बगलामुखी ब्रह्मास्त्र कवच,Baglamukhi Brahmastra kavach

बगलामुखी ब्रह्मास्त्र कवच, Baglamukhi Brahmastra kavach

इस कवच में प्रयुक्त मंत्र के जप एवं संपुटित दुर्गापाठ कराने पर शत्रुनाश, प्रेतदोषशमन, आर्थिक उन्नति हेतु कई सफल प्रयोग किये है। पट्त्रिंशतात्मक (३६ अक्षर वाले) मंत्र के विकल्प में इस मंत्र में मंत्रोच्चारण या ध्यान समय त्रुटि की संभावना भी नहीं रहती है। हमने विकट परिस्थिति में इस मंत्र के कई सफल प्रयोग कियें है।

कैलासाचलमध्वर्ग पुरवहं शान्तं त्रिनेत्रं शिवम्। 
वामस्था गिरिजा प्रणम्य कवचं भूतिप्रदं पृच्छति ॥

देवीश्रीबगलामुखी रिपुकुलारण्याग्निरूपा च या। 
तस्याश्चापविमुक्तमन्त्रसहितं प्रीत्याधुना बुहिमाम् ॥१ ॥

॥ श्रीशङ्खर उवाच ॥

देवि श्रीभवबाङ्गभे भृणु महामन्त्रं विभूतिप्रदम् ।
देव्या वर्मयुतं समस्तसुखदं साम्राज्यदं मुक्तिदम् ॥

तारं रुद्रवधू विरिञ्चिमहिला विष्णुप्रिया कामयुक्। 
कान्ते श्रीबगलानने मम रिपून् नाशय युग्मं त्वति ॥२॥

ऐश्वर्याणि पदं च देहि युगलं शीघ्रं मनोवाञ्छितं । 
कार्य साधय युग्मयुच्छिववधूवह्निप्रियान्तो मनुः ॥

कंसारेस्तनयं च बीजमपरा शक्तिश्च वाणी तथा। 
कीलं श्रीमति भैरवर्षिसहितं छन्दो विराट्संयुतम् ॥३॥

स्वेष्टार्थस्य परस्य वेति नितरां कार्यस्य सम्प्राप्तये ।
नानाऽसाध्यमहागदस्य नियतं नाशाय वीर्याप्तये ॥

ध्यात्त्वाश्रीबगलाननां मनुवरं जप्त्वा सहस्त्राख्यकम्। 
दीर्घः षट्‌कयुतैश्च रुद्रमहिलाबी जैर्विन्यस्याङ्गके ॥४॥

॥ ध्यानम् ॥

सौवर्णासनसंस्थितां त्रिनयनांपीतांशुकोल्लासिनीम् । 
हेमाभाङ्गरुचिं शशाङ्कमुकुटांसच्चम्पकस्स्रग्युताम् ॥

हस्तैर्मुद्गरपाशवज्ररसनाः संबिधतीं भूषणैः। 
व्याप्ताङ्गीं बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तयेत् ॥ 

विनियोग

ॐ अस्य श्रीबगलामुखी ब्रह्मास्त्रमन्त्रकवचस्य भैरव ऋषिः, 
विराट् छन्दः, श्रीबगलामुखी देवता, क्लीं बीजम्, ऐं शक्तिः, 
श्रीं कीलकं, मम (परस्य) च मनोभिलषितेष्टकार्य सिद्धये विनियोगः।

ऋष्यादिन्यास : 

शिरसि भैरव ऋषये नमः। मुखे विराट्छन्दसे नमः। 
इदि बगलामुखी देवतायै नमः। गुडो क्लीं बीजाय नमः। 
पादयोः ऐं शक्ये नमः। सर्वाङ्गे श्रीं कीलकाय नमः।

करन्यास :- 

ॐ ह्रां अङ्गुष्ठाभ्यां नमः, ॐ ह्रीं तर्जनीभ्यां नमः, 
ॐ हूं मध्यमाभ्यां नमः, ॐ हैं अनामिकाभ्यां नमः, 
ॐ ह्रीँ कनिष्ठिकाभ्यां नमः, ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यास :- 

ॐ ह्रां हृदयाय नमः, ॐ ह्रीं शिरसे स्वाहा, ॐ हूं शिखायै वषट्, 
ॐ हैं कवचाय हुम्, ॐ ह्रीँ नेत्रत्रयाय वौषट्, ॐ ह्रः अस्वाय फट्।
मन्त्रोद्धारः ॐ ह्रीं ऐं श्रीं क्लीं श्रीबगलानने मम रिपून् नाशय नाशय,

ममैश्वर्याणि देहि देहि शीघ्रं
मनोवाञ्छितं कार्यं साघय साधय ह्रीं स्वाहा।

शिरो मे पातु ॐ ह्रीं ऐं श्रीं क्लीं पातु ललाटकम्। 
सम्बोधनपदं पातु नेत्रे श्रीबगलानने ॥१॥

श्रुतौ मम रिपुं पातु नासिकां नाशयद्वयम् । 
पातु गण्डौ सदा मामैश्वर्याण्यन्तं तु मस्तकम् ॥२॥

देहिद्वन्द्वं सदा जिहां पातु शीघ्रं वचो मम। 
कण्ठदेशं मनः पातु वाञ्छितं बाहुमूलकम् ॥३॥

कार्य साधयद्वन्द्वं तु करौ पातु सदा मम। 
मायायुक्ता तथा स्वाहा हृदयं पातु सर्वदा ॥४॥

अष्टाधिकचत्वारिंशदण्डाड्या बगलामुखी। 
रक्षां करोतु सर्वत्र गृहेऽरण्ये सदा मम ॥५॥

ब्रह्मास्त्राख्यो मनुः पातु सर्वाङ्गे सर्वसन्धिषु। 
मन्त्रराजः सदा रक्षां करोतु मम सर्वदा ॥६॥

ॐ ह्रीं पातु नाभिदेशं कटिं मे बगलाऽवतु । 
मुखिवर्णद्वयं पातु लिङ्ग मे मुष्कयुग्मकम् ॥७॥

जानुनी सर्वदुष्टानां पातु मे वर्णपञ्चकम्।
वार्च मुखं तथा पादं षड्वर्णाः परमेश्वरी ॥८॥

जङ्घायुग्मे सदा पातु बगला रिपुमोहिनी।
स्तम्भयेति पदं पृष्ठं पातु वर्णत्रयं मम ॥९॥

जिह्वावर्णद्वयं पातु गुल्फी में कौलयेति च।
पादोवं सर्वदा पातु बुद्धिं पादतले मम ॥१०॥

विनाशयपदं पातु पादाङ्गुल्योर्नखानि मे।
हीं बीजं सर्वदा पातु बुद्धीन्द्रियवचांसि मे ॥११॥

सर्वाङ्गं प्रणवः पातु स्वाहा रोमाणि मेऽवतु ।
ब्राह्मी पूर्वदले पातु चाग्नेय्यां विष्णुवल्लभा ॥१२॥

माहेशी दक्षिणे पातु चामुण्डा राक्षसेऽवतु ।
कौमारी पश्चिमे पातु वायव्ये चापराजिता ॥१३॥

वाराही चोत्तरे पातु नारसिंही शिवेऽवतु । 
ऊध्र्वं पातु महालक्ष्मीः पाताले शारदाऽवतु ॥१४॥

इत्यष्टी शक्तयः पान्तु सायुधाच सवाहनाः। 
राजद्वारे महादुर्गे पातु मां गणनायकः ॥१५॥

श्मशाने जलमध्ये च भैरवश्च सदाऽवतु । 
द्विभुजा रक्तवसनाः सर्वाभरणभूषिताः ॥१६ ॥

योगिन्यः सर्वदा पान्तु महारण्ये सदा मम। 
इति ते कथितं देवि कवचं परमाद्भुतम् ॥१७॥

श्रीविश्वविजयं नाम कीर्तिश्रीविजयप्रदम् । 
अपुत्रो लभते पुत्रं धीरं शूरं शतायुषम् ॥१८ ॥

निर्धनो धनमाप्नोति कवचस्यास्य पाठतः। 
जपित्वा मन्त्रराजं तु ध्यात्त्वा श्रीबगलामुखीम् ॥१९॥

पठेदिदं हि कवचं निशायां नियमात् तु यः।
यद् यत् कामयते कामं साध्यासाध्ये महीतले ॥२०॥

तत् तत् काममवाप्नोति सप्तरात्रेण शङ्करि।
गुरुं ध्यात्वा सुरां पीत्वा रात्रौ शक्तिसमन्वितः ॥२१॥

कवचं वः पठेद् देवि तस्यासायं न किञ्चन। 
यं ध्यात्वा प्रजपेन् मंत्रं सहस्रं कवचं पठेत् ॥२२॥

त्रिरात्रेण वशं थाति मृत्योः तन्नात्र संशयः । 
लिखित्वा प्रतिन्नां शत्रोः सतालेम हरिद्रया ॥२३॥

लिखित्वा इदि तन्नाम तं ध्यात्वा प्रजपेन् मनुम् ।
एकविंशद्दिनं यावत् प्रत्यहं च सहस्त्रकम् ॥२४॥ 

जप्त्वा पठेत् तु कवचं चतुर्विशतिवारकम्।
संस्तम्भं जायते शत्रोाँत्र कार्या विचारणा ॥२५॥

विवादे विजयं तस्य संग्रामे जयमाप्नुयात्। 
श्मशाने च भयं नास्ति कवचस्य प्रभावतः ॥२६ ॥

नवनीतं चाभिमन्त्र्य स्वीणां दद्यान् महेश्वरि।
बन्ध्यायां जायते पुत्रो विद्यावलसमन्वितः ॥२७॥

श्मशानाङ्गारमादाय भीमे रात्री शनावध। 
पादोदकेन स्पृष्ट्वा च लिखेत् लोहशलाकया ॥२८॥

भूमौ शत्रीः स्वरूपं च हृदि नाम समालिखेत्। 
हस्तं तद्धृदये दत्वा कवचं तिथिवारकम् ॥२९॥

ध्यात्वा जपेन् मन्त्रराजं नवरात्रं प्रयातः। 
प्रियते ज्वरदाहेन दशमेऽह्नि न संशयः ॥३०॥

भूर्जपत्रेष्विदं स्तोत्रमष्टगन्धेन संलिखेत्। 
धारयेद् दक्षिणे बाहौ नारी वामभुजे तथा ॥३१॥

संग्रामे जयमाप्नोति नारी पुत्रवती भवेत्। 
ब्रह्मास्वादीनि शस्त्राणि नैव कृन्तन्ति तं जनम् ॥३२॥

श्मशाने च भयं नास्ति कवचस्य प्रभावतः ॥२६॥ 

पीनोत्रतकुचां खिग्धां पीतलाङ्गी सुपेशलाम्। 
त्रिलोचनां चतुर्हस्र्ता गम्भीरां मदविह्वलाम् ॥

वज्रारि रसनापाशमुदगरं दधतीं करैः। 
महाव्याघ्रासनां देवीं सर्वदेवनमस्कृताम् ॥

प्रसन्नां सुस्मितां क्लिन्नां सुपीतां प्रमदोत्तमाम्। 
सुभक्तदुःखहरणे दयार्द्रा दीनवत्सलाम् ॥

एवं ध्यात्वा परेशानि बगला कवचं स्मरेत्।

॥ अथ रक्षाकवचम् ॥

बगला मे शिरः पातु ललाटं ब्रह्मसंस्तुता। 
बगला मे ध्रुर्वी नित्यं कर्णयोः क्लेशहारिणी ॥

त्रिनेत्रा चक्षुषी पातु स्तम्भिनी गण्डयोस्तथा। 
मोहिनी नासिकां पातु श्रीदेवी बगलामुखी ॥

ओष्ठयोर्दुर्धरा पातु सर्वदन्तेषु चञ्चला। 
सिद्धान्त्रपूर्णा जिह्वायां जिह्वाग्रे शारदाम्बिके ॥

अकल्मषा मुखे पातु चिबुके बगलामुखी। 
धीरा मे कष्ठदेशे तु कण्ठाग्रे कालकर्षिणी ॥

शुद्धस्वर्णनिभा पातु कण्ठमध्ये तथाऽम्बिका।
कण्ठमूले महाभोगा सकन्धी शत्रुविनाशिनी ॥ 

भुजी में पातु सततं बगला सुस्मिता परा। 
बगला में सदा पातु कूपरे कमलोद्भवा ॥

बगलाऽम्बा प्रकोष्ठौ तु मणिबन्धे महाबला। 
बगलाश्रीर्हस्तयोश्च कुरुकुावश कराङगुलिम् ॥

नखेषु वज्रहस्ता च हृदये ब्रह्मवादिनी। 
स्तनौ में मन्दगमना कुक्षयोर्योगिनी तथा ॥

उदरं बगला माता नाभिं ब्रह्मास्त्रदेवता। 
पुष्टिं मुद्गरहस्ता च पातु नो देववन्दिता ॥

पार्श्वयोर्डनुमट्वन्द्या पशुपाशविमोचिनी। 
करौ रामप्रिया पातु ऊरुयुग्मं महेश्वरी ॥

भगमाला तु गुह्यं में लिङ्ग कामेश्वरी तथा । 
लिङ्गमूले महाक्लिन्ना वृषणौ पातु दूतिका ॥

बगला जानुनी पातु जानुयुग्मं च नित्यशः। 
जड्ढे पातु जगद्धात्री गुल्फी रावण-पूजिता ॥

चरणी दुर्जया पातु पीताम्बा चरणाङ्गुलीः । 
पादपृष्ठं पद्महस्ता पादाथचक्रधारिणी ॥

सर्वाङ्ग बगला देवी पातु श्रीबगलामुखी। 
ब्राह्मी मे पूर्वतः पातु माहेशी बहिनभागतः ॥ 

कौमारी दक्षिणे पातु वैष्णवी स्वर्गमार्गतः । 
ऊर्ध्व पाशचरा पातु शत्रुजिह्वाधरा हाथः ॥

रणे राजकुले वादे महायोगे महाभये। 
बगला भैरवी पातु नित्यं क्लींकाररूपिणी ॥

इत्येवं वज्रकवचं महाबह्यास्त्र संज्ञकम्। 
त्रिसन्ध्यं यः पठेद् धीमान् सर्वैश्वर्यमवाप्नुयात् ॥

न तस्य शत्रवः केऽपि सखायः सर्व एव च। 
बलेनाकृष्य शत्रु सोऽपि मित्रत्वमाप्नुयात् ॥

शत्रुत्वे मरुता तुल्यो धनेन धनदोपमः। 
रूपेण कामतुल्यः स्याद् आयुषा शूलधूक्समः ॥

सनकादिसमो धैर्य श्रिया विष्णुसमो भवेत्। 
तत्तुल्यो विद्यया ब्रहान् यो जपेत् कवचं नरः ॥

नारी वापि प्रयब्रेन वाञ्छितार्थमवाप्नुयात्। 
द्वितीया सूर्यवारेण यदा भवति पयभूः ॥ 

तस्यां जातं शतावृत्या शीघ्र प्रत्यक्षमाप्रयात्। 
याता तुरीयं संध्यायां भूशव्यायां प्रयत्नतः ॥

सर्वान् शत्रून् क्षयं कृत्वा विजयं प्राप्नुयान् नरः।
दारिद्रयान् मुच्यते चाऽऽशु स्थिरा लक्ष्मीर्भवेद् गृहे ॥

सर्वान् कमानवाप्नोति सविषो निर्विषो भवेत्।
ऋण निर्मोचनं स्याद् वै सहस्वावर्तनाद् विधे ॥

भूतप्रेतपिशाचदिपीडा तस्य न जायते। 
द्युमणिभ्राजते यद्वत् तद्वत् स्याच्ड्रीप्रभावतः ॥

स्थिराभया भवेत् तस्य यः स्मरेद् बगलामुखीम्।
जयदं बोधनं कामममुकं देहि मे शिवे ॥

जपस्यान्ते स्मरेद् यो वै सोऽभीष्टफलमाप्नुयात्। 
इदं कवचमज्ञात्वा यो जपेद् बगलामुखीम् ॥

न सः सिद्धिमवाप्नोति साक्षाद् वै लोकपूजितः। 
तस्मात् सर्वप्रयत्नेन कवचं ब्रह्मतेजसम् ॥

नित्यं पदाम्बुजध्यानन् महेशानसमो भवेत् ।

॥ इति श्रीदक्षिणामूर्तिसंहितायां बगलामुखी ब्रह्मास्त्र कवचम् सम्पूर्ण ॥

टिप्पणियाँ