॥
सप्तदशाक्षरी पायादन्नपूर्णाऽखिलं वपुः तारं।
माया रमा कामः षोडशार्णा ततः परं ॥८ ॥
शिरःस्था सर्वदा पातु विंशत्यर्णात्मिका परा।
तारं दुर्गे युगं रक्षिणि स्वाहेति दशाक्षरी ॥९॥
जयदुर्गा घनश्यामा पातु मां पूर्वतो मुदा।
माया बीजादिका चैषा दशार्णा च परा तथा ॥१०॥
उत्तप्त काञ्चनाभासा जय दुर्गाऽनलेऽवतु।
तारं ह्रीं दुं दुर्गायै नमोऽष्टवर्णात्मिका परा ॥११॥
शङ्खचक्र धनुर्बाण धरा मां दक्षिणेऽवतु।
महिष मर्दिनी स्वाहा वसु वर्णात्मिका परा ॥१२॥
नैर्ऋत्यां सर्वदा पातु महिषासुर नाशिनी।
माया पद्मावती स्वाहा सप्तार्णा परिकीर्तिता ॥१३॥
पद्मावती पद्मसंस्था पश्चिमे मां सदाऽवतु।
पाशांकुश पुटा मायेति परमेश्वरि स्वाहा ॥१४॥
त्रयोदशार्णा ताराद्या अश्वारूढाऽनिलेऽवतु।
सरस्वती पञ्चस्वरे नित्यक्लिन्ने मदद्रवे ॥१५ ॥
स्वाहा च त्र्यक्षरी विद्या मामुत्तरे सदाऽवतु।
तारं माया तु कवचं खे रक्षेत् सततं वधूः ॥१६ ॥
हूं क्षे ह्रीं फट् महाविद्या द्वादशार्णाऽखिलप्रदा।
त्वरिताष्टादिभिः पायाच्छिव कोणे सदा च मां ॥१७॥
ऐं क्लीं सौः सततं बाला मामूर्ध्व देशतोऽवतु
विन्द्वन्ता भैरवी बाला भूमौ च मां सदाऽवतु ॥ १८ ॥
॥ फलश्रुति ॥
इति ते कथितं पुण्यं त्रैलोक्य मङ्गलं परं।
सारात् सारतरं पुण्यं महाविद्यौघ विग्रहम् ॥१ ॥
अस्य हि पठनात् सद्यः कुबेरोऽपि धनेश्वरः।
इन्द्राद्याः सकला देवाः पठनाद धारणाद्यतः ॥२॥
सर्वसिद्धीश्वराः सन्तः सर्वैश्वर्यमवाप्नुयुः ।
पुष्पांजल्यष्टकं दत्वा मूलेनैव पठेत् सकृत् ॥३ ॥
संवत्सर कृतायास्तु पूजायाः फलमाप्नुयात्।
प्रीतिमान् योऽन्यतः कृत्वा कमला निश्चला गृहे ॥४॥
वाणी च निवसेद् वक्त्रे सत्यं न संशयः।
यो धारयति पुण्यात्मा त्रैलोक्य म ङ्गलाभिधम् ॥५ ॥
कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः।
सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यविजयी भवेत् ॥६ ॥
पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा।
बहुपुत्रवती भूत्वा वन्ध्याऽपि लभते सुतम् ॥७॥
ब्रह्मास्वादीनि शस्त्राणि नैव कृन्तन्ति तं जनम्।
एतत् कवचमज्ञात्वा यो जपेद् भुवनेश्वरीम् ॥
दारिद्र्यं परमं प्राप्य सोऽचिरान्मृत्युमाप्नुयात् ॥८ ॥
- श्री भुवनेश्वरी सहस्रनाम स्तोत्र,
- श्री भुवनेश्वरी अष्टोत्तर शतनाम स्तोत्र,
- श्री भुवनेश्वरी हृदय स्तुति,
- श्री भुवनेश्वरी ( रक्षा ) पञ्जर स्तोत्र
- भुवनेश्वरी त्रैलोक्य मोहन कवच
- भुवनेश्वरी त्रैलोक्य मंगल कवच,
टिप्पणियाँ