माँ धूमावती स्तुति
विवर्णा चंचला कृष्णा दीर्घा च मलिनाम्बरा,
विमुक्त कुंतला रूक्षा विधवा विरलद्विजा,
काकध्वजरथारूढा विलम्बित पयोधरा,
सूर्पहस्तातिरुक्षाक्षी धृतहस्ता वरान्विता,
प्रवृद्वघोणा तु भृशं कुटिला कुटिलेक्षणा,
क्षुत्पिपासार्दिता नित्यं भयदा काल्हास्पदा
देवी धूमावती की 108 शतनामावली
ॐ धूमावत्यै नमः ।
ॐ धूम्रवर्णायै नमः ।
ॐ धूम्रपानपरायणायै नमः ।
ॐ धूम्राक्षमथिन्यै नमः ।
ॐ धन्यायै नमः ।
ॐ धन्यस्थाननिवासिन्यै नमः ।
ॐ अघोराचारसन्तुष्टायै नमः ।
ॐ अघोराचारमण्डितायै नमः ।
ॐ अघोरमन्त्रसम्प्रीतायै नमः ।
ॐ अघोरमन्त्रपूजितायै नमः ।10
ॐ अट्टाट्टहासनिरतायै नमः ।
ॐ मलिनाम्बरधारिण्यै नमः ।
ॐ वृद्धायै नमः ।
ॐ विरूपायै नमः ।
ॐ विधवायै नमः ।
ॐ विद्यायै नमः ।
ॐ विरलद्विजायै नमः ।
ॐ प्रवृद्धघोणायै नमः ।
ॐ कुमुख्यै नमः ।
ॐ कुटिलायै नमः ।20
ॐ कुटिलेक्षणायै नमः ।
ॐ कराल्यै नमः ।
ॐ करालास्यायै नमः ।
ॐ कङ्काल्यै नमः ।
ॐ शूर्पधारिण्यै नमः ।
ॐ काकध्वजरथारूढायै नमः ।
ॐ केवलायै नमः ।
ॐ कठिनायै नमः ।
ॐ कुह्वै नमः ।
ॐ क्षुत्पिपासार्दितायै नमः ।30
ॐ नित्यायै नमः ।
ॐ ललज्जिह्वायै नमः ।
ॐ दिगम्बर्यै नमः ।
ॐ दीर्घोदर्यै नमः ।
ॐ दीर्घरवायै नमः ।
ॐ दीर्घाङ्ग्यै नमः ।
ॐ दीर्घमस्तकायै नमः ।
ॐ विमुक्तकुन्तलायै नमः ।
ॐ कीर्त्यायै नमः ।
ॐ कैलासस्थानवासिन्यै नमः ।40
ॐ क्रूरायै नमः ।
ॐ कालस्वरूपायै नमः ।
ॐ कालचक्रप्रवर्तिन्यै नमः ।
ॐ विवर्णायै नमः ।
ॐ चञ्चलायै नमः ।
ॐ दुष्टायै नमः ।
ॐ दुष्टविध्वंसकारिण्यै नमः ।
ॐ चण्ड्यै नमः ।
ॐ चण्डस्वरूपायै नमः ।
ॐ चामुण्डायै नमः ।
ॐ चण्डनिःस्वनायै नमः ।
ॐ चण्डवेगायै नमः ।
ॐ चण्डगत्यै नमः ।
ॐ चण्डविनाशिन्यै नमः ।
ॐ मुण्डविनाशिन्यै नमः ।
ॐ चाण्डालिन्यै नमः ।
ॐ चित्ररेखायै नमः ।
ॐ चित्राङ्ग्यै नमः ।
ॐ चित्ररूपिण्यै नमः ।
ॐ कृष्णायै नमः ।60
ॐ कपर्दिन्यै नमः ।
ॐ कुल्लायै नमः ।
ॐ कृष्णरूपायै नमः ।
ॐ क्रियावत्यै नमः ।
ॐ कुम्भस्तन्यै नमः ।
ॐ महोन्मत्तायै नमः ।
ॐ मदिरापानविह्वलायै नमः ।
ॐ चतुर्भुजायै नमः ।
ॐ ललज्जिह्वायै नमः ।
ॐ शत्रुसंहारकारिण्यै नमः ।70
ॐ शवारूढायै नमः ।
ॐ शवगतायै नमः ।
ॐ श्मशानस्थानवासिन्यै नमः ।
ॐ दुराराध्यायै नमः ।
ॐ दुराचारायै नमः ।
ॐ दुर्जनप्रीतिदायिन्यै नमः ।
ॐ निर्मांसायै नमः ।
ॐ निराकारायै नमः ।
ॐ धूमहस्तायै नमः ।
ॐ वरान्वितायै नमः ।80
ॐ कलहायै नमः ।
ॐ कलिप्रीतायै नमः ।
ॐ कलिकल्मषनाशिन्यै नमः ।
ॐ महाकालस्वरूपायै नमः ।
ॐ महाकालप्रपूजितायै नमः ।
ॐ महादेवप्रियायै नमः ।
ॐ मेधायै नमः ।
ॐ महासङ्कटनाशिन्यै नमः ।
ॐ भक्तप्रियायै नमः ।
ॐ भक्तगत्यै नमः ।90
ॐ भक्तशत्रुविनाशिन्यै नमः ।
ॐ भैरव्यै नमः ।
ॐ भुवनायै नमः ।
ॐ भीमायै नमः ।
ॐ भारत्यै नमः ।
ॐ भुवनात्मिकायै नमः ।
ॐ भेरूण्डायै नमः ।
ॐ भीमनयनायै नमः ।
ॐ त्रिनेत्रायै नमः ।
ॐ बहुरूपिण्यै नमः ।100
ॐ त्रिलोकेश्यै नमः ।
ॐ त्रिकालज्ञायै नमः ।
ॐ त्रिस्वरूपायै नमः ।
ॐ त्रयीतनवे नमः ।
ॐ त्रिमूर्त्यै नमः ।
ॐ तन्व्यै नमः ।
ॐ त्रिशक्त्यै नमः ।
ॐ त्रिशूलिन्यै नमः ।108
श्री धूमावती स्तोत्र,Shri Dhumavati Stotra
प्रातां स्यात्कुमारी कुसुमकलिकया जापमालां जयंती,
मध्याह्ने प्रौढरूपा विकसितवदना चारुनेत्रा निशायाम् ।
संध्यायां वृद्धरूपागलितकुचयुगा मुण्डमालां वहंती सा
देवी देवदेवी त्रिभुवनजननी कालिकापातु युष्मान् ॥१॥
वद्धा खट्वांगखेटौ कपिलवरजटामण्डलं पद्मयोनेः,
कृत्वा दैत्योत्तमांगैः स्त्रजमुरसि शिरः शेखर तायपक्षैः ।
पूर्ण रक्तैः सुराणां यममहिष महाशृङ्गमादाय पाणी,
पायाद्वो वंद्यमानः प्रलयमुदितया भैरवः कालरात्र्याम् ॥२॥
चर्वन्तीमस्थिखण्डं प्रकटकटकटाशब्द संघातमुग्रं,
कुर्वाणा प्रेतमध्ये कहहकहकहाहास्यमुग्रं कृशांगी ।
नित्यं नित्यप्रसक्ता डमरुडिमडिमान् स्फारयंती मुखाब्जं,
पायात्रक्षण्डिकेयं झझमझमझमाजल्पमाना भ्रमंती ॥३॥
टंटंटंटंटटंडाप्रकर टमटमा नादर्घटां बहंती,
स्फ्रेंस्फेंस्फेंस्फारकारा टकटकितहसा नादसंघट्टभीमा ।
लोलन्मुण्डाग्रमाला ललहलहलहालोललोलाग्रवाचं,
चर्वती चण्डमुण्डं मटमटमटितैश्वर्वयंती पुनातु ॥४॥
वामे कर्णं मृगांकं प्रलय परिगतं दक्षिणे सूर्यबिंबं,
कण्ठे नक्षत्रहारं वरविकट जटाजूटके मुण्डमालाम् ।
स्कंधे कृत्वोरगेन्द्रध्वजनिकरयुतं ब्रहाकंकालभारं संहारे,
धारयंती मम हरतु भयं भगदा भद्रकाली ॥५॥
तैलाभ्यक्तैकवेणी त्रपुमयविलसत्कर्णिकाक्रांतकर्णा,
लौहेनैकेन कृत्वा चरणनलिन कामात्मनः पादशोभाम् ।
दिग्वासा रासभेन ग्रसत्ति जगदिदं या यवाकर्णपूरा,
वर्षिण्यातिप्रवृद्धा ध्वजविततभुजा सासि देवि त्वमेव ॥६ ॥
संग्रामे हेतिकृत्तैः सरुधिरदशनैर्वद्भटानां शिरोभिर्मालामाबद्धध
मूर्ति ध्वजविततभुजा त्वं श्मशाने प्रविष्ठा ।
दृष्टा भूतप्रभूतैः पृथुतरजधनाबद्धनागेन्द्रकाञ्ची,
शूलाग्रव्यग्रहस्ता मधुरुधिरसदाताम्रनेत्री निशायाम् ॥७॥
दंष्टठारौद्रे मुखेऽस्मिंस्तव विशति जगद्देवि सर्वं क्षणाद्धांत्,
संसारस्यांतकाले नररुधिरवशासम्प्लवे धूमधूचे ।
कालीकापालिकी सा शवशयनरता योगिनीयोगमुद्रारक्ता
ऋद्धिः सभास्था मरणभयहरा त्वं शिवाचण्डघण्टा ॥८॥
धूमावत्यष्टकं पुण्यं सर्वापद्विनिवारकम् ।
यः पठेत्साधको भक्त्या सिद्धिं विंदति वांछिताम् ॥९ ॥
महापदि महाघोरे महारोगे महारणे।
शत्रूच्चाटे मारणादौ जंतूनां मोहने तथा ॥१०॥
पठेत्स्तोत्रमिदं देवि सर्वत्र सिद्धिभाग्भवेत् ।
देवदानवगंधर्वा यक्षराक्षसपन्नगाः ॥११॥
सिंहव्याघ्रादिकाः सर्वे स्तोत्रस्मरणामात्रतः।
दूराहूरतरे यांति किं पुनर्मांनुषादयः ॥१२॥
स्तोत्रेणानेन देवेशि किं न सिद्धयति भूतले
सर्वशांतिर्भवेद्देवि हांते निर्वाणतां व्रजेत् ॥१३॥
॥ इत्यूर्द्धवासाये धूमावतीस्तोत्रं सम्पूर्ण ॥
टिप्पणियाँ