बगला ( पीताम्बरा ) पञ्जर स्तोत्र,
यह स्तोत्र स्वरक्षा कारक एवं श्रीवृद्धि कारक है।॥ सूत उवाच ॥
॥ श्री नारद उवाच ॥
॥ श्रीशिव उवाच ॥
॥ अथ ध्यानम् ॥
॥ श्रीशिव उवाच ॥
पञ्जरं तत् प्रवक्ष्यामि देव्याः पापप्रणाशनम्।
यं प्रविश्य न बाधन्ते बाणैरपि नराः क्वचित् ॥१ ॥
ॐ ऐं ह्रीं श्रीं श्रीमत्पीताम्बरा देवी बगला बुद्धिवर्धिनी।
पातु मामनिशं साक्षात् सहस्त्रार्कसमद्युतिः ॥२॥
शिखादिपाद पर्यन्तं वज्रपञ्जरधारिणी।
ॐ ऐं ह्रीं श्रीं श्रीमद्ब्रह्मास्त्रविद्या या पीताम्बर विभूषिता ॥३ ॥
बगला मामवत्वत्र मूर्धभागं महेश्वरी ।
ॐ ऐं ह्रीं श्रीं कामाङ्कुशकला पातु बगला शास्वबोधिनी ॥४॥
पीताम्बरा सहस्राक्षा ललाटं कामितार्थदा।
ॐ ऐं ह्रीं श्रीं पातु बगला पीताम्बरसुधारिणी ॥५॥
कर्णयोश्चैव युगपद अतिरनप्रपूजिता।
ॐ ऐं ह्रीं श्रीं पातु बगला नासिकां मे गुणाकरा॥६॥
पीतपुष्यैः पीतवस्वैः पूजिता वेददायिनी।
ॐ ऐं ह्रीं श्रीं पातु बगला ब्रह्माविष्ण्वादिसेविता॥७॥
पीताम्बरा प्रसन्नास्या नेत्रयोर्युगपद् ध्रुवी ।
ॐ ऐं ह्रीं श्रीं पातु बगला वलिदा पीतवस्वधृक् ॥८॥
अधरोष्ठी तथा दन्तान् जिह्वां च मुखगां मम।
ॐ ऐं ह्रीं श्रीं पातु बगला पीताम्बरसुधारिणी ॥९॥
गले हस्ते तथा वाह्वोः युगपद् बुद्धिदा सताम् ।
ॐ ऐं ह्रीं श्रीं पातु बगला दिव्यखगनुलेपना ॥१०॥
हृदये च स्तनी नाभी करावपि कृशोदरी ।
ॐ ऐं ह्रीं श्रीं पातु बगला पीतवस्त्रघनावृता ॥११॥
जङ्घायां च तथा चोर्वोर्गुल्फयोश्चातिवेगिनी।
अनुक्तमपि यत् स्थानं त्वक्केशनखलोमकम् ॥१२॥
असृमांर्स तथाऽस्थीनि सन्धयश्चापिमे परा ॥
॥ फलश्रुति ॥
इत्येतद् वरदं गोप्यं कलावपि विशेषतः ॥१३॥
पञ्जरं बगलादेव्या दीर्घदारिद्रयनाशनम्।
पञ्जरं यः पठेत् भक्तया स विघ्नैर्नाभिभूयते ॥१४॥
अव्याहतगतिश्चास्य ब्रह्मविष्ण्वादिसत्पुरे।
स्वर्गे मत्यें च पाताले नाऽरयस्तं कदाचन ॥१५॥
प्रबाधन्ते नरव्याघ्रं पञ्जरस्थं कदाचन।
अतो भक्तैः कौलिकैश्च स्वरक्षार्थ सदैव हि ॥१६॥
पठनीयं प्रयत्नेन सर्वाऽनर्थविनाशनम् ।
महादारिद्र्यशमनं सर्वमाङ्गल्यवर्धनम् ॥१७॥
विद्याविनयसत्सौख्यं महासिद्धिकरं परम्।
इदं ब्रह्मास्वविद्यायाः पञ्जरं साधु गोपितम् ॥१८॥
पठेत् स्मरेद् ध्यानसंस्थः स जीयान् मरणान् नरः।
यः पञ्जरं प्रविश्यैव मन्त्र जपति वै भुवि ॥ १९॥
कौलिकोऽकौलिको वापि व्यासवद् विचरेद् भुवि।
चन्द्रसूर्यप्रभुर्भूत्वा वसेत् कल्पायुतं दिवि ॥२०॥
॥ श्री सूत उवाच ॥
इति कथितमशेषं श्रेयसामादिबीजं ।
भवशतदुरितघ्नं ध्वस्तमोहान्धकारम् ॥
स्मरणमतिशयेन प्राप्तिरेवात्र मर्त्यः।
यदि विशति सदा वै पञ्जरं पण्डितः स्यात् ॥२१॥
अथ पञ्जरन्यास स्तोत्रम् ॥
बगला पूर्वतो रक्षेद् आग्नेय्यां च गदाधरी।
पीताम्बरा दक्षिणेच स्तम्भिनी चैव नैर्ऋते ॥१॥
जिल्ह्वाकीलिन्यतो रक्षेत् पश्चिमे सर्वदा हि माम्।
वायव्ये च मदोन्मत्ता कौवेर्यां च त्रिशूलिनी ॥२॥
ब्रह्मास्त्रदेवता पातु ऐशान्यां सततं मम।
संरक्षेन् मां तु सततं पाताले स्तब्धमातृका ॥३॥
ऊध्र्वं रक्षेन् महादेवी जिह्वास्तम्भनकारिणी।
एवं दश दिशो रक्षेद् बगला सर्वसिद्धिदा ॥४॥
एवं न्यासविधिं कृत्वा यत् किचिंजपमाचरेत्।
तस्याः संस्मरणादेव शत्रूणां स्तम्भनं भवेत् ॥५॥
टिप्पणियाँ