श्री तारा ( महाविद्या ) सहस्रनाम स्तोत्र
श्री तारा सहस्रनाम स्तोत्र,Shri Tara (Mahavidya) Sahasranama Stotra
॥ श्रीवशिष्ठ उवाच ॥
नाम्नां सहस्रं ताराया मुखाम्भोजाद्विनिर्गतम्।
मंत्रसिद्धिकरं प्रोक्तं तन्मे वद पितामह ॥१ ॥
॥ ब्रह्मोवाच ॥
शृणु वत्स ! प्रवक्ष्यामि रहस्यं सर्वसिद्धिदम्।
यस्योपदेशमात्रेण तव सिद्धिर्भविष्यति ॥२॥
महाप्रलयकालादौ नष्टे स्थावरजङ्गमे।
महाकारं समाकर्ण्य कृपया संहतं तनी ॥३ ॥
नाम्ना तेन महातारा ख्याता सा ब्रह्मरूपिणी।
महाशूलत्रयं कृत्वा तत्र चैकाकिनी स्थिता ॥४॥
पुनः सृष्टेश्चिकीर्षा ऽभूद्दिव्यसाम्राज्यसंज्ञकम् ।
नाम्नां सहस्रमस्यास्तु तकाराद्यं मया स्मृतम् ॥५॥
तत्प्रभावेण ब्रह्माण्डं निर्मितं सुदृद्धं महत्।
औविर्भूता वयं तन्त्रयन्त्रैस्तस्याः पुरा द्विजः ॥६ ॥
स्व-स्व-कार्यार्थिनस्तत्र भ्रान्ता भ्रम्यां यथा वयम्।
तयोपदिष्टाः कृपया भवामः सृष्टिकारकाः ॥७ ॥
तस्याः प्रसादाद्विप्रेन्द्र त्रयो ब्रह्माण्डनायकाः।
अन्ये सुरगणाः सर्वे तस्याः पादप्रसेवकाः ॥८॥
पठनाद्धारणात्सृष्टेः कर्ताऽहं पालको हरिः।
तत्त्वाक्षरोपदेशेन संहर्ता शंकरः स्वयम् ॥९॥
ऋषिच्छन्दादिकं ध्यानं मूलवत्परिकीर्तितम्।
नियोगमात्रसिद्धौ च पुरुषार्थचतुष्टयम् ॥१०॥
- विनियोगः-
- ऋष्यादि न्यासः-
- हृदयादि षडंगन्यासः-
- करन्यासः-
- ॥ ध्यानम् ॥
श्री तारा ( महाविद्या ) सहस्रनाम स्तोत्र
तारा तारादिपंचार्णा तारान्यावेदवीर्यजा।
तारा तारहितावर्णा ताराद्या ताररूपिणी ॥११॥
तारारात्रि समुत्पन्ना तारारात्रिवरोद्यता ।
तारारात्रिजपासक्ता तारारात्रिस्वरूपिणी ॥१२॥
ताराराज्ञीस्वसंतुष्टा ताराराज्ञीवरप्रदा।
ताराराज्ञीस्वरूपा च ताराराज्ञीप्रसिद्धिदा ॥१३॥
ताराहुत्पंकजागारा ताराहृत्पंकजापरा ।
ताराहुत्पंकजाधारा ताराहृत्पंकजा तथा ॥१४॥
तारेश्वरी च ताराभा तारागणस्वरूपिणी ।
तारागणसमाकीर्णा तारागणनिषेविता ॥१५॥
तारा तारान्विता तारारत्रान्वितविभूषणा ।
तारागणरणासन्ना ताराकृत्यप्रपूजिता ॥१६॥
तारागणकृताहारा तारागणकृताश्रया ।
तारागणकृतागारा तारागणनतत्परा ॥१७॥
तारागुणगुणाकीर्णा तारागुणगणप्रदा।
तारागुणगणासक्ता तारागुणगणालया ॥१८॥
तारेश्वरी तारापूज्या ताराजण्या तु तारणा।
तारमुख्या तु ताराख्या तारदक्षा तु तारिणी ॥१९॥
तारागम्या तु तारस्था तारामृत तरङ्गिणी।
तारभव्या तु तारार्णा तारहव्या तु तारिणी ॥२०॥
तारका तारकांतस्था तारकाराशिभूषणा ।
तारकाहारशोभाढ्या तारकावेष्टिताङ्गणा ॥२१॥
तारकाईसकाकीर्णा तारकाकृतभूषणा ।
तारकाङ्गदशोभाङ्गी तारकाश्रितकङ्कणा ॥२२॥
तारकाञ्चितकाञ्ची च तारकान्वितभक्षणा।
तारकाचित्रवसना तारकासनमण्डला ॥२३॥
तारकाकीर्णमुकुटा तारकाश्रितकुण्डला ।
तारकान्वित ताटङ्कयुग्मगण्डस्थलोज्ज्वला ॥२४॥
तारकाश्रितपादाब्जा तारकावरदायिका।
तारकादत्तहृदया तारकाञ्चितसायका ॥२५॥
तारकान्यासकुशला तारकान्यासविग्रहा।
तारकान्याससन्तुष्टा तारकान्याससिद्धिदा ॥२६॥
तारकान्यासनिलया तारकान्यासपूजिता ।
तारकान्याससंहृष्टा तारकान्याससिद्धिदा ॥२७॥
तारकान्याससंमग्ना तारकान्यासवासिनी।
तारकान्याससम्पूर्णा मंत्रसिद्धिविधायिनी ॥२८ ॥
तारकोपासकप्राणा तारकोपासकप्रिया ।
तारकोपासकासाध्या तारकोपासकेष्टदा ॥२९॥
तारकोपासकासक्ता तारकोपासकार्थिनी ।
तारकोपासकाराध्या तारकोपासकाश्रया ॥३०॥
तारकासुरसन्तुष्टा तारकासुरपूजिता ।
तारकासुरनिर्माणकर्णी तारक वन्दिता ॥३१ ॥
तारकासुरसम्मान्या तारकासुरमानदा ।
तारकासुरसंसिद्धा तारकासुरदेवता ॥३२॥
तारकासुरदेहस्था तारकासुरस्वर्गदा ।
तारकासुरसंसृष्टा तारकासुरगर्वदा ॥३३॥
तारकासुरसंहंत्री तारकासुरमर्दिनी ।
तारकासुरसंग्रामनर्तकी तारकापरा ॥३४ ॥
तारकासुरसंग्रामतारिणी तारकारिभृत्।
तारकासुरसंग्राम कबंधवृन्दवन्दिता ॥३५॥
तारकारिप्रसूस्तारकारिमाता तुकारिका ।
तारकारिमनोहारि वस्वभूषानुशासिका ॥३६॥
तारकारिविधात्री च तारकारिनिषेविता ।
तारकारिवचस्तुष्टा तारकारिसुशिक्षिता ॥३७॥
तारकारिसुसन्तुष्टा तारकारिविभूषिता ।
तारकारिकृतोत्सङ्गा तारकारिप्रहर्षदा ॥३८ ॥
तमः सम्पूर्णसर्वाङ्गी तमोलिप्तकलेवरा ।
तमोव्याप्तस्थलासङ्गा तमः पटलसन्निभा ॥३९॥
तमोहन्त्री तमःकीं तमः संचारकारिणी।
तमोगात्री तमोदात्री तमः पात्री तमोऽपहा ॥४०॥
तमोराशिस्तमोनाशा तमोराशि विनाशिनी।
तमोराशिकृतध्वंसी तमोराशिभयंकरी ॥४१॥
तमोगुणप्रसन्नास्या तमोगुणसुसिद्धिदा ।
तमोगुणोक्तमार्गस्था तमोगुणविराजिता ॥४२॥
तमोगुणस्तुतिपरा तमोगुणविवर्द्धिनी ।
तमोगुणाश्रितपरा तमोगुणविनाशिनी ॥४३॥
तमोगुणक्षयकरी तमोगुणकलेवरा ।
तमोगुणध्वंसतुष्टा तमः पारे प्रतिष्ठिता ॥४४॥
तमोभवभवप्रीत्ता तमोभवभवप्रिया ।
तमोभवभवश्रद्धा तमोभवभवाश्रया ॥४५॥
तमोभवभवप्राणा तमोभवभवार्चिता ।
तमोभवभवप्रीत्यालीढ कुम्भस्थलस्थिता ॥४६॥
तपस्विवृन्दसन्तुष्टठा तपस्विवृन्दपुष्टिदा ।
तपस्विवृन्दसंस्तुत्या तपस्विवृन्दवंदिता ॥४७॥
तपस्विवृन्दसम्पन्ना तपस्विवृन्दहर्षदा ।
तपस्विवृन्दसम्पूज्या तपस्विवृन्दभूषिता ॥४८ ॥
तपस्विचित्ततल्पस्था तपस्विचित्तमध्यगा।
तपस्विचित्तचित्तार्हा तपस्विचित्तहारिणी ॥४९॥
तपस्विकल्पवल्याभा तपस्विकल्पपादपा ।
तपस्विकामधेनुश्च तपस्विकामपूर्तिदा ॥५०॥
तपस्वित्राणनिरता तपस्विगृहसंस्थिता ।
तपस्विगृहराज्य श्रीस्तपस्विराज्यदायिका ॥५१॥
तपस्विमानसाराध्या तपस्विमानदायिका ।
तपस्वितापसंहर्जी तपस्वितापशान्तिकृत् ॥५२॥
तपस्विसिद्धिविद्या च तपस्विमंत्रसिद्धिकृत् ।
तपस्विमंत्रतन्त्रेशी तपस्विमंत्ररूपिणी ॥५३॥
तपस्विमंत्रनिपुणा तपस्विकर्मकारिणी ।
तपस्विकर्मसम्भूता तपस्विकर्मसाक्षिणी ॥५४॥
तपस्सेव्या तपोभव्या तपोभाव्या तपस्विनी।
तपोवश्या तपोगम्या तपोगेहनिवासिनी ॥५५॥
तपोधन्या तपोमान्या तपः कन्या तपोवृता ।
तपस्तथ्या तपोगोप्या तपोजण्या तपोनृता ॥५६॥
तपःसाध्या तपोराच्या तपोवन्द्या तपोमयी।
तपस्संध्या तपोवन्ध्या तपस्सात्रिध्यकारिणी ॥५७॥
तपोध्येया तपोज्ञेया तपस्तप्ता तपोबला।
तपोलेया तपोदेया तपस्तत्त्वफलप्रदा ॥५८ ॥
तपोविघ्नवरघ्नी च तपोविघ्नविनाशिनी।
तपोविघ्नचयध्वंशी तपोविघ्नभयंकरी ॥५९॥
तपोभूमिवरप्राणा तपोभूमिपतिस्तुता।
तपोभूमिपतिध्येया तपोभूमिपतीष्टदा ॥६०॥
तपोवनकुरङ्गस्था तपोवनविनाशिनी ।
तपोवनगतिप्रीता तपोवनविहारिणी ॥६१ ॥
तपोवनफलासक्ता तपोवनफलप्रदा ।
तपोवनसुसाध्या च तपोवनसुसिद्धिदा ॥६२॥
तपोवनसुसेव्या च तपोवननिवासिनी।
तपोधनसुसंसेव्या तपोधनसुसाधिता ॥६३॥
तपोधनसुर्सलीना तपोधन मनोमयी ।
तपोधननमस्कारा तपोधनविमुक्तिदा ॥६४॥
तपोधनधनासाध्या तपोधनधनात्मिका।
तपोधनधनाराध्या तपोधनफलप्रदा ॥६५॥
तपोधनधनाढ्या च तपोधनधनेश्वरी ।
तपोधनधनप्रीता तपोधनधनालया ॥६६॥
तपोधनजनाकीर्णा तपोधनजनाश्रया ।
तपोधनजनाराध्या तपोधनजनप्रसूः ॥६७॥
तपोधनजनप्राणा तपोधनजनेष्टदा ।
तपोधनजनासाध्या तपोधनजनेश्वरी ॥६८॥
तरुणासुप्रपानार्ता तरुणासृक्प्रतर्पिता।
तरुणासुक्समुद्रस्था तरुणासूक्प्रहर्षदा ॥६९॥
तरुणासृक्सुसन्तुष्टा तरुणासृग्विलेपिता ।
तरुणासुड्नदीप्राणा तरुणासृग्विभूषणा ॥७०॥
तरुणैणबलिप्रीता तरुणैणबलिप्रिया ।
तरुणैणबलिप्राणा तरुणैणबलीष्टदा ॥७९॥
तरुणाजबलिप्रीता तरुणाजबलिप्रिया ।
तरुणाजबलिनाणा तरुणाजबलिप्रभुक् ॥७२॥
तरुणादित्य सङ्काशा तरुणादित्यविग्रहा।
तरुणादित्यरुचिरा तरुणादित्यनिर्मला ॥७३॥
तरुणादित्यनिलया तरुणादित्यमण्डला ।
तरुणादित्यललिता तरुणादित्यकुण्डला ॥७४॥
तरुणार्कसमज्योलना तरुणार्कसमप्रभा ।
तरुणार्कप्रतीकाशा तरुणार्कप्रवर्द्धिता ॥७५॥
तरुणारुणनेत्रा च तरुणारुण लोचना।
तरुणारुणगात्रा च तरुणारुणभूषणा ॥७६ ॥
तरुणीदत्तसंकेता तरुणीदत्तभूषणा ।
तरुणीगणसन्तुष्ठा तरुणी तरुणीमणिः ॥७७॥
तरुणीमणिसंसेव्या तरुणीमणिबंदिता ।
तरुणीमणिसंतुष्टा तरुणीमणिपूजिता ॥७८ ॥
तरुणीवृन्दसंवन्द्या तरुणीवृन्दवन्दिता ।
तरुणीवृन्दसंस्तुत्या तरुणीवृन्दमानदा ॥॥७९ ॥
तरुणीवृन्दमध्यस्था तरुणीवृन्दवेष्टिता।
तरुणीवृन्दसम्प्रीता तरुणीवृन्दभूषिता ॥८०॥
तरुणीजयसंसिद्धा तरुणीजयमोक्षदा ।
तरुणीपूजकासक्ता तरुणीपूजकार्थिनी ॥८१॥
तरुणीपूजक श्रीदा तरुणीपूजकार्तिहा ।
तरुणीपूजकप्राणा तरुणीनिन्दकार्त्तिदा ॥८२॥
तरुणीकोटिनिलया तरुणीकोटिविग्रहा।
तरुणीकोटिमध्यस्था तरुणीकोटिवेष्टिता ॥८३॥
तरुणीकोटिदुःसाध्या तरुणीकोटिविग्रहा।
तरुणीकोटिरुचिरा तरुणी तरुणीश्वरी ॥८४॥
तरुणीमणिहाराढ्या तरुणीमणिकुण्डला ।
तरुणीमणिसन्तुष्टा तरुणीमणिमण्डिता ॥८५॥
तरुणीसरणिप्रीता तरुणीसरणीरता ।
तरुणीसरणिस्थाना तरुणीसरणीमता ॥८६॥
तरणीमण्डलश्रीदा तरणीमण्डलेश्वरी।
तरणीमण्डलश्रद्धा तरणीमण्डलस्थिता ॥८७॥
तरणीमण्डलाध्यांढ्या तरणीमण्डलार्चिता।
तरणीमण्डलध्येया तरणीभवसागरा ॥८८॥
तरणीकरणासक्ता तरणीतक्षकार्चिता ।
तरणीतक्षक श्रीदा तरणीतक्षकार्थिनी ॥८९॥
तरीतरणशीला च तरीतरणतारिणी ।
तरीतरणसम्वेद्या तरीतरणकारिणी ॥९०॥
तरुरूपा तरूपस्था तरुस्तरुलतामयी।
तरुयूपा तरुस्था च तरुमध्यनिवासिनी ॥९१ ॥
तप्तकाञ्बन गेहस्था तप्तकाञ्बन भूमिका।
तप्तकाञ्बनप्राकारा तप्तकाञ्चनपादुका ॥९२॥
तप्तकाञ्चनदीप्तांगी तप्तकाञ्वनसन्निभा।
तप्तकाञ्चन गौराङ्गी तप्तकाञ्चनमञ्चगा ॥९३॥
तप्तकाञ्चनवस्वाढ्या तप्तकाञ्वनरूपिणी ।
तप्तकाञ्बन मध्यस्था तप्तकाञ्चन कारिणी ॥९४॥
तप्तकाञ्छन मासार्ध्या तप्तकाञ्चन पात्रभुक् ।
तप्तकाञ्चन शैलस्था तप्तकाञ्चनकुण्डला ॥९५ ॥
तप्तकाञ्चन क्षेत्राढ्या तप्तकाञ्चन दण्डधृक् ।
तप्तकाञ्चन भूषाड्या तप्तकाञ्चन दानदा ॥९६ ॥
तप्तकाञ्चन देशेशी तप्तकाञ्बन चापधृक् ।
तप्तकाञ्बनतूणाढ्या तप्तकाञ्चन बाणभृत् ॥९७ ॥
तलातलविधात्री च तलातल विधायिनी।
तलातलस्वरूपेशी तलातल विहारिणी ॥९८॥
तलातल जनासाध्या तलातल जनेश्वरी।
तलातल जनाराध्या तलातल जनार्थदा ॥९९॥
तलातलजयाभाक्षी तलातलजचञ्वला।
तलातलजरत्नाढ्या तलातलजदेवता ॥१००॥
तटिनीस्थानरसिका तटिनी तटवासिनी।
तटिनी तटिनीतीरगामिनी तटिनीप्रिया ॥१०१ ॥
तटिनीप्लवनप्रीता तटिनीप्लवनोद्यता।
तटिनीप्लवनश्लाघ्या तटिनीप्लवनार्थदा ॥१०२॥
तटलास्या तटस्थाना तटेशी तटवासिनी।
तटपूज्या तटाराध्या तटरोममुखार्थिनी ॥१०३॥
तटजा तटरूपा च तटस्था तटचञ्चला।
तटसन्निधिगेहस्था सहितातटशायिनी ॥१०४ ॥
तरङ्गिणी तरङ्गाभा तरङ्गायतलोचना ।
तरङ्गसमदुर्द्धर्षां तरङ्गसमचञ्चला ॥१०५ ॥
तरङ्गसमदीर्घाङ्गी तरङ्गसमवर्द्धिता ।
तरङ्गसम-सम्वृद्धिस्तरङ्गसमनिर्मला ॥१०६ ॥
तडागमध्यनिलया तडागमध्यसम्भवा
उडागरचनश्लाच्या तडागरचनोद्यता ॥१०७॥
तडागकुमुदामोदी तडागेशी तडागिनी ।
तद्वागनीरसंस्त्राता तडागनीरनिर्मला ॥१०८॥
तडागकमलागारा तडागकमलालया ।
तडागकमलान्तस्था तडागकमलोद्यता ॥१०९ ॥
तडागकमलाङ्गी च तडागकमलानना ।
तडागकमलप्राणा तडागकमलेक्षणा ॥११०॥
तडागरक्तपद्मस्था तडागश्वेतपद्मगा ।
तडागनीलपद्याभा तडागनीलपद्मभृत् ॥१११॥
तनुस्तनुगता तन्वी तन्वङ्गी तनुधारिणी।
तनुरूपा तनुगता तनुधृक्तनुरूपिणी ॥११२॥
तनुस्था तनुमध्याङ्गी तनुकृत्तनुमंगला ।
तनुसेव्या तु तनुजा तनुजा तनुसम्भवा ॥११३॥
तनुभृत्तनु सम्भूता तनुदा तनुकारिणी।
तनुभृत्तनु संहन्त्री तनुसंचारकारिणी ॥११४॥
तथ्यवाक् तध्यवचना तनुकृत्तध्यवादिनी ।
तथ्यभृत्तव्यचरिता तथ्यधर्मानुवर्तिनी ॥११५ ॥
तथ्यभुक्तथ्यगमना तथ्यभक्तिवरप्रदा ।
तथ्यनीचेश्वरी तथ्यचित्ताचाराशुसिद्धिदा ॥११६ ॥
तर्त्यातर्व्यस्वभावा च तर्कदा या तु तर्ककृत्।
तर्काध्यापन मध्यस्था तर्काध्यापनकारिणी ॥११७॥
तर्काध्यापन सन्तुष्टा तर्काध्यापन रूपिणी ।
तर्काध्यापनसंशीला तर्कार्थप्रतिपादिता ॥११८ ॥
तर्काध्यापनसंतृप्ता तर्कार्थप्रतिपादिका ।
तर्कवादाश्रितपदा तर्कवादविवर्द्धिनी ॥११९॥
तर्कवादैकनिपुणा तर्कवादप्रचारिणी ।
तमालदलश्यामाङ्गी तमालदलमालिनी ॥१२०॥
तमालवनसंकेता तमालपुष्पपूजिता ।
तगरीतंगराराद्धया तगरार्चितपादुका ॥१२१॥
तगरखक्सुसन्तुष्टा तगरस्त्रग्विराजिता ।
तगराहुतिसन्तुष्टा तगराहतिकीर्तिदा ॥१२२॥
तगराहुतिसंसिद्धा तगराहुतिमानदा ।
तडित्तडिल्लताकारा तडिच्चंचललोचना ॥१२३॥
तडिल्लता तडित्तन्वी तडिद्दीप्ता तडित्प्रभा।
तद्रूपा तत्स्वरूपेशी तन्मयी तत्त्वरूपिणी ॥१२४॥
तत्तस्थानदाननिरता तत्कर्मफलदायिनी।
तत्त्वकृत्तत्त्वदा तत्त्वातत्त्ववित्तत्त्व तर्पिता ॥१२५ ॥
तत्त्वाच्यां तत्त्वपूज्या च तत्त्वार्ध्या तत्त्वरूपिणी।
तत्त्वज्ञानप्रदानेशी तत्त्वज्ञानसुमोक्षदा ॥१२६॥
त्वरितात्वीरतप्रीता त्वरितार्त्तिविनाशिनी ।
त्वरितासवसन्तुष्टा त्वरितासवतर्पिता ॥१२७॥
त्वग्वस्त्रा त्वक्परीधाना तरलातरलेक्षणा ।
तरक्षुचर्मवसना तरभुत्वग्निभूषणा ॥१२८॥
तरक्षुस्तरक्षुप्राणा तरक्षुपृष्ठगामिनी ।
तरक्षुपृष्ठसंस्थाना तरक्षुपृष्ठवासिनी ॥१२९ ॥
तर्पितोदैस्तर्पणाशा तर्पणासक्तमानसा ।
तर्पणानन्दहृदया तर्पणाधिपतिस्ततिः ॥१३०॥
त्रयीमयी त्रयीसेव्या त्रयीपूज्या त्रयीकथा।
त्रयीभव्या त्रयीभाव्या त्रयीहव्या त्रयीयुता ॥१३१ ॥
त्र्यक्षरी त्र्यक्षरेशानी त्र्यक्षरीशीघ्रसिद्धिदा ।
त्र्यक्षरेशी त्र्यक्षरीस्था त्र्यक्षरीपुरुषास्पदा ॥१३२॥
तपता तपनेष्टा च तपस्तपनकन्यका।
तपनांशु समासह्या तपनकोटिकांतिकृत् ॥१३३॥
तपनीया तल्पगता तल्पातल्पविधायिनी।
तल्पकृत्तल्पगा तल्पदात्री तल्पतलाश्रया ॥१३४॥
तपनीय तलारात्री तपनीयांशुप्रार्थिनी।
तपनीयप्रदा तप्ता तपनीयाद्रिसंस्थिता ॥१३५ ॥
तल्पेशी तल्पदा तल्पसंस्थिता तल्पवल्लभा ।
तल्पप्रिया तल्परता तल्पनिर्माणकारिणी ॥१३६ ॥
तरसापूजनासक्ता तरसावरदायिनी ।
तरसासिद्धिसंधात्री तरसामोक्षदायिनी ॥१३७॥
तापसी तापसाराध्या तापसार्तिविनाशिनी।
तापसार्ता तापसश्रीस्तापसप्रियवादिनी ॥१३८ ॥
तापसानन्दहृदया तापसानन्ददायिनी ।
तापसाश्रितपदाब्जा तापसासक्तमानसा ॥१३९॥
तामसी तामसी पूज्या तामसीप्रणयोत्सुका ।
तामसी तामसीप्रीता तामसीशीघ्रसिद्धिदा ॥१४० ॥
तालेशी तालभुक्तालदात्री तालोपमस्तनी ।
तालवृक्षस्थिता तालवृक्षजा तालरूपिणी ॥१४१ ॥
तार्थ्यां तार्थ्यांसमारूढा ताक्ष्यैशी ताक्ष्यपूजिता।
तार्श्वेश्वरी तार्श्वमाता ताक्ष्यैशीवरदायिनी ॥१४२ ॥
तापी तु तापिनी तापसंहंत्री तापनाशिनी ।
तापदात्री तापकर्जी तापविध्वंसकारिणी ॥१४३॥
त्रासक त्रासदात्री त्रासहर्डी च त्रासहा ।
त्रासिता त्रासरहिता त्रासनिर्मूलकारिणी ॥१४४॥
त्राणकृत् त्राणसंशीला तानेशी तानदायिनी।
तानगानरता तानकारिणी तानगायिनी ॥१४५ ॥
तारुण्यामृतसम्पूर्णा तारुण्यामृतवारिधिः ।
तारुण्यामृतसन्तुष्टा तारुण्यामृततर्पिता ॥१४६॥
तारुण्यामृतपूर्णाङ्गी तारुण्यामृतविग्रहा।
तारुण्यगुणसम्पन्ना तारुण्योक्ति विशारदा ॥१४७ ॥
ताम्बूली ताम्बुलेशानी ताम्बूलचर्वणोद्यता ।
ताम्बूल पूरितास्या च ताम्बूलारुणिताधरा ॥१४८ ॥
ताटङ्करत्नविख्याति स्ताटङ्करत्रभूषिणी।
ताटङ्करत्नमध्यस्था ताटङ्कद्वयभूषिता ॥१४९॥
तिथीशा तिथि सम्पूज्या तिथिस्था तिथिरूपिणी।
तिथित्रितयवास्तव्या तिधिशवरदायिनी ॥१५०॥
तिलोत्तमादिकाराध्या तिलोत्तमादिकप्रभा ।
तिलोत्तमा तिलप्रेक्ष्या तिलाराच्या तिलार्चिता ॥१५१ ॥
तिलभुक् तिलसन्दात्री तिलतुष्टा तिलालया।
तिलदा तिलसंकाशा तिलतैलविधायिनी ॥ १५२॥
तिलतैलोपलिप्तांगी तिलतैलसुगन्धिनी
तिलाज्यहोमसन्तुष्टा तिलाञ्यहोमसिद्धिदा ॥१५३॥
तिलपुष्पाञ्जलिप्रीता तिलपुष्पांजलिप्रिया।
तिलपुष्पांजलिश्रेष्ठा तिलपुष्पाघनाशिनी ॥१५४॥
तिलकाश्रित सिन्दूरा तिलकाङ्कित चन्दना।
तिलकाइतकस्तूरी तिलकामोद मोहिनी ॥१५५ ॥
त्रिगुणा त्रिगुणाकारा त्रिगुणान्वित विग्रहा।
त्रिगुणाकार विख्याता त्रिमूर्तिस्विगुणात्मिका ॥१५६॥
त्रिशिरा स्त्रिपुरेशानी त्रिपुरा त्रिपुरेश्वरी।
त्रिपुरेशी त्रिलोकस्था त्रिपुरी त्रिपुराम्बिका ॥१५७॥
त्रिपुरारि समाराध्या त्रिपुरारिवरप्रदा।
त्रिपुरारि शिरोभूषा त्रिपुरारिसुखप्रदा ॥१५८ ॥
त्रिपुरारीष्ठ सन्दात्री त्रिपुरारीष्टदेवता ।
त्रिपुरारिकृतार्द्धाङ्गी त्रिपुरारि- विलासिनी ॥१५९॥
त्रिपुरासुरसंहर्जी त्रिपुरासुर मर्दिनी
त्रिपुरासुर संसेव्या त्रिपुरासुर वर्य्यपा ॥१६०॥
त्रिकूटा त्रिकूटाराध्या त्रिकूटार्चित विग्रहा।
त्रिकूटाचल मध्यस्था त्रिकूटाचल वासिनी ॥१६१॥
त्रिकूटाचल सञ्जाता त्रिकूटाचल निर्गता।
त्रिकूटा त्रिजटेशानी त्रिजटावरदायिनी ॥१६२॥
त्रिनेत्रेशी त्रिनेत्रा च त्रिनेत्र वरवर्णिनी।
त्रिवली त्रिवलीयुक्ता त्रिशूलवरधारिणी ॥१६३॥
त्रिशूलेशी त्रिशूलीशी त्रिशूलभूत्त्रिशूलिनी।
त्रिमनुस्विमनूपास्या त्रिमनूपासकेश्वरी ॥१६४॥
त्रिमनुजपसन्तुष्टा त्रिमनोस्तूर्णसिद्धिदा ।
त्रिम (पूजन प्रीता त्रिमनुध्यानमोक्षदा ॥१६५ ॥
त्रिविधा त्रिविधाभक्तिस्विमता त्रिमतेश्वरी।
त्रिभावस्था त्रिभावेशी त्रिभावपरिपूरिता ॥ १६६ ॥
त्रितत्त्वात्मा त्रितत्त्वेशी त्रितत्त्वज्ञा त्रितत्त्वधृक् ।
त्रितत्त्वा च मनप्रीता त्रितत्त्वाचमनेष्टदा ॥९६७॥
त्रिकोणस्था त्रिकोणेशी त्रिकोणचक्रवासिनी ।
त्रिकोणचक्रमध्यस्था त्रिकोणबिन्दुरूपिणी ॥१६८॥
त्रिकोणयंत्रसंस्थाना त्रिकोणयंत्ररूपिणी।
त्रिकोणयंत्र सम्पूज्या त्रिकोणयन्त्रसिद्धिदा ॥१६९॥
त्रिवर्णाड्या त्रिवणेंशी त्रिवर्णोपास्वरूपिणी।
त्रिवर्णस्था त्रिवर्णाढ्या त्रिवर्णावरदायिनी ॥१७० ॥
त्रिवर्णाद्या त्रिवर्णाच्यां त्रिवर्गफलदायिनी।
त्रिवर्गाड्या त्रिवर्गेशी त्रिवर्गाद्यफलप्रदा ॥१७१ ॥
त्रिसंध्यार्थ्यां त्रिसन्ध्येशी त्रिसन्ध्याराधनेष्टदा ।
त्रिसन्ध्यार्चन सन्तुष्टा त्रिसंध्याजपमोक्षदा ॥१७२ ॥
त्रिपदाराधितपदा त्रिपदा त्रिपदेश्वरी।
त्रिपदाप्रदिपाद्येशी त्रिपदाप्रतिपादिका ॥१७३ ॥
त्रिशक्तिश्च त्रिशक्तीशी त्रिशक्तेष्टफलप्रदा।
त्रिशक्तेष्टा त्रिशक्तीष्टा त्रिशक्ति परिवेष्टिता ॥१७४ ॥
त्रिवेणी व त्रिवेणीस्त्री त्रिवेणीमाधवार्चिता ।
त्रिवेणीजल सन्तुष्टा त्रिवेणी खान पुण्यदा ॥१७५ ॥
त्रिवेणीजल संस्नाता त्रिवेणी जलरूपिणी ।
त्रिवेणीजलपूताङ्गी त्रिवेणीजल पूजिता ॥१७६ ॥
त्रिनाडीस्था त्रिनाडीशी त्रिनाडीमध्यगामिनी।
त्रिनाडीसन्ध्य संछेद्या त्रिनाडी च त्रिकोटिनी ॥९७७ ॥
च त्रिशक्तिपथ गामिनी ।
त्रिपथस्था त्रिलोकेशी त्रिकोटिकुलमोक्षदा ॥१७८॥
त्रिरामेशी त्रिरामाऱ्यां त्रिरामवरदायिनी।
त्रिदशाश्रित पादाब्जा त्रिदशालप चञ्बला ॥१७९ ॥
त्रिदशा त्रिदशप्रार्थ्यां त्रिदशाशुवरप्रदा।
त्रिदशैश्वर्य - सम्पन्ना त्रिदशेश्वर सेविता ॥१८०॥
त्रियामार्ष्या त्रियामेशी त्रियामानन्त सिद्धिदा।
त्रियामेशाधिक ज्योतना त्रियामेशाधिकानना ॥१८१ ॥
त्रियामानाथ वत्सौम्या त्रियामानाथ भूषणा।
त्रियामानाथ लावण्या रत्नकोटियुतानना ॥१८२॥
त्रिकालस्था त्रिकालज्ञा त्रिकालज्ञत्वकारिणी ।
त्रिकालेशी त्रिकालार्थ्यां त्रिकालज्ञत्व दायिनी ॥१८३॥
तीरभुक्तीरगा तीरसरिता तारवासिनी।
तीरधुग्देश संजाता तीरभुग्देशेसंस्थिता ॥१८४॥
तिग्मा तिग्मांशुसंकाशा तिग्मांशुक्रोड संस्थिता ।
तिग्मांशुकोटि दीप्ताङ्गी तिग्मांशुकोटि विग्रहा ॥१८५ ॥
तीक्ष्णा तीक्ष्णतरा तीक्ष्णमहिषासुरमर्दिनी।
तीक्ष्णकर्जी लसत्पाणिस्तीक्ष्णासि वरधारिणी ॥१८६॥
तीवा तीव्रगतिस्तीद्वासुर सङ्घविनाशिनी ।
तीव्राष्टनागाभरणा तीव्रमुण्डविभूषणा ॥१८७॥
तीथांत्मिका तीर्थमयी तीर्थेशी तीर्थपूजिता।
तीर्थराजेश्वरी तीर्थफलदा तीर्थदानदा ॥१८८ ॥
तुमुली तुमुलप्राज्ञी तुमुलासुरघातिनी।
तुमुलक्षतजप्रीता तुमुलांगणनर्तकी ॥१८९ ॥
तुरगी तुरगारूढा तुरंगपृष्ठगामिनी ।
तुरङ्गगमनाङ्कादा तुरंगबेगगामिनी ॥१९० ॥
तुरीया तुलना तुल्या तुल्यवृत्तिस्तु तुल्यकृत्।
तुलनेशी तुलाराज्ञी तुलारार्शीत्व सूक्ष्मवित् ॥१९१॥
तुम्बिका तुम्बिकापात्रभोजना तुम्बिकार्थिनी ।
तुलसी तुलसीवर्ष्या तुलजा तुलजेश्वरी ॥१९२॥
तुषाग्निव्रतसन्तुष्टा तुषाग्निस्तुषराशिकृत् ।
तुषारकर शीतांगी तुषारकरपूर्तिकृत् ॥११३॥
तुषाराद्रिस्तुषाराद्रिसुता तुहिनदीधितिः।
तुहिनाचलकन्या च तुहिनाचलवासिनी ॥१९४॥
तुर्यवर्गेश्वरी तुर्यवर्गदा तुर्व्यवेददा ।
तुर्यवर्यात्मिका तुर्यतुर्यश्वेरस्वरूपिणी ॥१९५ ॥
तुष्टिदा तुष्टिकृत्तुष्टिस्तूणीरद्वयपृष्ठधृक् ।
तुम्बुराज्ञान सन्तुष्टा तुष्टसंसिद्धिदायिनी ॥१९६ ॥
तूर्णराज्यप्रदा तूर्णगद्गदा तूर्णपद्यदा।
तूर्णपाण्डित्य सन्दात्री तूर्णपूर्णबलप्रदा ॥११७॥
तृतीया च तृतीयेशी तृतीयातिथि पूजिता ।
तृतीया चन्द्रचूडेशी तृतीया चन्द्रभूषणा ॥१९८॥
तृतिस्तृप्तिकरी तृप्ता तृष्णा तृष्णाविवर्द्धिनी ।
तृष्णापूर्णकरी तृष्णा नाशिनी तृषिता तृषा ॥१९९॥
त्रेतासंसाधिता त्रेता त्रेतायुग फलप्रदा।
त्रैलोक्यपूज्या त्रैलोक्यदात्री त्रैलोक्यसिद्धिदा ॥२००॥
त्रैलोक्येश्वरतादात्री त्रैलोक्य परमेश्वरी।
त्रैलोक्य मोहनेशानी त्रैलोक्यराज्य दायिनी ॥२०१॥
तैत्रिशाखेश्वरी तैत्रिशाखा तैत्रविवेकदा ।
तोरणान्वित गेहस्था तोरणासक्त मानसा ॥२०२॥
तोलकास्वर्ण संदात्री तोलकास्वर्ण कंकणा।
तोमरायुधरूपा च तोमरायुधधारिणी ॥२०३॥
तौर्य्यत्रिकेश्वरी तौर्यत्रिकी तौर्य्यत्रिकोत्सुकी ।
तन्त्रकृत्तंत्रवत्सूक्ष्मा तन्त्रमन्त्र स्वरूपिणी ॥२०४॥
तन्त्रकृत्तन्त्र सम्पूज्या तन्त्रेशी तन्वसम्मता ।
तन्त्रज्ञा तन्त्रवित्तन्त्र साध्या तन्त्रस्वरूपिणी ॥ २०५ ॥
तन्त्रस्था तन्त्रजा तन्त्री तन्त्रभृतंत्रमन्त्रदा ।
तन्त्राद्या तन्त्रगा तन्त्रा तन्त्रार्थ्यां तन्त्रसिद्धिदा ॥२०६॥
इति ते कथितं दिव्यं क्रतुकोटिफलप्रदम् ।
नाम्नां सहस्रं तारायास्तकाराद्यं सुगोपितम् ॥२०७॥
दानं यज्ञस्तपस्तीर्थ व्रतं चानशनादिकम्।
एकैक नाम सम्पुण्यं सन्ध्यासुगदितं मया ॥२०८ ॥
गुरी देवे तथा मन्त्रे यस्य स्याग्निश्चला मतिः।
तस्यैव स्तोत्रपाठेऽस्मिन् सम्भवेदधिकारिता ॥ २०९ ॥
महाचीन क्रमाभिन्त्रषोढान्यस्त कलेवरः।
क्रमदीक्षान्वितो मंत्री पठेदेतन्त्र चान्यथा ॥२१०॥
गंधपुष्पादिभिर्द्रव्यैर्मकारैः पंचभिर्द्विजः।
सम्पूज्य तारां विधिवत्पठेदेतदनन्यधीः ॥२११ ॥
अष्टम्यां च चतुर्दश्यां संक्रान्तौ रविवासरे।
शनिभौमदिने रात्रौ ग्रहणे चन्द्रसूर्ययोः ॥२१२॥
तारारात्री कालरात्रौ मोहरात्रौ विशेषतः ।
पठनान्मंत्रसिद्धिः स्यात्सर्वज्ञत्वं प्रजायते ॥२१३॥
श्मशाने प्रान्तरै रम्ये शून्यागारे विशेषतः।
देवागारे गिरौ वापि स्तवपारायणं चरेत् ॥२१४॥
ब्रह्महत्या सुरापानं स्तेयं स्त्रीगमनादिकम्।
गुरुतल्पे तथा चान्यत्पातकंनश्यति ध्रुवम् ॥२१५॥
लतामध्यगतो मंत्री श्रद्धया चार्चयेद्यदि ।
आकर्षयेत्तदा रम्भां मेनामपि तथोर्वशीम् ॥२१६ ॥
संग्रामसमये बीरस्तारा साम्राज्य कीर्त्तनात् ।
चतुरंगचयं जित्वा सर्वसाम्राज्य भाग्भवेत् ॥२१७॥
निशाद्धं पूजनान्ते च प्रतिनाम्ना प्रपूजयेत्।
एकैकं करवीराडी मंदारैनील वारिजैः ॥२१८ ॥
गद्यपद्यमयी वाणी भूभोज्या च प्रवर्तते।
पाण्डित्यं सर्वशास्त्रेषु वादी त्रस्यति दर्शनात् ॥२१९॥
वह्नि जायान्तकैरेतैस्ताराद्यैः प्रतिनामभिः ।
राजन्यं सर्वराजेषु परकाय प्रवेशनम् ॥२२०॥
अन्तर्धानं खेचरत्वं बहुकायप्रकाशनम् ।
गुटिका पादुका पद्मावती मधुमती तथा ॥२२१॥
रसं रसायनाः सर्वाः सिद्धयः समुपस्थिताः ।
कस्तूरीचन्दनैः संयुतैर्जलैः ॥२२२॥
मूलसम्पुटिते नैव प्रतिनाम्ना प्रपूजयेत्।
यक्षराक्षस गन्धर्व विद्याधर महोरगाः ॥२२३॥
भूतप्रेत पिशाचाद्या डाकिनी शाकिनीगणाः ।
दुष्टभैरववेतालाः कूष्माण्डाः किन्नरीगणाः ॥२२४॥
भयभीताः पलायन्ते तेजसा साधकस्य च।
मंत्रज्ञाने समुत्पन्ने प्रतिनाम्ना विचारयेत् ॥ २२५ ॥
मंत्रसम्पुटिते नैव तस्य शांतिर्भवेद् ध्रुवम्।
ललना वशमायान्ति दासतां यान्ति पार्थिवाः ॥२२६ ॥
अग्नयः शीततां यान्ति जापकस्य च भाषणात्।
एकावर्तन मात्रेण राजभीति निवारणम् ॥२२७ ॥
वेलावर्तन मात्रेयण पशुवृद्धिः प्रजायते।
दशावृत्त्या धनप्राप्तिविंशत्या राज्यमाप्नुयात् ॥२२८ ॥
शतावृत्त्या गृहे तस्य चंचला निश्चला भवेत्।
गङ्गाप्रवाहवद्वाणी प्रलापादपि जायते ॥२२९॥
पुत्र पौत्रान्वितो मंत्री चिरञ्जीवी तु देववत् ।
शतद्वया वर्त्तनेन देववत्पूज्यते जनैः ॥२३०॥
शतपंचकमावर्त्य स भवेद् भैरवोपमः।
सहस्त्रावर्तने नैव मंत्रस्तस्य स्वसिद्धिदः ॥२३१॥
तस्मिन्प्रवर्त्तते सर्वसिद्धिः सर्वार्थ साधिनी।
पादुकाञ्जन वेताल पाताल गमनादिकम् ॥२३२ ॥
विविधा यक्षिणीसिद्धिर्वासिद्धि स्तस्य जायते ।
शोषणं सागराणां च धरायां भ्रमणं तथा ॥२३३॥
नवीनसृष्टि निर्माणं सर्वं कर्तुं क्षमो भवेत्।
अयुतावर्तने नैव तारां पश्यति चक्षुषा ॥२३४॥
लक्षावर्तन मात्रेण तारापति समो भवेत्।
न किञ्बिद् दुर्लभं तस्य जीवन्मुक्तो हि भूतले ॥२३५ ॥
कल्पान्ते न तु तत्पश्चात्तारा सायुज्यमाप्नुयात्।
यद्धि तारा समा विद्या नास्ति तारुण्यरूपिणी ॥२३६ ॥
न चैतत्सदृशं स्तोत्रं भवेद् ब्रह्माण्ड मण्डले ।
वक्त्रकोटि सहस्त्रैस्तु जिह्वाकोटि शतैरपि ॥२३७॥
न शक्यते फलं वक्तुं मया कल्पशतैरपि।
चुम्बके निन्दके दुष्टे पिशुने जीवहिंसके ॥२३८ ॥
सगोप्यं स्तोत्र में तत्तद्दर्शनेनैव कुत्रचित्।
राज्यं देवं धनं देयं शिरो देयमथापिवा ॥२३९॥
न देयं स्तोत्र वयं तु मन्त्रादपि महोद्यतम्।
अनुलोम विलोमाम्यां मूल सम्पुटितं त्विदम् ॥२४० ॥
लिखित्वा भूर्जपत्रादी गंधाष्टक पुरस्सरैः।
धारयेद्दक्षिणे बाही कण्ठे वामभुजे तथा ॥२४१ ॥
तस्य सर्वार्थसिद्धिः स्याद्वह्निना नैव दह्यते।
तद्गात्रं शस्व सधैश्च भिद्यते न कदाचन ॥२४२ ॥
स भूमि वलये पुत्र विचरेद्वैरवोपमः ।
वन्ध्यापि लभते पुत्रं निर्द्धनो धनमाप्नुयात् ॥२४३॥
निर्विघ्नो लभते विद्यां तर्कव्याकरणादिकाम् ॥२४४॥
इति निगदितमस्यास्तादि नाम्नां सहस्त्रं वरदमनु निधानं दिव्यसाम्राज्य संज्ञम् ।
विधिहरि गिरिशादी शक्तिदानैकदक्षं समविधि पठनीयं कालितारा समज्ञैः ॥२४५ ॥
॥ इति श्रीब्रहायामले तारायास्तकारादि सहस्रनाम स्तोत्रं सम्पूर्णम् ॥
[श्री तारा (महाविद्या ) शतनाम स्तोत्र ] [ श्री तारा ( महाविद्या ) सहस्रनाम स्तोत्र ]
[ श्री तारा ( नीला तारा ) महाविद्या स्तोत्र ] [ श्री तारा (महाविद्या) हृदय स्तोत्र ]
टिप्पणियाँ