श्री तारा हृदय स्तोत्रम्,Sri Tara Hridaya Stotram
श्री तारा (महाविद्या) हृदय स्तोत्र -Sri Tara (Mahavidya)Hridaya Stotram
॥ श्रीशिव उवाच ॥
॥ श्रीपार्वत्युवाच ॥
॥ श्रीशिय उवाच ॥
- विनियोगः-
- हृदयादि षडंगन्यासः-
- ॥ ध्यानम् ॥
एवं ध्यात्वा शुभां तारां ततस्तु हृदयं पठेत्।
तारिणी तत्त्वनिष्ठानां सर्वतत्त्वप्रकाशिका ॥५॥
रामाभिन्ना पराशक्तिः शत्रुनाशं करोतु मे।
सर्वदा शत्रुसंरम्भे तारा मे कुरुर्ता जयम् ॥६॥
स्त्रीं त्रीं स्वरूपिणी देवि त्रिषु लोकेषु विश्रुता।
तव स्नेहान्मयाख्यातं न पैशुन्यं प्रकाश्यताम् ॥७॥
शृणु देवि ! तव स्नेहात्तारानामानि तत्त्वतः ।
वर्णयिष्यामि गुप्तानि दुर्लभानि जगत्त्रये ॥८ ॥
तारिणी तरला तारा त्रिरूपा तरणिप्रभा।
सत्त्वरूपा महासाध्वी सर्वसज्जनपालिका ॥९ ॥
रमणीया रजोरूपा जगत्सृष्टिकरी परा।
तमोरूपा महामाया घोररावा भयानका ॥१०॥
कालरूपा कालिकाख्या जगद्विध्वंसकारिका ।
तत्त्वज्ञानपरानन्दा तत्त्वज्ञानप्रदाऽनघा ॥११॥
रक्तांगी रक्तवस्वा च रक्तमालाप्रशोभिता।
सिद्धिलक्ष्मीश्च ब्रह्माणी महाकाली महालया ॥१२॥
नामान्येतानि ये मत्र्याः सर्वदैकाग्रमानसाः।
प्रपठन्ति प्रिये तेषां किंकरत्वं करोम्यहम् ॥१३॥
तारों तारपरां देवीं तारकेश्वर पूजिताम्।
तारिणीं भवपाथोथेरुग्रतारां भजाम्यहम् ॥१४॥
स्त्रीं ह्रीं हूंत्री फण्मंत्रेण जलं जप्त्वाऽभिषेचयेत्।
सर्वेरोगाः प्रणश्यन्ति सत्यं सत्यं बदाम्यहम् ॥१५ ॥
त्रीं स्वाहान्तैर्महामंत्रैश्चन्दनं साधयेत्ततः ।
तिलकं कुरुते प्राज्ञों लोको वश्यो भवेप्रिये ॥१६ ॥
स्त्रीं ह्रीं त्री स्वाहा मंत्रेण श्मशानं भस्ममंत्रयेत्।
शत्रोगृहे तत्प्रक्षेपाच्छत्रोर्मृत्युर्भविष्यति ॥१७॥
ह्रीं हूं स्वीं फडंत मन्त्रैः पुष्यं संशोध्य सप्तथा।
उच्चाटनं नयत्याशु रिपूणां नैव संशयः ॥१८ ॥
स्त्रीं त्रीं ह्रीं मन्ववर्येन अक्षताश्चाभिमंत्रिताः।
तत्प्रतिक्षेपमात्रेण शीघ्रमायाति मानिनी ॥१९॥
(हंसः ॐ ह्रीं स्वीं हूं हंसः)
इति मंत्रेण जप्तेन शोधितं कज्ञ्जलं प्रिये। तस्यैव तिलकं कृत्वा जगन्मोई समाचरेत् ॥२०॥
ताराया हृदयं देवि सर्वपापप्रणाशनम् । वाजपेयादियज्ञानां कोटिकोटिगुणोत्तरम् ॥२१ ॥
गंगादिसर्वतीर्थानां फलं कोटिगुणात्स्मृतम्। महादुःखे महारोगे सङ्कटे प्राणसंशये ॥२२ ॥
महाभये महाघोरे पठेत्स्तोत्रं महोत्तमम् । सत्यं सत्यं मयोक्तं ते पार्वति प्राणवल्लभे ॥ २३ ॥
गोपनीयं प्रयत्लेन न प्रकाश्यमिदं क्वचित् ॥२४॥
इति श्रीभैरवीतंत्रे शिवपार्वती संवादे श्रीमदुग्रताराहृदयं सम्पूर्णम्॥
[श्री तारा (महाविद्या ) शतनाम स्तोत्र ] [ श्री तारा ( महाविद्या ) सहस्रनाम स्तोत्र ]
[ श्री तारा ( नीला तारा ) महाविद्या स्तोत्र ] [ श्री तारा (महाविद्या) हृदय स्तोत्र ]
टिप्पणियाँ