बगलामुखी कीलक स्तोत्र और हृदय स्त्रोत,
बगलामुखी कीलक स्तोत्र
ह्रीं ह्रीं ह्रींकारवाणे रिपुदलदलने घोरगम्भीरनादे।
ह्रीं ह्रींकाररूपे मुनिगणनमिते सिद्धिदे शुभ्रदेहे ॥
भ्रों धीं भोंकारनादे निखिलरिपुघटात्रोटने लग्ग्रचित्ते।
मातर्मातर्नमस्ते सकलभयहरे नौमि पीताम्बरे त्वाम् ॥१॥
क्रौं क्रीं क्रॉमीशरूपे अरिकुलहनने देहकीले कपाले।
हस्त्रीं हस्त्रीं स्वरूपे समरसनिरते दिव्यरूपे स्वरूपे ॥
चौं जीं जीं जातरूपे जहिजहि दुरितं जम्भरूपे प्रभावे।
कालिकङ्कालरूपे अरिजनदलने देहि सिद्धिंपरां मे ॥ २ ॥
हस्त्रां हस्त्रीं व हस्खें त्रिभुवनविदिते चण्डमार्त्तण्डचण्डे।
ऐं क्लीं सीं कौलविद्ये सततशमपरे नौमि पीतस्वरूपे ॥
डॉ ड्रॉ द्रीं दुष्टचित्ताऽऽदलनपरिणतबाहुयुग्मत्वदीये।
ब्रह्मास्त्रे ब्रह्मरूपे रिपुदलहनने ख्यातदिव्यप्रभावे ॥३॥
ठे ठं ठंकारवेशे न्वलनप्रतिकृतिवालमालास्वरूपे।
धां धां धां धारयन्तीं रिपुकुलरसनां मुद्गरं बज्रपाशम् ।
मातमतिर्नमस्ते प्रबलखलजनं पीडयन्तीं भजामि ।
डांडांडां डाकिन्याद्यैर्डिमकडिमडिमं डमरुकं वादयन्तीम् ॥४॥
वाणी व्याख्यानदात्री रिपुमुखखनने वेदशास्वार्थपूताम्।
मातः श्री बगले परात्परतरे वादे विवादे जयम् ॥
देहि त्वं शरणागतोऽस्मि विमले देवि प्रचण्डों द्धृते।
माङ्गल्यं वसुधासु देहि सततं सर्वस्वरूपे शिवे ॥५ ॥
निखिलमुनिनिषेव्यं स्तम्भनं सर्वशत्रोः । शमपरमिह नित्यं ज्ञानिनां हार्दरूपम् ॥
अहरहरनिशायां यः पठेद्देवि कीलम् । भवति परमेशो वादिनामग्रगण्यः ॥६ ॥
बगलामुखी हृदय स्त्रोत
विनियोग
अथ न्यासः
अथ कराङ्गन्यासौ ॐहीं अङ्गुष्ठाभ्यां नमः, ॐ क्लीं तर्जनीभ्यां नमः,
ॐ ऐं मध्यमाभ्यां नमः, ॐ ह्रीं अनामिकाभ्यां नमः,
ॐ क्लीं कनिष्ठिकाभ्यां नमः, ॐ ऐं करतलकरपृष्ठाभ्यां नमः ॥
ॐ ह्रीं हृदयाय नमः, ॐ क्लीं शिरसे स्वाहा, ॐ ऐं शिखाये वषट्,
ॐ ह्रीं कवचाय हुम्, ॐ क्लीं नेत्रत्रयाय वौषट्, ॐ ऐं अस्त्राय फट् ॥
ॐ ह्रीं क्लीं ऐं इति दिग्बन्धः ।
पीताम्बरां पीतमाल्यां पीताभरणभूषिताम्।
पीतकञ्जपदद्वन्द्वां बगलां चिन्तयेऽनिशम् ॥
इति ध्यात्वा सम्पूज्य पीतशङ्खगदाहस्ते पीतचन्दनचर्चिते।
बगले मे वरं देहि शत्रुसङ्घविदारिणी ॥
इति सम्प्राणं, हीं करनीं ऐं बगलामुख्यै गदाधिरिण्यै प्रेतासनाध्यासिन्यै
स्वाहा इति मन्त्रं जपित्वा स्तोत्रं च पठेत् ।
॥ स्त्रोतम् ॥
वन्देऽहं बगलां देवीं पीतभूषणभूषिाताम्।
तेजोरूपमयीं देवीं पीततेजः स्वरूपिणीम् ॥ १ ॥
गदाभ्रमणभिन्नानां धुकुटीभीषणाननाम्।
भीषयन्तीं भीमशत्रून् भजे भव्यस्य भक्तिदाम् ॥ २॥
पूर्णचन्द्रसमानास्यां पीतगन्धानुलेपनाम् ।
पीताम्बरपरीधानां पवित्रामाश्रयाम्यहम् ॥ ३॥
पालयन्तीमनुपलं प्रसमीक्ष्याऽवनीतले।
पीताचाररतां भक्तां स्ताम्भवानीं भजाम्यहम् ॥ ४॥
पीतपद्मपदद्वन्द्वां चम्पकारण्य रूपिणीम् ।
पीतावतंसां परमां वन्दे पद्मजवन्दिताम् ॥ ५॥
लसञ्चारुसिञ्जत्सुमञ्जीरपादां चलतवर्णकर्णावतंसाञ्चितास्याम्।
बलत्पीतचन्द्राननां चन्द्रवन्यां भजे पद्मजादीड्यसत्पादपद्माम् ॥६ ॥
सुपीताभयामालया पूतमन्वं परे ते जपन्तो जयं संलभन्ते।
रणे रागरोषाप्लुतानां रिपूणां विवादे बलाद्वैरकृद्धातमातः ॥७॥
भरत्पीतभास्वत्प्रभाहस्कराभां गदागञ्जितामित्रगाँ गरिष्ठाम्।
गरीवोगुणागारगात्रां गुणाक्यां गणेशादिगम्यां श्रये निर्गुणाडयाम् ॥८ ॥
जना ये जपन्त्युग्रबीजं जगत्सु परं प्रत्यहं ते स्मरन्तः स्वरूपम्।
भवेद् वादिनां वाङ्मुखस्तम्भ आद्ये जयो जायते जल्पतामाशु तेषाम् ॥ ९ ॥
तवध्याननिष्ठाप्रतिष्ठात्यप्रज्ञावां पादपद्यार्चने प्रेमयुक्ताः।
प्रसत्रा नृपाः प्राकृताः पण्डिता वा पुराणादिगा दासतुल्या भवन्ति ॥१०॥
नमामस्ते मातः कनककमनीयाङ्घ्रिजलजम् ।
बलद्विद्युद्वर्णं घनतिमिरविध्वंसकरणम् ॥
भवाब्धी मग्रात्मोत्तरणकरणं सर्वशरणम्।
प्रपन्नानां मातर्जगति बगले दुःखदमनम् ॥११॥
ज्वलज्योत्स्रा रत्नाकरमणिविभुषिक्ताङ्क भवनम् ।
स्मरामस्ते धाम स्मरहरहरीन्द्रेन्दुप्रमुखैः ॥
अहोरात्रं प्रातः प्रणयनवनीयं सुविशदम्।
परं पीताकारं परिचितमणिद्वीपवसनम् ॥१२॥
वदामस्ते मातः श्रुतिसुखकरं नाम ललितम्।
लसन्मात्रावर्णं जगति बगलेति प्रचरितम् ॥
चलन्तस्तिष्ठन्तो वयमुपविशन्तोऽपि शयने ।
भजामोयच्छ्रेयो दिवि दूरवलभ्यं दिविषदाम् ॥१३॥
पदार्चायां प्रीतिः प्रतिदिनमपूर्वा प्रभवतु ।
यथा ते प्रासत्र्यं प्रतिपलमपेक्ष्यं प्रणमताम् ॥
अनल्पं तन्मातर्भवति भृतभक्त्या भवतु नो।
दिशातः सद्भक्तिं भुवि भगवतां भूरि भवदाम् ॥१४॥
मम सकलरिपूणां वाडमुखे स्तम्भयाशु।
भगवति रिपुजिह्नों कीलय प्रस्थतुल्याम् ॥
व्यवसितखलबुद्धिं नाशयाऽऽशु प्रगल्भाम्।
मम कुरु बहुकार्य सत्कृपे ऽम्ब प्रसीद ॥१५॥
व्रजतु मम रिपूणां सद्यनि प्रेतसंस्था।
करधृतगदया तान् घातयित्वाऽऽशु रोषात् ॥
सधनवसनधान्यं सना तेषां प्रदहा।
पुनरपि बगला स्वस्थानमायातु शीघ्रम् ॥१६॥
करधृतुरिपुजिह्वा पीडनव्यग्रहस्तां।
पुनरपि गदया तांस्ताडयन्तीं सुतन्त्राम् ॥
प्रणतसुरगणानां पालिकां पीतवस्त्रां।
बहुबलबगलान्तां पीतवस्त्रां नमामः ॥१७॥
हृदयवचनकायः कुर्वतां भक्तिपुञ्ज।
प्रकटति करुणार्द्रा प्रीणती जल्पतीति ॥
धनमथ बहुधान्यं पुत्रपौत्रादिवृद्धिः।
सकलमपि किमेभ्यो देवमेवं त्ववश्यम् ॥१८ ॥
तव चरणसरोजं सर्वदा सेव्यमानं ।
हुहिणहरिहराडद्यैर्देववृन्दैः शरण्यम् ॥
मृदुलमपि शरं ते शर्मदं सूरिसेव्यं।
वयमिह करवामो मातरेतद् विधेयम् ॥१९॥
बगलाहृदयस्तोत्रमिदं भक्तिसमन्वितः।
पठेद् यो बगला तस्य प्रसन्ना पाठतो भवेत् ॥२०॥
पीताध्यानपरो भक्तो यः शृणोत्यविकल्पत।
निष्कल्मषो भवेन् मों मृतो मोक्षमवाप्नुयात् ॥२१॥
आश्विनस्य सिते पक्षे महाष्टम्यां दिवानिशम्।
यस्त्विदं पठते प्रेम्णा बगलाप्रीतिमेति सः ॥२२॥
देव्यालये पठन् मर्यो बगलां ध्यायतीश्वरीम्।
पीतवस्त्रावृतो यस्तु तस्य नश्यन्ति शत्रवः ॥२३॥
पीताचाररतो नित्यं पीतभूषां विचिन्तयन्।
बगलां यः पठेन् नित्यं हृदयस्तोत्रमुत्तमम् ॥२४॥
न किंचिदुर्लभं तस्यदृश्यते जगतीतले ।
शत्रवो ग्लानिर्मायान्ति तस्य दर्शनमात्रतः ॥ २५ ॥
॥ इति बगलामुखी हृदय स्त्रोत संपूर्ण॥
टिप्पणियाँ