Kali Kakaradi Sahasranama Stotram,काली ककारादि सहस्रनाम स्तोत्रम्

काली ककारादि सहस्रनाम स्तोत्रम् - श्रीकालीतंत्रे रुद्रयामले च कालीसहस्रनामस्तोत्रं

काली ककारादि सहस्रनाम स्तोत्र, मां काली के एक हज़ार नामों का उच्चारण करके उन्हें आह्वान करने का मंत्र है. मान्यता है कि इस मंत्र का प्रयोग करने से मां काली प्रसन्न होती हैं और अपने भक्तों की इच्छाएं पूरी करती हैं. इस मंत्र का प्रयोग केवल रात में ही करना चाहिए. अगर सच्चे मन और पूरी श्रद्धा से इस मंत्र का प्रयोग किया जाए, तो एक रात में ही इसका असर दिखाई देने लगता है


इस स्तोत्र में कई मंत्रों का मंत्रोद्धार है। यथा 
  • ॐ मधुमती स्थावर जंगमाकर्षिणी ठं ठं स्वाहा। 
  • ॐ ह्रीं पद्मावति त्रैलोक्य वार्ता कथय कथय स्वाहा। 
  • ॐ मतसंजीवनी मृतमुथापयोत्थाय स्वाहा। 
  • ह्रीं स्वप्न वाराहि कालि स्वप्ने अमुकस्यामुकमं देहि क्रीं स्वाहा। 
  • ऐं घोरे आसापधोरे हूं घोररूपे महाघोरे भीममुखी भीषण्यमुष्य ऐं ऐं शिवे फट् फट् स्वाहा। कैलासशिखरे रम्ये नानादेवगणावृते । 

श्रीकालीतंत्रे रुद्रयामले च कालीसहस्रनामस्तोत्रं-Kali Kakaradi Sahasranama Stotram

नानावृक्षलताकीर्णे नानापुष्पैरलंकृते ॥१ ॥ 
चतुर्मण्डलसंयुक्त श्रृंगारमण्डपे स्थितम्। 
सपाधी संस्थितं शांतं कीडन्तं योगिनी प्रियम् ॥२॥
तत्र मौनधरं दृष्ट्वा देवी पृच्छति शङ्करम् ।

देव्युवाच ।

किं त्वया जप्यते देव किं त्वया स्मर्य्यते सदा ॥ ३॥
सृष्टिः कुत्र विलीनास्ति पुनः कुत्र प्रजायते ।
ब्रह्माण्डकारणं यत्तत् किमाद्यं कारणं महत् ॥ ४॥
मनोरथमयी सिद्धिस्तथा वाञ्छामयी शिव ।
तृतीया कल्पनासिद्धिः कोटिसिद्धीश्वरात्मकम् ॥ ५॥
शक्तिपाताष्टदशकं चराचरपुरीगतिः ।
महेन्द्रजालमिन्द्रादिजालानां रचना तथा ॥ ६॥
अणिमाद्यष्टकं देव परकायप्रवेशनम् ।
नवीनसृष्टिकरणं समुद्रशोषणं तथा ॥ ७॥
अमायां चन्द्रसन्दर्शो दिवा चन्द्रप्रकाशनम् ।
चन्द्राष्टकं चाष्टदिक्षु तथा सूर्याष्टकं शिव ॥ ८॥
जले जलमयत्वं च वह्नौ वह्निमयत्वकम् ।
ब्रह्म-विष्ण्वादि-निर्माणमिन्द्राणां कारणं करे ॥ ९॥
पातालगुटिका-यक्ष-वेतालपञ्चकं तथा ।
रसायनं तथा गुप्तिस्तथैव चाखिलाञ्जनम् ॥ १०॥
महामधुमती सिद्धिस्तथा पद्मावती शिव ।
तथा भोगवती सिद्धिर्यावत्यः सन्ति सिद्धयः ॥ ११॥
केन मन्त्रेण तपसा कलौ पापसमाकुले ।
आयुष्यं पुण्यरहिते कथं भवति तद्वद ॥ १२॥

श्रीशिव उवाच ।

विना मन्त्रं विना स्तोत्रं विनैव तपसा प्रिये ।
विना बलिं विना न्यासं भूतशुद्धिं विना प्रिये ॥ १३॥
विना ध्यानं विना यन्त्रं विना पूजादिना प्रिये ।
विना क्लेशादिभिर्देवि देहदुःखादिभिर्विना ॥ १४॥
सिद्धिराशु भवेद्येन तदेवं कथ्यते मया ।
शून्ये ब्रह्मण्डगोले तु पञ्चाशच्छून्यमध्यके ॥ १५॥
पञ्चशून्यस्थिता तारा सर्वान्ते कालिका स्थिता ।
अनन्त-कोटि ब्रह्माण्ड राजदण्डाग्रके शिवे ॥ १६॥
स्थाप्य शून्यालयं कृत्वा कृष्णवर्णं विधाय च ।
महानिर्गुणरूपा च वाचातीता परा कला ॥ १७॥
क्रीडायां संस्थिता देवी शून्यरूपा प्रकल्पयेत् ।
सृष्टेरारम्भकार्यार्थं दृष्टा छाया तया यदा ॥ १८॥
इच्छाशक्तिस्तु सा जाता तथा कालो विनिर्मितः ।
प्रतिबिम्बं तत्र दृष्टं जाता ज्ञानाभिधा तु सा ॥ १९॥
इदमेतत्किंविशिष्टं जातं विज्ञानकं मुदा ।
तदा क्रियाऽभिधा जाता तदीच्छातो महेश्वरि ॥ २०॥
ब्रह्माण्डगोले देवेशि राजदण्डस्थितं च यत् ।
सा क्रिया स्थापयामास स्व-स्वस्थानक्रमेण च ॥ २१॥
तत्रैव स्वेच्छया देवि सामरस्यपरायणा ।
तदिच्छा कथ्यते देवि यथावदवधारय ॥ २२॥
युगादिसमये देवि शिवं परगुणोत्तमम् ।
तदिच्छा निर्गुणं शान्तं सच्चिदानन्दविग्रहम् ॥ २३॥
शाश्वतं सुन्दरं शुद्धं सर्वदेवयुतं वरम् ।
आदिनाथं गुणातीतं काल्या संयुतमीश्वरम् ॥ २४॥
विपरीतरतं देवं सामरस्यपरायणम् ।
पूजार्थमागतं देव-गन्धर्वाऽप्सरसां गणम् ॥ २५॥
यक्षिणीं किन्नरीकन्यामुर्वश्याद्यां तिलोत्तमाम् ।
वीक्ष्य तन्मायया प्राह सुन्दरी प्राणवल्लभा ॥ २६॥
त्रैलोक्यसुन्दरी प्राणस्वामिनी प्राणरञ्जिनी ।
किमागतं भवत्याऽद्य मम भाग्यार्णवो महान् ॥ २७॥
उक्त्वा मौनधरं शम्भुं पूजयन्त्यप्सरोगणाः ।

अप्सरस ऊचुः ।

संसारात्तारितं देव त्वया विश्वजनप्रिय ॥ २८॥
सृष्टेरारम्भकार्य्यार्थमुद्युक्तोऽसि महाप्रभो ।
वेश्याकृत्यमिदं देव मङ्गलार्थप्रगायनम् ॥ २९॥
प्रयाणोत्सवकाले तु समारम्भे प्रगायनम् ।
गुणाद्यारम्भकाले हि वर्त्तते शिवशङ्कर ॥ ३०॥
इन्द्राणीकोटयः सन्ति तस्याः प्रसवबिन्दुतः ।
ब्रह्माणी वैष्णवी चैव माहेशी कोटिकोटयः ॥ ३१॥
तव सामरसानन्द दर्शनार्थं समुद्भवाः ।
सञ्जाताश्चाग्रतो देव चास्माकं सौख्यसागर ॥ ३२॥
रतिं हित्वा कामिनीनां नाऽन्यत् सौख्यं महेश्वर ।
सा रतिर्दृश्यतेऽस्माभिर्महत्सौख्यार्थकारिका ॥ ३३॥
एवमेतत्तु चास्माभिः कर्तव्यं भर्तृणा सह ।
एवं श्रुत्वा महादेवो ध्यानावस्थितमानसः ॥ ३४॥
ध्यानं हित्वा मायया तु प्रोवाच कालिकां प्रति ।
कालि कालि रुण्डमाले प्रिये भैरववादिनी ॥ ३५॥
शिवारूपधरे क्रूरे घोरद्रंष्टे भयानके ।
त्रैलोक्यसुन्दरकरी सुन्दर्य्यः सन्ति मेऽग्रतः ॥ ३६॥
सुन्दरीवीक्षणं कर्म कुरु कालि प्रिये शिवे ।
ध्यानं मुञ्च महादेवि ता गच्छन्ति गृहं प्रति ॥ ३७॥
तव रूपं महाकालि महाकालप्रियङ्करम् ।
एतासां सुन्दरं रूपं त्रैलोक्यप्रियकारकम् ॥ ३८॥
एवं मायाभ्रमाविष्टो महाकालो वदन्निति ।
इति कालवचः श्रुत्वा कालं प्राह च कालिका ॥ ३९॥
माययाऽऽच्छाद्य चात्मानं निजस्त्रीरूपधारिणी ।
इतः प्रभृति स्त्रीमात्रं भविष्यति युगे युगे ॥ ४०॥
वल्ल्याद्यौषधयो देवि दिवा वल्लीस्वरूपताम् ।
रात्रौ स्त्रीरूपमासाद्य रतिकेलिः परस्परम् ॥ ४१॥
अज्ञानं चैव सर्वेषां भविष्यति युगे युगे ।
एवं शापं च दत्वा तु पुनः प्रोवाच कालिका ॥ ४२॥
विपरीतरतिं कृत्वा चिन्तयन्ति मनन्ति ये ।
तेषां वरं प्रदास्यामि नित्यं तत्र वसाम्यहम् ॥ ४३॥
इत्युक्त्वा कालिका विद्या तत्रैवान्तरधीयत ।
त्रिंशत्-त्रिखर्व-षड्वृन्द-नवत्यर्बुदकोटयः ॥ ४४॥
दर्शनार्थं तपस्तेपे सा वै कुत्र गता प्रिया ।
मम प्राणप्रिया देवी हाहा प्राणप्रिये शिवे ॥ ४५॥
किं करोमि क्व गच्छामि इत्येवं भ्रमसङ्कुलः ।
तस्याः काल्या दया जाता मम चिन्तापरः शिवः ॥ ४६॥
यन्त्रप्रस्तारबुद्धिस्तु काल्या दत्तातिसत्वरम् ।
यन्त्रयागं तदारभ्य पूर्वं चिद्घनगोचरा ॥ ४७॥
श्रीचक्रं यन्त्रप्रस्ताररचनाभ्यासतत्परः ।
इतस्ततो भ्रम्यमाणस्त्रैलोक्यं चक्रमध्यकम् ॥ ४८॥
चक्रपारदर्शनार्थं कोट्यर्बुदयुगं गतम् ।
भक्तप्राणप्रिया देवी महाश्रीचक्रनायिका ॥ ४९॥
तत्र बिन्दौ परं रूपं सुन्दरं सुमनोहरम् ।
रूपं जातं महेशानि जाग्रत्त्रिपुरसुन्दरि ॥ ५०॥
रूपं दृष्ट्वा महादेवो राजराजेश्वरोऽभवत् ।
तस्याः कटाक्षमात्रेण तस्या रूपधरः शिवः ॥ ५१॥
विना श‍ृङ्गारसंयुक्ता तदा जाता महेश्वरी ।
विना काल्यंशतो देवि जगत्स्थावरजङ्गमम् ॥ ५२॥
न श‍ृङ्गारो न शक्तित्वं क्वापि नास्ति महेश्वरी ।
सुन्दर्य्या प्रार्थिता काली तुष्टा प्रोवाच कालिका ॥ ५३॥
सर्वासां नेत्रकेशेषु ममांशोऽत्र भविष्यति ।
पूर्वावस्थासु देवेशि ममांशस्तिष्ठति प्रिये ॥ ५४॥
सावस्था तरुणाख्या तु तदन्ते नैव तिष्ठति ।
मद्भक्तानां महेशानि सदा तिष्ठति निश्चितम् ॥ ५५॥
शक्तिस्तु कुण्ठिता जाता तथा रूपं न सुन्दरम् ।
चिन्ताविष्टा तु मलिना जाता तत्र च सुन्दरी ॥ ५६॥
क्षणं स्थित्वा ध्यानपरा काली चिन्तनतत्परा ।
तदा काली प्रसन्नाऽभूत् क्षणार्द्धेन महेश्वरी ॥ ५७॥
वरं ब्रूहि वरं ब्रूहि वरं ब्रूहीति सादरम् ।

सुन्दर्युवाच ।

मम सिद्धिवरं देहि वरोऽयं प्रार्थ्यते मया ॥ ५८॥
तादृगुपायं कथय येन शक्तिर्भविष्यति ।

श्रीकाल्युवाच ।

मम नामसाहस्रं च मया पूर्वं विनिर्मितम् ॥ ५९॥
मत्स्वरूपं ककाराख्यं मेधासाम्राज्यनामकम् ।
वरदानाभिधं नाम क्षणार्द्धाद्वरदायकम् ॥ ६०॥
तत्पठस्व महामाये तव शक्तिर्भविष्यति ।
ततः प्रभृति श्रीविद्या तन्नामपाठतत्परा ॥ ६१॥
तदेव नामसाहस्रं सुन्दरीशक्तिदायकम्। 
कथ्यते नामसाहस्रं सांवधानमनाः शृणु ॥६२॥ 
सर्वसाम्राज्यमेधाख्यनाम साहस्रकस्य च। 
महाकाल ऋषिः प्रोक्त उष्णिक् छन्दः प्रकीर्तितम् ॥६३॥ 
देवतादक्षिणा काली मायाबीजं प्रकीर्तितम् । 
हूँ शक्तिः कालिकाबीजं (कीं) कीलकं परिकीर्तितम् ॥६४॥
ध्यानं पूर्ववत्कृत्वा च साधय स्वेष्टसाधनम् ।
कालिकावरदानादिस्वेष्टार्थे विनियोगतः ॥
कीलकेन षडङ्गानि षड्दीर्घाब्जेन कारयेत् ॥६५ ॥

विनियोग 

ॐ अस्य श्रीसर्वसाम्राज्य मेधा नाम काली रूपक
कारात्मक सहस्त्रनामस्तोत्र मंत्रस्य महाकाल ऋषिः, 
अनुष्टुप् छंदः, श्रीदक्षिणमहाकाली देवता, ह्रीं बीजं, 
हूँ शक्तिः, कीं कीलकं, कालीवरदानाद्यऽखिलेष्टार्थे पाठे विनियोगः।

ऋष्यादिन्यास :- 

ॐ महाकालऋयये नमः शिरसि, अनुष्टुप् छंदसे नमः मुखे, 
श्रीदक्षिणमहाकालीदेवतायै नमः हृदये, हीं बीजाय नमः गुही, 
हूँ शक्तये नमः पादयोः, कीं कीलकाय नमो नाभी, 
विनियोगाय नमः सर्वाङ्गे। इति ऋष्यादिन्यासः ।

करांगन्यास :- 

ॐ का अंगुष्ठाभ्यां नमः। ॐ कीं तर्जनीभ्यां नमः। 
ॐ कूं मध्यमाभ्यां नमः । ॐ कैंः अनामिकाभ्यां नमः। 
ॐ की कनिष्ठिकाभ्यां नमः। ॐ क्रः करतलकरपृष्ठाभ्यां नमः। 
इति करांगन्यासः ।

हृदयादिषडङ्गन्यास :-

ॐ क्रां हृदयाय नमः। ॐ क्रीं शिरसे स्वाहा। 
ॐ क्रू शिखायै वषट् । ॐ कैं कवचाय हुम् । 
ॐ क्रीं नेत्रत्रयाय वौषट् । ॐ कः अस्त्राय फट्। 
इति हृदयादिषडङ्गन्यासः।

॥ अथ ध्यानम् ॥

ॐ करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् । 
कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषिताम् । 
सद्यश्छिन्नशिरः खड्गवामोर्ध्वाधः कराम्बुजाम् । 
अभयं वरदं चैव दक्षिणाधोर्ध्वपाणिकाम् । 
महामेघप्रभां श्यामां तथा चैव दिगंबराम्। 
कण्ठावसक्त मुण्डालीगलगुधिरचर्चिताम् । 
कर्णावतंसतानीत शवयुग्मभयानकाम् । 
घोरदंष्ट्राकरालास्यां पीनोन्नतपयोधराम् । 
शवानां करसंघातैः कृतकांचीं हसन्मुखीम्। 
सुक्काद्वयगलद्रक्त धाराविस्फुरिताननाम् । 
घोररूपां महारौद्रीं श्मशानालयवासिनीम् । 
दंतुरां दक्षिणव्यापिमुक्तलम्बकचोच्चयाम् । 
शवरूपमहादेवहृदयोपरि संस्थिताम् । 
शिवाभिर्धाररूपाभिश्चतुर्दिक्षु समन्विताम् । 
महाकालेन साद्धों र्द्धमुपविष्टरतातुराम् । 
सुखप्रसन्नवदनां स्मेराननसरीरुहाम् ॥ 
एवं संचिंतयेद्देवीं श्मशानालयवासिनीम् ॥६६ ॥

श्रीकालीतंत्रे रुद्रयामले च कालीसहस्रनामस्तोत्रं -Kali Kakaradi Sahasranama Stotram

ॐ क्राँकाली कूँकराली चकल्याणी कमला कला । 
कलावती कालढ्या च कलापूग्या कलात्मिका ॥६७॥ 
कलादृष्टा कलापुष्टा कलामस्ता कलाकरा । 
कलाकोटिसमाभासा कलाकोटिप्रपूजिता ॥६८॥ 
कलाकर्म कलाधारा कलापारा कलागमा। 
कलाधारा कमलिनी ककारा करुणा कविः ॥६९॥
ककारवर्णसर्वांगी कलाकोटिप्रभूषिता । 
ककारकोटिगुणिता ककारकोटिभूषणा ॥७०॥
ककारवर्णहृदया ककारमनुमण्डिता । 
ककारवर्णनिलया काकशब्दपरायणा ॥७१ ॥
कवीरास्फालनरता कमलाकरपूजिता । 
कमलाकरनाथा च कमलाकररूपधृक् ॥७२॥
कमलाकरसिद्धिस्था कमलाकरपारदा। 
कमलाकरमध्यस्था कमलाकरतोषिता ॥७३॥
कर्थकारपरालापा कथंकारपरायणा । 
कथंकारपदांतस्था कर्थकारपदार्थभूः ॥७४॥
कमलाक्षी कमलजा कमलाक्षप्रपूजिता। 
कमलाक्षवरोद्युक्ता ककारा कर्बुराक्षरा ॥७५॥
करतारा करच्छिन्ना करश्यामा करार्णवा। 
करपूज्या कररता करदा करपूजिता ॥॥७६ ॥
करतोया करामर्षा कर्मनाशा करप्रिया। 
करप्राणा करकजा करका करकांतरा ॥७७॥ 
करकाचलरूपा च करकाचलशोभिनी । 
करकाचलपुत्री च करकाचलतोषिता ॥8७८ ॥ 
करकाचलगेहस्था करकाचलरक्षिणी। 
करकाचलसम्मान्या करकाचलकारिणी ॥॥७९॥ 
करकाचलवर्षाड्या करकाचलरंजिता । 
करकाचलकांतारा करकाचलमालिनी ॥८०॥ 
करकाचलभोज्या च करकाचलरूपिणी। 
करामलकसंस्था च करामलकसिद्धिदा ॥८१॥ 
करामलकसंपूज्या करामलकतारिणी। 
करामलककाली च करामलकरोचिनी ॥८२॥
करामलकमाता च करामलकसेविनी । 
करामलकबद्धयेया करामलकदायिनी ॥८३॥ 
कञ्जनेत्रा कञ्जगतिः कञ्जस्था कञ्जधारिणी। 
कक्षमालाप्रियकरी कञ्जरूपा च कक्षजा ॥८४॥ 
कञ्जजातिः कञ्जगतिः कञ्जहोमपरायणा । 
कञ्जमण्डलमध्यस्था कञ्जाभरणभूषिता ॥८५॥ 
कञ्जसंमाननिरता कञ्जोत्पत्तिपरायणा । 
कञ्जराशिसमाकारा कञ्जारण्यनिवासिनी ॥८६॥ 
करञ्जवृक्षमध्यस्था करञ्जवृक्षवासिनी । 
करञ्जफलभूषाढया करञ्जवनवासिनी ॥८७॥ 
करञ्जमालाभरणा करवालपरायणा । 
करवालप्रत्दृष्टात्मा करवालप्रिया गतिः ॥८८ ॥ 
करवालप्रिया कंथा करवालविहारिणी। 
करवालमयी कर्मा करवालप्रियंकरी ॥८९॥
कबन्धमालाभरणा कबन्धराशिमध्यगा । 
कबन्धकूटसंस्थाना कबन्धानंतभूषणा ॥१०॥ 
कबन्धनादसंतुष्टठा कबंधासनधारिणी । 
कबंधगृहमध्यस्था कबन्धवनवासिनी ॥११॥ 
कबंधकाञ्चीकरणी कबंधराशिभूषणा । 
कबंधमाला जयदा कबंधदेहवासिनी ॥९२॥ 
कबंधासनमान्या च कपालाकल्पधारिणी । 
कपालमालामध्यस्था कपालव्रततोषिता ॥९३॥ 
कपालदीपसंतुष्टा कपालदीपरूपिणी । 
कपालदीपवरदा कपालकज्जलस्थिता ॥९४॥ 
कपालमाला जयदा कपालजपतोषिणी । 
कपालसिद्धिसंदृष्टा कपालभोजनोद्यता ॥९५ ॥ 
कपालव्रतसंस्थाना कपालकमलालया । 
कवित्वामृतसारा च कवित्वामृतसागरा ॥९६ ॥ 
कवित्वसिद्धिसंत्दृष्टा कवित्वादानकारिणी। 
कविपूज्या कविगतिः कविरूपा कविप्रिया ॥९७॥ 
कविब्रह्मानन्दरूपा कवित्वव्रततोषिता । 
कविमानससंस्थाना कविवाञ्छाप्रपूरिणी ॥९८ ॥ 
कविकण्ठस्थिता के ह्रीं के के के कविपूर्तिदा। 
कजला कजलादानमानसा कज्जलप्रिया ॥९९॥ 
कपालकज्जलसमा कज्जलेशप्रपूजिता । 
कज्जलार्णवमध्यस्था कज्जलानन्दरूपिणी ॥१००॥ 
कज्जलप्रियसंतुष्टा कज्जलप्रियतोषिणी । 
कपालमालाभरणा कपालकरभूषणा ॥१०१॥
कपालकरभूषाढ्या कपालचक्रमण्डिता । 
कपालकोटिनिलया कपालदुर्गकारिणी ॥१०२॥
कपालगिरिसंस्थाना कपालचक्रवासिनी । 
कपालपात्र संतुष्टा कपालार्घ्यपरायणा ॥१०३ ॥
कपालार्ध्यप्रियप्राणा कपालार्घ्यवरप्रदा । 
कपालचक्ररूपा च कपालरूपमात्रगा ॥१०४॥
कदली कदलीरूपा कदलीवनवासिनी। 
कदलीपुष्प संप्रीता कदलीफलमानसा ॥१०५ ॥
कदलीहोम संतुष्ठा कदलीदर्शनोद्यता । 
कदलीगर्भमध्यस्था कदलीवनसुन्दरी ॥१०६ ॥
कदम्बपुष्पनिलया कर्बवनमध्यगा । 
कदंबकुसुमामोदा कदंबवन तोषिणी ॥१०७॥
कदंबपुष्यसंपूज्या कदंबपुष्पहोमदा । 
कदंबपुष्पमध्यस्था कदंबफलभोजिनी ॥१०८ ॥
कदंबकाननांतःस्था कदंबाचलवासिनी। 
कक्षपा कक्षपाराध्या कक्षपासनसंस्थिता ॥१०९॥
कर्णपूरा कर्णनासा कर्णाढ्या कालभैरवी। 
कलप्रीता कलहदा कलहा कलहातुरा ॥११० ॥
कर्णयक्षी कर्णवार्ता कधिनी कर्णसुन्दरी। 
कर्णपिशाचिनी कर्णमञ्जरी कपिकक्षदा ॥१११॥
कविकक्षविरूपाढ्या कविकक्षस्वरूपिणी । 
कस्तूरी मृगसंस्थाना कस्तूरीमृगरूपिणी ॥११२ ॥
कस्तूरीमृगसंतोषा कस्तूरीमृगमध्यगा। 
कस्तूरीरसनीलांगी कस्तूरीगंधतोषिता ॥११३॥
कस्तूरीपूजकप्राणा कस्तूरीपूजकप्रिया । 
कस्तूरीप्रेमसंतुष्टा कस्तूरीप्राणधारिणी ॥११४॥
कस्तूरीपूजकानन्दा कस्तूरीगंधरूपिणी । 
कस्तूरीमालिकारूपा कस्तूरीभोजनप्रिया ॥११५ ॥
कस्तूरीतिलकानन्दा कस्तूरीतिलकप्रिया । 
कस्तूरीहोमसंतुष्टा कस्तूरीतर्पणोद्यता ॥११६ ॥
कस्तूरीमार्जनोद्युक्ता कस्तूरीचक्रपूजिता। 
कस्तूरीपुष्यसंपूज्या कस्तूरीचर्वणोद्यता ॥११७॥
कस्तूरीगर्भमध्यस्था कस्तूरीवस्त्रधारिणी । 
कस्तूरिकामोदरता कस्तूरीवनवासिनी ॥९९८ ॥
कस्तूरीवनसंरक्षा कस्तूरीप्रेमधारिणी। 
कस्तूरीशक्तिनिलया कस्तूरीशक्तिकुण्डगा ॥११९॥
कस्तूरीकुण्डसंस्त्राता कस्तूरीकुण्डमज्जना। 
कस्तूरीजीवसंतुष्टा कस्तूरीजीवधारिणी ॥१२०॥
कस्तूरीपरमामोदा कस्तूरीजीवनक्षमा । 
कस्तूरीजातिभावस्था कस्तूरीगंधचुम्बना ॥१२१ ॥
कस्तूरीगंधसंशोभाविराजित कपालभूः। 
कस्तूरीमदनांतःस्था कस्तूरीमदहर्षदा ॥१२२॥
कस्तूरीकवितानाढ्या कस्तूरीगृहमध्यगा। 
कस्तूरीस्पर्शकप्राणा कस्तूरीविन्दकांतका ॥१२३॥
कस्तूर्य्यामोदरसिका कस्तूरीक्रीडनोद्यता । 
कस्तूरीदाननिरता कस्तूरीवरदायिनी ॥१२४॥
कस्तूरीस्थापनासक्ता कस्तूरीस्थानरंजिनी। 
कस्तूरीकुशलप्रश्ना कस्तूरीस्तुतिवन्दिता ॥१२५ ॥
कस्तूरीवंदकाराध्या कस्तूरीस्थानवासिनी। 
कहरूपा कहाढ्या च कहानन्दा कहात्मभूः ॥१२६॥
कहपूज्या कहात्याख्या कहहेया कहात्मिका। 
कहमालाकण्ठभूषा कहमंत्रजपोद्यता ॥१२७॥ 
कहनामस्मृतिपरा कहनामपरायणा । 
कहपरायणरता कहदेवी कहेश्वरी ॥१२८ ॥
कहहेतुकहानन्दा कहनादपरायणा । 
कहमाता कहांतःस्था कहमंत्रकहेश्वरा ॥१२९ ॥ 
कहज्ञेया कहाराध्या कहध्यानपरायणा । 
कहतंत्रा कहकहा कहचर्यापरायणा ॥१३० ॥ 
कहाचारा कहगतिः कहताण्डवकारिणी। 
कहारण्या कहगतिः कहशक्तिपरायणा ॥१३१ ॥
कहराज्यनता कर्मसाक्षिणी कर्मसुन्दरी। 
कर्मविद्या कर्मगतिः कर्मतंत्रपरायणा ॥१३२॥ 
कर्ममात्रा कर्मगात्रा कर्मधर्मपरायणा । 
कर्मरेखानाशकत्री कर्मरेखाविनोदिनी ॥१३३॥ 
कर्मरेखामोहकरी कर्मकीर्तिपरायणा । 
कर्मविद्या कर्मसारा कर्माधारा च कर्मभूः ॥१३४॥ 
कर्मकारी कर्महारी कर्मकौतुकसुन्दरी। 
कर्मकाली कर्मतारा कर्मच्छिन्ना च कर्मदा ॥१३५॥ 
कर्मचाण्डालिनी कर्मवेदमाता च कर्मभूः। 
कर्मकाण्डरतानंता कर्मकाण्डानुमानिता ॥१३६ ॥
कर्मकाण्डपरीणाहा कमठी कमठाकृतिः । 
कमठाराध्यहृदया कमठाकण्ठसुन्दरी ॥१३७ ॥
कमठासनसंसेव्या कमठी कर्मतत्परा। 
करुणाकरकांता च करुणाकरवन्दिता ॥१३८ ॥
कठोराकरमाला च कठोरकुचधारिणी। 
कपर्दिनी कपटिनी कठिना कंकभूषणा ॥१३९॥ 
करभोरूः कठिनदा करभा करभालया। 
कलभाषामयी कल्पा कल्पनाकल्पदायिनी ॥१४० ॥ 
कमलस्था कलामाला कमलास्या क्वणप्रभा । 
ककुद्मिनी कष्टवती करणीयकथार्चिता ॥१४१ ॥
कचार्चिता कचतनुः कचसुन्दरधारिणी । 
कठोरकुचसंलग्ना कटिसूत्रविराजिता ॥१४२ ॥
कर्णभक्षप्रिया कन्दा कथाकन्दगतिः कलिः। 
कलिघ्नी कलिदूती च कविनायकपूजिता ॥१४३ ॥ 
कणकक्षानियंत्री च सदा कविवरार्चिता। 
कीं च कर्तृका भूषाकारिणी कर्णशत्रुपा ॥१४४॥ 
करणेशी करणपा कलवाचा कलानिधिः। 
कलना कलनाधारा कलनाकारिकाकरा ॥१४५ ॥ 
कलज्ञेया कर्कराशिः कर्कराशिघ्र पूजिता। 
कन्याराशिः कन्यका च कन्यकाप्रियभाषिणी ॥१४६॥
कन्यकादानसंतुष्टा कन्यकादानतोषिणी । 
कन्यादानकरानन्दा कन्यादातृगृहेष्टदा ॥१४७ ॥
कर्षणा कक्षदहना कामिता कमलासना। 
करमालानंदकर्जी करमालाप्प्रभूषिता ॥१४८ ॥ 
करमालाशयानन्दा करमालासमागमा । 
करमालासिद्धिदात्री करमालाकरप्रिया ॥१४९ ॥
करप्रिया कररता करदानपरायणा। 
कलानन्दा कलिगतिः कलिपूज्या कलिप्रसूः ॥१५० ॥
कलनादनिनादस्था कलनादवरप्रदा। 
कलनादसमाजस्था कहोला च कहोलदा ॥१५१ ॥
कहोलगेहमध्यस्था कहोलवरदायिनी। 
कहोलकविताधारा कहोलऋषिमानिता ॥१५२॥
कहोलमानसाराध्या कहोलवाक्यकारिणी। 
कर्तृरूपा कर्तुमयी कर्तृमाता च कर्तरी ॥१५३॥ 
कनीया कनकाराच्या कनीनकमयी तथा। 
कनीयानन्दन्निलया कनकानन्दतोषिता ॥१५४॥ 
कनीयक करा काष्ठा कथार्णवकरीकरी। 
करिगम्या करिगतिः करिध्वजपरायणा ॥१५५॥ 
करिनाथप्रिया कण्ठा कथानकप्रतोषिता । 
कमनीया कमनका कमनीयविभूषणा ॥१५६॥ 
कमनीयसमाजस्था  कमनीयव्रतप्रिया। 
कमनीयगुणाराध्या कपिला कपिलेश्वरी ॥१५७॥ 
कपिलाराध्यहृदया कपिलाप्रियवादिनी । 
कहचक्रमंत्रवर्णा कहचक्रप्रसूनका ॥१५८ ॥ 
कएईल् ह्रीं स्वरूपा च कएईलहींवरप्रदा। 
कएईल् हीं सिद्धिरात्री कएईलहीस्वरूपिणी ॥१५९॥ 
कएईलहीं मंत्रवर्णा कएईल् ह्रीं प्रसूकला। 
कवर्गां च कपाटस्था कपाटोद्घाटनक्षमा ॥१६०॥
कंकाली च कपाली च कंकालप्रियभाषिणी। 
कंकालभैरवाराध्या कंकालमानसंस्थिता ॥१६१॥ 
कंकालमोहनिरता कंकालमोहदायिनी। 
कलुषघ्नी कलुषहा कलुषार्तिविनाशिनी ॥१६२॥ 
कलिपुष्पा कलादाना कशिपुः कश्यपार्चिता। 
कश्यपा कश्यपाराध्या कलिपूर्णकलेवरा ॥ १६३॥ 
कलेवरकरी कांची कवर्गा च करालका। 
करालभैरवाराध्या करालभैरवेश्वरी ॥१६४॥ 
कराला कलनाधारा कपर्दीशवरप्रदा । 
कपर्दीशप्रेमलता कपर्दिमालिकायुता ॥१६५ ॥
कपर्दिजपमालाया करवीरप्रसूनदा । 
करवीरप्रियप्राणा करवीरप्रपूजिता ॥१६६ ॥
कर्णिकारसमाकारा कर्णिकारप्रपूजिता । 
करीषाग्निस्थिता कर्षा कर्षमात्रसुवर्णदा ॥१६७॥
कलशा कलशाराध्या कषाया करिगानदा। 
कपिला कलकण्ठी च कलिकल्पलता मता ॥१६८॥
कल्पमाता कल्पलता कल्पकारी च कल्पभूः । 
कर्पूरामोदरुचिरा कर्पूरामोदधारिणी ॥१६९॥
कर्पूरमालाभरणा कर्पूरवासपूर्तिदा । 
कर्पूरमालाजयदा कर्पूरार्णवमध्यगा ॥१७० ।।
कर्पूरतर्पणरता कटकाम्बरधारिणी । 
कपटेश्वरसंपूज्या कपटेश्वररूपिणी ॥१७१ ॥
कटुः कपिध्वजाराध्या कलापपुष्पधारिणी। 
कलापपुष्परुचिरा कलापपुष्पपूजिता ॥१७२ ॥
क्रकचा क्रकचाराच्या कथंबूमाकरालता । 
कथंकारविनिर्मुक्ता काली कालक्रिया क्रतुः ॥१७३॥ 
कामिनी कामिनीपूज्या कामिनी पुष्पधारिणी। 
कामिनीपुष्पनिलया कामिनीपुष्पपूर्णिमा ॥१७४॥ 
कामिनीपुष्पपूजार्हा कामिनीपुष्यभूषणा । 
कामिनीपुष्पतिलका कामिनीकुण्डचुम्बना ॥१७५ ॥
कामिनीयोगसंतुष्टा कामिनीयोगभोगदा। 
कामिनीकुण्डसम्मग्ना कामिनीकुण्डमध्यगा ॥१७६ ॥
कामिनीमानसाराच्या कामिनीमानतोषिता । 
कामिनीमानसंचारा कालिका कालकालिका ॥१७७॥ 
कामा च कामदेवी च कामेशी कामसंभवा । 
कामभावा कामरता कामार्ता काममञ्जरी ॥१७८॥ 
काममञ्जीररणिता कामदेवप्रियांतरा। 
कामकाली कामकला कालिका कमलार्चिता ॥ १७९॥ 
कादिका कमला काली कालानलसमप्रभा। 
कल्पांतदहना कांता कांतारप्रियवासिनी ॥१८०॥ 
कालपूज्या कालरता कालमाता च कालिनी। 
कालवीरा कालधोरा कालसिद्धा च कालदा ॥१८१॥ 
कालाञ्जनसमाकारा कालञ्जरनिवासिनी। 
कारऋद्धिः कालवृद्धिः कारागृहविमोचिनी ॥१८२॥ 
कादिविद्या कादिमाता कादिस्था कादिसुन्दर। 
काणी काञ्ची च काञ्चीशा काशीशवरदायिनी ॥१८३॥ 
कांबीजा चैव कीं बीजा हृदयाय नमस्स्मृता । 
काम्या काम्यगतिः काम्यसिद्धिदात्री च कामभूः ॥१८४॥ 
कामाख्या कामरूपा च कामचापविमोचिनी। 
कामदेवकलारामा कामदेवकलालया ॥१८५ ॥
कामरात्रिः कामदात्री कांताराचलवासिनी। 
कामरूपाकामगतिः कामयोगपरायणा ॥१८६ ॥
कामसम्मईनरता कामगेहविकासिनी। 
कालभैरवभार्या च कालभैरवकामिनी ॥१८७॥
कालभैरवयोगस्था कालभैरवभोगदा । 
कामधेनुः कामदोग्धी काममाता च कांतिदा ॥१८८ ॥
कामुका कामुकाराध्या कामुकानन्दवर्द्धिनी। 
कार्तवीर्य्या कार्त्तिकेया कार्त्तिकेयप्रपूजिता ॥१८९॥
कार्या कारणदा कार्यकारिणी कारणांतरा। 
कांतिगम्या कांतिमयी कात्या कात्यायनी च का ॥१९०॥ 
कामसारा च काश्मीरा काश्मीराचारतत्परा । 
कामरूपाचाररता कामरूपप्रियंवदा ॥१९१॥ 
कामरूपाचारसिद्धिः कामरूपमनोमयी। 
कार्तिकी कार्तिकाराच्या कांचनारप्रसूनभूः ॥१९२॥
कांचनारप्रसूनाभा कांचनारप्रपूजिता। 
कांचरूपा कांचभूमिः कांस्यपात्रप्रभोजिनी ॥११३॥
कांस्यध्वनिमयी कामसुन्दरी कामचुंबना। 
काशपुष्पप्रतीकाशा कामद्रुमसमागमा ॥११४॥
कामपुष्पा कामभूमिः कामपूज्या च कामदा। 
कामदेहा कामगेहा कामबीजपरायणा ॥१९५ ॥
कामध्वजसमारूढा कामध्वजसमास्थिता। 
काश्यपी काश्यपाराध्या काश्यपानन्ददायिनी ॥१९६ ॥
कालिन्दी जलसंकाशा कालिन्दीजलपूजिता। 
कामदेवपूजानिरता कामदेवपरमार्थदा ॥१९७॥ 
कर्मणा कर्मणाकारा कामकर्मणकारिणी। 
काम्मँणत्रोटनकरी काकिनी कारणाह्वया ॥१९८॥
काव्यामृता च कालिङ्गा कालिङ्गमर्दनोद्यता । 
कालागरुविभूषाड्या कालागरुविभूतिदा ॥१९९॥
कालागरुसुगंधा च कालागरुप्रतर्पणा । 
कावेरीनीरसंप्रीता कावेरीतीरवासिनी ॥२००॥
कालचक्रभ्रमाकारा कालचक्रनिवासिनी। 
कानना काननाधारा कारुः कारुणिकामयी ॥२०१ ॥
काम्पिल्यवासिनी काष्ठा कामपत्री च कामभूः। 
कादम्बरीपानरता तथा कादम्बरीकला ॥२०२॥
कामवंद्या च कामेशी कामराजप्रपूजिता। 
कामराजेश्वरी विद्या कामकौतुकसुन्दरी ॥२०३ ॥ 
काम्बोजजा काञ्छिनदा कांस्यकाञ्चनकारिणी। 
काञ्चनाद्रिसमाकारा काञ्चनाद्रिप्रदानदा ॥२०४॥ 
कामकीर्तिः कामकेशी कारिकाकांतराश्रया। 
कामभेदी च कामार्तिनाशिनी कामभूमिका ॥२०५॥ 
कालनिर्णाशिनी काव्यवनिता कामरूपिणी । 
कायस्था कामर्सदीप्तिः काव्यदा कालसुन्दरी ॥२०६॥ 
कामेशी कारणवरा कामेशीपूजनोद्यता। 
काञ्चीनूपुरभूषाढ्या कुंकुमाभरणान्विता ॥२०७॥ 
कालचक्रा कालगतिः कालचक्रमनोभवा । 
कुन्दमध्या कुन्दपुष्पा कुन्दपुष्यप्रिया कुजा ॥२०८ ॥ 
कुजमाता कुजाराध्या कुठारवरधारिणी । 
कुञ्जरस्था कुशरता कुशेशयविलोचना ॥२०९॥ 
कुनठी कुररी कुद्रा कुरंगी कुटजाश्रया। 
कुंभीनसविभूषा च कुंभीनसवधोद्यता ॥२१०॥ 
कुंभकर्णमनोल्लासा कुलचूडामणिः कुला। 
कुलालगृहकन्या च कुलचूडामणिप्रिया ॥२११॥ 
कुलपूज्या कुलाराध्या कुलपूजापरायणा। 
कुलभूषा तथा कुक्षिः कुररीगणसेविता ॥२१२ ॥ 
कुलपुष्पा कुलरता कुलपुष्यपरायणा । 
कुलबस्वा कुलाराच्या कुलकुण्डसमप्रभा ॥२१३॥ 
कुलकुण्डसमोल्लासा कुलपूजापरायणा । 
कुण्डपुष्पप्रसन्नास्या कुण्डगोलोद्भवात्मिका ॥२१४॥ 
कुण्डगोलोद्भवाधारा कुण्डगोलमयी कूडूः। 
कुण्डगोलप्रियप्राणा कुण्डगोलप्रपूजिता ॥२९५ ॥ 
कुण्डगोलमनोल्लासा कुण्डगोलवरप्रदा। 
कुण्डदेवरता कुद्धा कुलसिद्धिकरा परा ॥२१६ ॥ 
कुलकुण्डसमाकारा कुलकुण्डसमानभूः । 
कुण्डसिद्धिः कुण्डऋद्धिः कुमारीपूजनोद्यता ॥२१७॥
कुमारीपूजकप्राणा कुमारीपूजकालया । 
कुमारीकामसंतुष्टा कुमारीपूजनोत्सुका ॥२१८ ॥
कुमारीव्रतसंतुष्टा कुमारीरूपधारिणी । 
कुमारीभोजनप्रीता कुमारी कुमारदा ॥२१९॥ 
कुमारमाता कुलदा कुलयोनिः कुलेश्वरी। 
कुललिंगा कुलानन्दा कुलरम्या कुतर्कधृक् ॥२२०॥ 
कुंती च कुलकांता च कुलमार्गपरायणा। 
कुल्ला च कुरुकुला च कुल्लुका कुलकामदा ॥२२१॥ 
कुलिशांगी कुब्जिका च कुब्जिकानन्दवर्द्धिनी। 
कुलीना कुञ्जरगतिः कुञ्जरेश्वरगामिनी ॥२२२॥ 
कुलपाली कुलवती तथैव कुलदीपिका । 
कुलयोगेश्वरी कुण्डा कुंकुमारुणविग्रहा ॥२२३॥ 
कुंकुमानन्दसंतोषा कुंकुमार्णववासिनी। 
कुंकुमा कुसुमप्रीता कुलभूः कुलसुन्दरी ॥ २२४॥ 
कुमुद्वती कुमुदिनी कुशला कुलटालया। 
कुलटालयमध्यस्था कुलटासंगतोषिता ॥२२५ ॥ 
कुलटाभवनो द्युक्ता कुशावर्ता कुलार्णवा। 
कुलार्णवाचाररता कुण्डली कुण्डलाकृतिः ॥२२६ ॥ 
कुमतिश्च कुलश्रेष्ठा कुलचक्रपरायणा । 
कूटस्था कूटदृष्टिश्च कुंतला कुंतलाकृतिः ॥२२७॥ 
कुशलाकृतिरूपा च कूर्चबीजधरा च कूः। 
कुं कुं के कुं शब्दरता के कुं के कुं परायणा ॥२२८॥ 
कुं कुं कुं शब्दनिलया कुक्कुरासंगवासिनी। 
कुकुरासङ्गसंयुक्ता कुकरानंतविग्रहा ॥२२९॥ 
कूर्चारंभा कूर्चबीजा कूर्वजापपरायणा । 
कुचस्पर्शनसंतुष्ठा कुचालिंगमहर्षदा ॥२३०॥ 
कुमतिष्ठनी कुबेरार्चा कुचभूः कुलनायिका। 
कुगायना कुचधरा कुमाता कुन्ददंतिनी ॥२३१॥ 
कुगेया कुहराभासा कुगेया कुघ्नदारिका। 
कीर्तिः किरातिनी क्लिन्ना किन्नरा किन्नरीक्रिया ॥२३२ ॥ 
क्रींकारा क्रींजपासक्ता कीं हूँ स्वीं मंत्ररूपिणी। 
किर्मीरितदृशापांगी किशोरी च किरीटिनी ॥२३३॥ 
कीटभाषा कीटयोनिः कीटमाता च कीटदा। 
किंशुका कीरभाषा च क्रियासाराक्रियावती ॥२३४॥ 
कींकीं शब्दपरा क्लांक्लींक्लूँक्लॅक्लॉ मंत्ररूपिणी। 
काँकींकूँकै स्वरूपाच कः फट् मंत्रस्वरूपिणी ॥२३५ ॥ 
केतकी भूषणानन्दा केतकीभरणान्विता। 
कैकदा केशिनी केशीकेशिसूदनतत्परा ॥२३६ ॥ 
केशरूपा केशमुक्ता कैकेयी कौशिकी तथा। 
कैरवा कैरवाह्लादा केशरा केतुरूपिणी ॥२३७॥ 
केशवाराध्यहृदया केशवासक्तमानसा । 
क्लैब्यविनाशिनी क्लें च क्लें बीजजपतोषिता ॥२३८ ॥ 
कौशल्या कोशलाक्षी च कोशा च कोमला तथा। 
कोलापुरनिवासा च कोलासुरविनाशिनी ॥२३९॥ 
कोटिरूपा कोटिरता क्रोधिनी क्रोधरूपिणी। 
केन्ा च कोकिला कोटिः कोटिमंत्रपरायणा ॥२४० ॥ 
कोट्यानंत मंत्रयुक्ता कैरूपा केरलाश्रत। 
केरलाचारनिपुणा केरलेन्द्रगृहस्थिता ॥२४१ ॥ 
केदाराश्रमसंस्था च केदारेश्वरपूजिता । 
क्रोधरूपा क्रोधपदा क्रोधमाता च कौशिकी ॥२४२॥ 
कोदण्डधारिणी क्रौंचा कौशल्या कौलमार्गगा। 
कॉलिनी कौलिकाराध्या कौलिकागारवासिनी ॥२४३ ॥ 
कौतुकी कौमुदी कौला कुमारी कौरवार्चिता। 
कौण्डिन्य कौशिकी क्रोधा ज्वालाभासुररूपिणी ॥२४४ 
कोटिकालानलज्वाला कोटिमार्तण्डविग्रहा। 
कृत्तिका कृष्णवर्णा च कृष्णा कृत्या क्रियातुरा ॥२४५ ॥ 
कृशाङ्गी कृतकृत्या च क्रः फट्‌स्वाहास्वरूपिणी। 
क्राँक्राँहुंफट् मंत्रवर्णा क्रीं ह्रीं हूं फट्नमः स्वधा ॥२४६ ॥ 
कीं क्रीं ह्रीं ह्रीं तथा हूँ हूँ फट्स्वाहा मंत्ररूपिणी ।
इतिश्रीसर्वसाम्राज्य मेधानामसहस्त्रकम् ॥२४७॥
सुन्दरीशक्तिदानाख्यस्वरूपाभिधमेव च। 
कथितं दक्षिणाकाल्याः सुंदर्यै प्रीतियोगतः ॥२४८ ॥ 
वरदान प्रसङ्गेन रहस्यमपि दर्शितम्। 
गोपनीयं सदा भक्त्या पाठनीयं परात्परम् ॥२४९॥ 
प्रातर्मध्याह्नकाले च मध्यार्द्धरात्रयोरपि । 
यज्ञकाले जपांते च पठनीयं विशेषतः ॥२५०॥ 
यः पठेत्साधको धीरः कालीरूपो हि वर्षतः। 
पठेद्वा पाठयेद्वापि शृणोति श्रवयेदपि ॥२५१ ॥ 
वाचकं तोषयेद्वापि स भवेत्कालिकातनुः। 
सहेलं वा सलीलं वा यश्चैनं मानवः पठेत् ॥२५२ ॥ 
सर्वदुःखविनिर्मुक्तस्त्रैलोक्यविजयी कविः । 
मृतवंध्या काकबंध्या कन्यावंध्या च वंध्यका ॥२५३॥ 
पुष्पवंध्या शूलवंध्या शृणुयालतोत्रमुत्तमम् । 
सर्वसिद्धिप्रदातारं सत्कविं चिरजीविनम् ॥२५४॥ 
पाण्डित्यकीर्तिसंयुक्तं लभते नात्र संशयः। 
यं यं काममुपस्कृत्य कालीं ध्यात्वा जपेत्स्तवम् ॥२५५ ॥ 
तं तं कार्मकरे कृत्वा मंत्री भवति नान्यथा। 
योनिपुष्पैर्लिंगपुष्पैः कुण्डगोलोद्भवैरपि ॥२५६ ॥ 
संयोगामृतपुष्पैश्च वस्वदेवीप्रसूनकैः । 
कालीपुष्यैः पीठतोयैव्योंनिक्षालनतोयकैः ॥२५७॥ 
कस्तूरी कुंकुमैर्देवीं नखकालागरुक्रमात् । 
अष्टगंधैर्धूपदीपै र्यवयावकसंयुतैः ॥२५८ ॥ 
रक्तचंदनसिन्दूरै र्मत्यमांसादिभूषणैः। 
मधुभिः पायसैः क्षीरैः शोधितैः शोणितैरपि ॥ २५९॥ 
महोपचारै रक्तैश्च नैवेहीः सुरसान्वितैः । 
पूजयित्वा महाकाली महाकालेन लालिताम् ॥२६० ॥
विद्याराज्ञीं कुल्लुकाञ्च जप्त्वा स्तोत्रं जपेच्छिवे। 
कालीभक्तस्त्वेकचित्तः सिन्दूरतिलकान्वितः ॥२६१ ॥ 
ताम्बूलपूरितमुखो मुक्तकेशो दिगम्बरः । 
शवयोनिस्थितो वीरः श्मशाने सुरतान्वितः ॥२६२॥ 
शून्यालये बिन्दुपीठे पुष्पाकीणें शिवावने। 
शयानोत्थः प्रर्भुजानः कालीदर्शनमाप्नुयात् ॥२६३॥ 
तत्र यद्यत्कृतं कर्म तदनंतफलं भवेत्। 
ऐश्वर्ये कमला साक्षात् सिद्धौ श्रीकालिकाम्बिका ॥२६४॥ 
कवित्वे तारिणीतुल्यः सौन्दव्यै सुन्दरीसमः। 
सिंधोर्द्धारासमः कार्ये श्रुतौ श्रुतिधरस्तथा ॥२६५ ॥ 
वज्रास्वमिव दुर्द्धर्षस्वैलोक्यविजयास्वभूत् । 
शत्रुर्हता काव्यकर्ता भवेच्छिवसमः कलौ ॥२६६ ॥ 
दिग्विदिक् चन्द्रकर्त्ता च दिवारात्रिविपर्य्ययी। 
महादेवसमो योगी त्रैलोक्यस्तंभकः क्षणात् ॥२६७॥ 
गाने तु तुंबुरुः साक्षाद्दाने कर्णसमो भवेत्। 
गजाश्वरथपत्तीनामस्त्राणामधिपः कृती ॥ २६८ ॥ 
आयुष्येषु भुशुण्डी च जरापलितनाशकः । 
वर्षषोडशवांभूयात् सर्वकाले महेश्वरि ॥२६९ ॥ 
ब्रह्माण्डगोले देवेशि न तस्य दुर्लभं क्वचित्। 
सर्व हस्तगतं भूयान्नात्र कार्या विचारणा ॥२७० ॥ 
कुलपुष्पयुतं दृष्ट्वा तत्र कालीं विचिंत्य च। 
विद्याराज्ञों तु संपूज्य पठेत्रामसहस्त्रकम् ॥२७१ ॥ 
मनोरवमयी सिद्धिस्तस्य हस्ते सदा भवेत्। 
परदारान्समालिंग्य सम्पूज्य परमेश्वरीम् ॥२७२ ॥
 हस्ताहस्तकया योगं कृत्वा जप्त्वा स्तवं पठेत्। 
योनिं वीक्ष्य जपेत्स्तोत्रं कुबेरादधिको भवेत् ॥२७३॥ 
कुण्डगोलोद्भवं गृह्य वर्णाक्तं होमयेत्रिशि। 
पितृभूमौ महेशानि विधिरेखां प्रमार्जयेत् ॥२७४॥ 
तरुणीं सुन्दरीं रम्यां चंचलां कामगर्विताम्। 
समानीय प्रयत्नेन संशोध्य न्यासयोगतः ॥२७५ ॥
प्रसूनमंचे संस्थाप्य पृथिवीं वशमानयेत्। 
मूलचक्रं तु संभाव्य देव्याश्चरणसंयुतम् ॥२७६ ॥ 
सम्पूज्य परमेशानी संकल्प्य तु महेश्वरि । 
जप्त्वा स्तुत्वा महेशानी प्रणवं संस्मरेच्छिवे ॥२७७॥ 
अष्टोत्तरशतैय्योंनिं प्रमंत्र्याचुंब्य यत्नतः। 
संयोगीभूय जप्तव्यं सर्वविद्याधिपो भवेत् ॥२७८ ॥ 
शून्यगारे शिवारण्ये शिवदेवालये तथा। 
शून्यदेशे तडागे च गङ्गागर्भे चतुष्पथे ॥२७९ ॥
श्मशाने पर्वतप्रांते एकलिंगे शिवामुखे। 
मुण्डयोनी ऋतौखात्वा गेहे वेश्यागृहे तथा ॥२८० ॥ 
कुट्टिनीगृहमध्ये च कदलीमण्डपे तथा । 
पठेत्सहस्त्रनामाख्यं स्तोत्रं सर्वार्थसिद्धये ॥ २८१॥ 
अरण्ये शून्यगर्ते च रणे शत्रुसमागमे। 
प्रजपेच्य ततो नामकाल्याश्चैव सहस्रकम् ॥ २८२॥ 
बालानन्दपरो भूत्वा पठित्वा कालिकास्तवम् । 
कालीं संचिंत्य प्रजपेत्पठेनामसहस्रकम् ॥२८३॥ 
सर्वसिद्धीश्वरो भूयाद्वाञ्छासिद्धीश्वरो भवेत् । 
मुण्डचूडकयो योंनित्वचि वा कोमले शिवे ॥ २८४॥ 
विष्टरे शववस्वे वा पुष्पवस्वासनेऽपि वा। 
मुक्तकेशो दिगावासो मैथुनी शयने स्थितः ॥२८५॥ 
जप्वा कालीं पठेत्स्तोत्रं खेचरीसिद्धिभाग्भवेत्। 
चिकुरं योगमासाद्य शुक्रोत्सारणमेव च ॥२८६ ॥ 
जप्त्वा श्रीदक्षिणां काली शक्तिपातशतंभवेत्। 
लतां स्पृशञ्जपित्वा च रमित्वा त्वर्चयन्त्रपि ॥२८७॥ 
आह्लादयन्दिगावासः परशक्तिं विशेषतः । 
स्तुत्वा श्रीदक्षिणां काली योनिं स्वकरगाञ्चरेत् ॥२८८ ॥ 
पठेत्राम सहस्रं यः स शिवाद्धिको भवेत्। 
लतांतरेषु जप्तव्यं स्तुत्वा कालीं निराकुलः ॥२८९॥ 
दशावधानो भवति मासमात्रेण साधकः । 
कालरात्र्यां महारात्र्यां वीररात्र्यामपि प्रिये ॥२९०॥ 
महारात्र्यां चतुर्दश्यामष्टम्यां संक्रमेऽपि वा । 
कुडूपूर्णेन्दुशुक्रेषु भौमा मायां निशामुखे ॥२९१॥ 
नवम्यां मंगलदिने तथा कुलतिथौ शिवे। 
कुलक्षेत्रे प्रयत्नेन पठेत्रामसहस्रकम् ॥२९२॥ 
सौदर्शनो भवेदाशु किन्त्ररीसिद्धिभाग्भवेत् । 
पश्चिमाभिमुखं लिंगं वृषशून्यं पुरातनम् ॥ २९३ ॥ 
तत्र स्थित्वा जपेत्स्तोत्रं सर्वकामाप्तये शिवे। 
भौमवारे निशीथे वा अमावस्यादिने शुभे ॥२९४॥ 
माषभक्तबलिं छार्ग कृसरात्रं च पायसम्। 
दग्धमीनं शोणितं च दधिदुग्धगुडाईकम् ॥२९५ ॥ 
बलिं दत्त्वा जपेत्तत्र त्वष्टोत्तरसहस्त्रकम् । 
देवगंधर्वसिद्धौघैः सेवितां सुरसुन्दरीम् ॥२९६ ॥ 
लभेद्देवेशि मासेन तस्य चासन संहतिः। 
हस्तत्रयं भवेदूर्ध्वं नात्र कार्या विचारणा ॥२९७॥ 
हेलया लीलया भक्त्या कालीं स्तौति नरस्तु यः। 
ब्रह्मादीन्स्तंभयेद्देवि माहेशीं मोहयेत्क्षणात् ॥२९८ ॥ 
आकर्षयेन्महाविद्या दश पूर्वास्त्रियामतः । 
कुर्वीत विष्णुनिर्माणं यमादीनां तु मारणम् ॥२९९ ॥ 
ध्रुवमुच्चाटयेनूनं सृष्टिनूतनतां नरः । 
मेषमाहिषमार्जार खरच्छागनरादिकैः ॥३०० ॥
खङ्गिसूकरकापोतैष्टिट्टिभैः शशकैः पलैः । 
शोणितैः सास्थिमांसैश्च कारण्डैर्दुग्धपायसैः ॥३०१ ॥
कादम्बरीसिंधुमहौस्सुरारिष्टैश्च सासवैः । 
योनिक्षालिततोयैश्च योनिलिंगामृतैरपि ॥३०२॥
स्वजातकुसुमैः पूज्य जपांते तर्पयेच्छिवाम् । 
सर्वसाम्राज्यनाम्ना तु स्तुत्वा नत्वा स्वशक्तितः ॥३०३॥ 
शक्त्या लभन् पठेत्स्तोत्रं कालीरूपो दिनत्रयात्। 
दक्षिणा कालिका तस्य गेहे तिष्ठति नान्यथा ॥३०४॥
वेश्यालतागृहे गत्वा तस्यानुम्बनतत्परः । 
तस्या योनौ मुखं दत्त्वा तद्रसं विलिहञ्जपेत् ॥३०५ ॥ 
तदंते नामसाहस्रं पठेद्भक्तिपरायणः । 
कालिकादर्शनं तस्य भवेद्देवि त्रियामतः ॥३०६ ॥ 
नृत्ययात्रगृहे गत्वा मकारपञ्चकान्वितः । 
प्रसूनमंचे संस्थाप्य शक्तिन्यासपरायणः ॥३०७॥ 
पात्राणां साधनं कृत्वा दिग्वस्त्रां तां समाचरेत्। 
संभाव्य चक्रं तन्मूले तत्र सावरणां जपेत् ॥३०८ ॥ 
शतं भाले शतं केशे शतं सिन्दूरमण्डले। 
शतत्रयं कुच्चद्वंद्वे शतं नाभी महेश्वरि ॥३०९ ॥ 
शतं योनौ महेशानि संयोगे च शतत्रयम्। 
जपेत्तत्र महेशानि तदंते प्रपठेत्स्तवम् ॥३१०॥ 
शतावधानो भवति मासमात्रेण साधकः । 
मातङ्गिनीं समानीय किं वा कापालिनीं शिवे ॥३११ ॥ 
दंतमाला जपे कार्व्या गले धार्या नृमुण्डजा। 
नेत्रपद्ये योनिचकं शक्तिचर्क स्ववक्त्रके ॥३१२॥ 
कृत्वा जपेन्महेशानि मुण्डयंत्रं प्रपूजयेत्। 
मुण्डासनस्थितो वीरो मकारपञ्चकान्वितः ॥३१३॥ 
अन्यामालिङ्गध प्रजपेदन्यां संचुम्ब्य वै पठेत्। 
अन्यां संपूजयेत्तत्र त्वन्यां सम्मईयन् जपेत् ॥३१४॥ 
अन्ययोनी शिवं दत्त्वा पुनः पूर्ववदाचरेत्। 
अवधानसहस्त्रेषु शक्तिपातशतेषु च ॥३१५ ॥ 
राजा भवति देवेशि मासपंचकयोगतः । 
यवनीशक्तिमानीच गानशक्तिपरायणाम् ॥३१६॥ 
कुलाचारमतेनैव तस्या योनिं विकासयेत्। 
तत्र प्रदायजिह्वां तु जपेन्नामसहस्त्रकम् ॥३१७॥ 
नृकपाले तन्त्र दीपं जपेत्प्रज्वाल्य यत्नतः । 
महाकविवरो भूयान्नात्र कार्य्या विचारणा ॥३१८ ॥ 
कामार्ता शक्तिमानीय योनी तु मूलचक्रकम्। 
विलिख्य परमेशानि तत्र मंत्रं लिखेच्छिवे ॥३१९॥ 
तविहन् प्रजपेद्देवि सर्वशास्वार्थतत्त्ववित् । 
अनुतानि च शास्त्राणि वेदादीन् पाठयेद् ध्रुवम् ॥३२० ॥ 
विना न्यासैर्विना पाठैर्विना ध्यानादिभिः प्रिये। 
चतुर्वेदाधिपो भूत्वा त्रिकालज्ञस्त्रिवर्षतः ॥३२१॥ 
चतुर्विधं च पाण्डित्यं तस्य हस्तगतं क्षणात् । 
शिवाबलिः प्रदातव्यः सर्वदा शून्यमण्डले ॥३२२॥ 
कालीध्यानं मंत्रचिंता नीलसाधनमेव च। 
सहस्त्रनामपाठश्च कालीनामप्रकीर्तनम् ॥३२३॥ 
भक्तस्य कार्य्यमेतावदन्यदभ्युदयं विदुः। 
वीरसाधनके कर्म्म शिवा पूजा बलिस्तथा ॥३२४॥
सिंदूरतिलको देवि वेश्यालापो निरंतरम्। 
वेश्यागृहे निशाचारो रात्री पर्यटनं तथा ॥३२५॥ 
शक्तिपूजा योनिष्टष्टिः खड्गहस्तो दिगम्बरः। 
मुक्तकेशो वीरवेषः कुलमूर्तिधरो नरः ॥३२६ ॥ 
कालीभक्तो भवेद्देवि नान्यथा क्षेममाप्नुयात्। 
दुग्धास्वादी योनिलेही संविदासवपूर्णितः ॥३२७॥ 
वेश्यालता समायोगान्मासात्कल्पलता स्वयम् । 
वेश्याचक्र समायोगात्कालीचक्रसमः स्वयम् ॥३२८ ॥ 
वेश्यादेहसमायोगात् कालीदेहसमः स्वयम् । 
वेश्यामध्यगतं वीरं कदा पश्यामि साधकम् ॥३२९॥ 
एवं वदति सा काली तस्माद्वेश्या वरा मता। 
वेश्या कन्या तथा पीठजाति भेदकुलक्रमात् ॥३३०॥ 
अकुलक्रमभेदेन ज्ञात्वा चापि कुमारिकाम्। 
कुमारी पूजयेद्भक्त्या जपांते भवने प्रिये ॥३३१॥ 
पठेत्रामसहस्रं यः कालीदर्शनभाग्भवेत्। 
भक्त्या कुमारीं सम्पूज्य वेश्याकुलसमुद्भवाम् ॥३३२॥ 
वस्वहेमादिभिस्तोष्या यत्त्रात्स्तोत्रं पठेच्छिवे। 
त्रैलोक्यविजयी भूयाद्दिवा चन्द्रप्रकाशकः ॥३३३॥
यद्यद्दत्तं कुमाय्य तु तदनंतफलं भवेत्। 
कुमारी पूजनफलं मया वक्तं न शक्यते ॥३३४॥
चांचल्याहुरितं किंचित्क्षम्यतामय मंजलिः। 
एकाचेत्पूजिता बाला द्वितीया पूजिता भवेत् ॥३३५ ॥
कुमार्यः शक्तयश्चैव सर्वमेतच्चराचरम्। 
शक्तिमानीय तद्‌गात्रे न्यासजालं प्रविन्यसेत् ॥३३६ ॥
वामभागे च संस्थाप्य जपेत्राम सहस्त्रकम् । 
सर्वसिद्धीश्वरो भूयान्नात्र कार्य्या विचारणा ॥३३७॥
श्मशानस्थो भवेत्स्वस्थो गलितं चिकुरं चरेत्। 
दिगम्बरः सहस्रं च सूर्य्यपुष्पं समानयेत् ॥३३८ ॥
स्ववीर्येण प्लुतं कृत्वा प्रत्येकं प्रजपन् हुनेत्। 
पूज्य ध्यात्वा महाभक्त्या क्षमापालो नरः पठेत् ॥३३९ ॥
नखं केशं स्ववीर्य्य च यद्यत्सम्मार्जनीगतम् । 
मुक्तकेशो दिशावासो मूलमंत्रपुरःसरः ॥३४०॥
कुजवारे मध्यरात्रे होर्म कृत्वा श्मशानके। 
पठेन्नामसहस्रं यः पृथ्वीशाकर्षको भवेत् ॥३४१॥
पुष्पयुक्ते भगे देवि संयोगानन्दतत्परः । 
पुनश्चिकुरमासाद्य मूलमंत्रं जपन् शिवे ॥३४२॥
चितावह्नी मध्यरात्रे वीर्य्य मुत्सायंयन्त्रतः । 
कालिकां पूजयेत्तत्र पठेत्रामसहस्त्रकम् ॥३४३ ॥
पृथ्वीशाकर्षणं कुर्य्यात्रात्र कार्याविचारणा। 
कदलीवनमासाद्य लक्षमंत्र जपेन्नरः ॥३४४॥
मधुमत्या स्वयं देव्या सेव्यमानः स्मरोपमः । 
श्रीमधुमतींत्युक्त्वा तथा स्थावरजङ्गमान् ॥३४५ ॥
आकर्षिणीं समुच्चार्य्य ठं ठं स्वाहा समुच्चरेत्। 
त्रैलोक्याकर्षिणी विद्या तस्य हस्ते सदा भवेत् ॥३४६ ॥
नदीं पुरीं च रनानि हेमस्वीशैलभूरुहान् । 
आकर्षयत्यम्बुनिधिं सुमेरुं च दिगंततः ॥३४७ ॥
अलभ्यानि च वस्तूनि दूराद्धमितलादपि। 
वृत्तांतं च सुरस्थानाग्रहस्ये विदुषामपि ॥३४८ ॥
राज्ञां च कथयत्येषा सत्यं सत्वरमादिशेत् । 
द्वितीयवर्षपाठेन भवेत्पद्मावति शुभा ॥३४९ ॥
ॐ ह्रीं पद्मावतिपदं ततस्त्रैलोक्यनाम च। 
वार्ता च कथयंद्वंद्वं स्वाहांतो मंत्र ईरितः ॥३५० ॥
ब्रह्मविष्यवादिकानां च त्रैलोक्ये यादृशी भवेत्। 
सर्वं वदति देवेशि त्रिकालज्ञः कविः शुभः ॥३५१॥
त्रिवर्ष संपठन्देवि लभेद्भोगवतीं कलाम्। 
महाकालेन दृष्टोऽपि चितामध्यगतोऽपि वा ॥३५२॥
तस्या दर्शनमात्रेण चिरंजीवी नरो भवेत्। 
मृतसंजीविनीत्युक्त्वा मृतमुत्थापयद्वयम् ॥३५३॥
स्वाहांतो मनुराख्यातो मृतसंजीवनात्मकः । 
चतुर्वर्षं पठेद्यस्तु स्वप्रसिद्धिस्ततो भवेत् ॥३५४॥
ॐ ह्रीं स्वप्रवाराहि कालि स्वप्ने कथयोच्चरेत् । 
अमुकस्यामुकं देहि क्रीं स्वाहांतो मनुर्मतः ॥३५५ ॥
स्वप्नसिद्धा चतुर्वर्षांत्तस्य स्वप्ने सदा स्थिता । 
चतुर्वर्षस्य पाठेन चतुर्वेदाधियो भवेत् ॥३५६ ॥
तद्धस्तजलसंयोगान्मूर्खः काव्यं करोति च। 
तस्य वाक्यपरिचयान्मूर्तिर्विन्दति काव्यताम् ॥३५७॥
मस्तके तु करं धृत्वा वदवाणीमिति बुवन्। 
साधको वांछया कुर्य्यात्तत्तथैव भविष्यति ॥ ३५८ ॥
ब्रह्माण्डगोलके याश्च याः काश्चिज्जगतीतले। 
समस्ताः सिद्धयो देवि करामलकवत्सदा ॥३५९॥
साधकस्मृतिमात्रेण यावंत्यः संति सिद्धयः। 
स्वयमायांति पुरतो जपादीनां तु का कथा ॥३६०॥
विदेशवर्तिनो भूत्वा वर्तते चेटका इव। 
अमायां चन्द्रसंदर्शश्चन्द्रग्रहणमेव च ॥ ३६१ ॥
अष्टम्यां पूर्णचन्द्रत्वं चन्द्रसूर्याष्टकं तथा। 
अष्टदिक्षु तथाष्टौ च करोत्येव महेश्वरि ॥३६२॥
अणिमा खेचरत्वं च चराचरपुरीगतम् । 
पादुकाखड्ङ्गवेताल यक्षिणीगुहाकादयः ॥३६३॥ 
तिलको गुप्ततादृश्यं चराचरकथानकम्। 
मृतसंजीविनी सिद्धिर्गुटिका च रसायनम् ॥३६४॥ 
उड्डीनसिद्धिर्देवेशि षष्ठिसिद्धीश्वरत्वकम्। 
तस्य हस्ते वसेद्देवि नात्र कार्या विचारणा ॥३६५ ॥ 
केती वा दुन्दुभी वस्त्रे विताने वेष्टने गृहे। 
भित्तौ च फलके देवि लेख्यं पूज्यं च यत्नतः ॥३६६॥ 
मध्ये चर्क दशांगोक्तं परितो नामलेखनम् । 
तद्धारणान्महेशानि त्रैलोक्यविजयी भवेत् ॥३६७॥ 
एको हि शतसाहस्रं निर्जित्य च रणांगणे। 
पुनरायाति च सुर्ख स्वगृहं प्रति पार्वति ॥ ३६८॥ 
एको हि शतसंदर्शी लोकानां भवति ध्रुवम् । 
कलशं संस्थाप्य यत्नेन नामसाहस्त्रकं पठेत् ॥१६९॥ 
सेकः काय्यों महेशानि सर्वापत्तिनिवारणे। 
भूतप्रेतग्रहादीनां रक्षसां ब्रहारक्षसाम् ॥३०॥ 
बेतालानां भैरवाणां स्कंदवैनायकादिकान्। 
नाशयेत् क्षणमात्रेण नात्रकार्या विचारणा ॥३७१॥ 
भस्मभिमंत्रितं कृत्वा ग्रहग्रस्तं विलेपयेत्। 
भस्मसंक्षेपणादेव सर्वग्रहविनाशनम् ॥३७२ ॥ 
नवनीतं चाभिमंत्र्य स्वीच्यो दद्यान्महेश्वरि । 
वन्ध्या पुत्रप्रदा देवि नात्र कार्या विचारणा ॥३७३।। 
कण्ठे वा वामबाहौ वा योनौ वा धारणाच्छिवे। 
बहुपुत्रवती नारी सुभगा जायते ध्रुवम् ॥३७४॥ 
पुरुषो दक्षिणांगे तु धारयेत्सर्व सिद्धये। 
बलवान् कीर्तिमान् धन्यो धार्मिकः साधकः कृती ॥३७५ ॥ 
बहुपुत्रो रथानां च गजानामधिपः सुधीः। 
कामिनीकर्षणोद्युक्तः कीं च दक्षिणकालिके ॥३७६ ॥ 
क्री स्वाहा प्रजपेन्मंत्रमयुतं नामपाठकः । 
आकर्षणं चरेद्देवि जलखेचरभूगतान् ॥३७७॥ 
वशीकरणकामो हि हूँ हूँ ह्रीं ह्रीं च दक्षिणे। 
कालिके पूर्वबीजानि पूर्ववत्प्रजपन् पठेत् ॥३७८ ॥ 
उर्वशीमपि वशयेन्त्रात्र कार्याविचारणा। 
क्रीं च दक्षिणकालिके स्वाहा युक्तं जपेन्नरः ॥३७९ ॥ 
पठेन्नाम सहस्रं तु त्रैलोक्यं मारयेद्युवम्। 
सद्भक्ताय प्रदातव्या विद्याराज्ञि शुभे दिने ॥३८०॥ 
सद्धिनीताय शांताय दांतायातिगुणाय च। 
भक्ताय ज्येष्ठपुत्राय गुरुभक्तिपराय च ॥३८१॥ 
वैष्णवाय प्रशुद्धाय शिवाबलिरताय च। 
वेश्यापूजनयुक्ताय कुमारीपूजकाय च ॥३८२॥ 
दुर्गाभक्ताय रौद्राय महाकालप्रजापिने। 
अद्वैतभावयुक्ताय कालीभक्तिपराय च ॥३८३॥ 
देयं सहस्त्रनामाख्यं स्वयं काल्या प्रकाशितम्। 
गुरुदैवतमंत्राणां महेशस्यापि पार्वति ॥३८४॥ 
अभेदेन स्मरेन्मंत्रं स शिवः स गणाधिपः। 
यो मंत्रं भावयेन्मंत्री स शिवो नात्र संशयः ॥३८५॥ 
स शाक्तो वैष्णवः सौरः स एव पूर्णदीक्षितः। 
अयोग्याय न दातव्यं सिद्धिरोधः प्रजायते ॥३८६ ॥ 
वेश्या स्वीनिन्दकायाथ सुरासंवित्प्रनिन्दके। 
सुरामुखो मर्नु स्मृत्वा सुराचार्यों भविष्यति ॥३८७॥ 
वाग्देवता घोरे आसापरधोरे च हूँ वदेत्। 
घोररूपे महाघोरे मुखीभीमपदं वदेत् ॥३८८ ॥ 
भीषण्यमुष्य षष्ठांतं हेतुर्वामयुगे शिवे। 
शिववह्रियुगास्त्रं हूँ हूँ कवचमनुर्भवेत् ॥३८९ ॥ 
एतस्य स्मरणादेव दुष्टानां च मुखे सुरा। 
अवतीर्णा भवेद्देवि दुष्टानां भद्रनाशिनी ॥३९०॥ 
खलाय परतंत्राय परनिंदापराय च। 
दुष्टाय दुष्टसत्त्वाय परवादरताय च ॥३९१॥
शिवाभक्ताय दुष्टाय परदाररताय च। 
न स्तोत्रं दर्शयेद्देवि शिवहत्याकरो भवेत् ॥३९२॥
कालिकानन्दहृदयः कालिकाभक्तिमानसः । 
कालीभक्तो भवेत्सोऽयं धन्यरूपः स एव तु ॥३९३ ॥
कलौकाली कलौकाली कलौकाली वरप्रदा। 
कलौकाली कलौकाली कलौकाली तु केवला ॥३९४॥
बिल्वपत्रसहस्राणि करवीराणि वै तथा। 
प्रतिनाम्ना पूजयेद्धि तेन काली वरप्रदा ॥३९५ ॥
कमलानां सहस्रं तु प्रतिनाम्ना समर्पयेत्। 
चक्रं संपूज्य देवेशि कालिकावरमाप्नुयात् ॥३९६ ॥
मंत्रक्षोभयुतो नैव कलशस्थ जलेन च। 
नाम्ना प्रसेचयेद्देवि सर्वक्षोभविनाशकृत् ॥३९७॥
तथा दमनकं देविसहस्त्रमाहरेद्वती। 
सहस्त्रनाम्ना संपूज्य कालीवरमवाप्नुयात् ॥३९८ ॥
चक्रे विलिख्य देहस्थं धारयेत्कालिकातनुः । 
काल्यै निवेदितं यद्यत्तदंर्श भक्षयेच्छिवे ॥३९९ ॥
दिव्यदेहधरो भूत्वा कालीदेहे स्थितो भवेत्। 
नैवेद्यनिन्दकान् दुष्टान् ष्ठा नृत्यंति भैरवाः ॥४०० ॥
योगिन्यश्च महावीरा रक्तपानोद्यताः प्रिये। 
मांसास्थिचर्मणोद्युक्ता भक्षयंति न संशयः ॥४०१॥
तस्मान्न निन्दयेद्देवि मनसा कर्मणा गिरा। 
अन्यथा कुरुते यस्तु तस्य नाशो भविष्यति ॥४०२ ॥
क्रमदीक्षायुतानां च सिद्धिर्भवति नान्यथा। 
मंत्रक्षोभश्च वा भूयात् क्षीणायुर्वा भवेध्रुवम् ॥४०३॥
पुत्रहारी स्वियोहारी राज्यहारी भवेद्धवम्। 
क्रमदीक्षायुतो देवि क्रमाद्राज्चमवाप्नुयात् ॥४०४॥
एकवारं पठेद्देवि सर्वपापविनाशनम्। 
द्विवारं च पठेद्यो हि वाञ्छां विंदति नित्यशः ॥४०५ ॥
त्रिवारं च पठेद्यस्तु वागीशसमतां व्रजेत्। 
चतुर्वारं पठेद्देवि चतुर्वर्णाधिपो भवेत् ॥४०६ ॥
पंचवारं पठेद्देवि पंचकामाधिपो भवेत्। 
षड्‌वारे च पठेद्देवि षडैश्वर्व्याधिपो भवेत् ॥४०७॥
सप्तवारे पठेत्सप्तकामानां चिंतितं लभेत्। 
वसुवारं पठेद्देवि दिगीशो भवति ध्रुवम् ॥४०८ ॥
नववारं पठेद्देवि नवनाथसमो भवेत्। 
दशवारं कीर्त्तयेद्यो दशाईः खेचरेश्वरः ॥४०९ ॥
विंशतिवारं कीर्तयेद्यः सर्वैश्वर्यमयो भवेत्। 
पंचविंशतिवरिस्तु सर्वचिंताविनाशकः ॥४१०॥
पञ्चाशद्वारमावर्त्य पंचभूतेश्वरो भवेत्। 
शतवारं कीर्त्तयेद्यः शताननसमान धीः ॥४११॥
शतपंचकमावत्यै राजराजेश्वरो भवेत्। 
सहस्त्रावर्त्तनाद्देवि लक्ष्मीरावृणुते स्वयम् ॥४१२॥
त्रिसहस्रं समावर्त्य त्रिनेत्रसदृशो भवेत्। 
पंचसाहस्रमावर्त्य कामकोटिविमोहनः ॥४१३॥
दशसाहस्रमावर्त्य भवेद्दशमुखेश्वरः । 
पंचविंशतिसाहस्त्रैश्चतु विंशतिसिद्धिधृक् ॥४१४॥
लक्षावर्त्तनमात्रेण लक्ष्मीपतिसमो भवेत्। 
लक्षत्रयावर्त्तनात्तु महादेवं विजेष्यति ॥४१५॥
लक्षपंचकमावत्र्त्य कलापंचकसंयुतः । 
दशलक्षावर्त्तनात्तु दशविद्याप्तिरुत्तमा ॥४१६॥
पंचविंशतिलक्षैस्तु दशविद्येश्वरी भवेत्। 
पंचाशल्लक्षमावृत्य महाकालसमो भवेत् ॥४१७॥
कोटिमावर्त्तवेद्यस्तु काली पश्यति चक्षुषा। 
वरदानोद्युक्तकरां महाकालसमन्विताम् ॥४१८ ॥
प्रत्यक्षं पश्यति शिवे तस्या देहो भवेद्ध्रुवम् । 
श्रीविद्याकालिका तारात्रिशक्तिविजयी भवेत् ॥४१९॥
विधेलिंपिं च सम्मार्ज्य किंकरत्वं विसृज्य च। 
माहाराज्यमवाप्नोति नात्र कार्या विचारणा ॥४२०॥
विशक्ति विषये देवि क्रमदीक्षा प्रकीर्तिता। 
क्रमदीक्षा युतो देवि राजा भवति निश्चितम् ॥४२१ ॥ 
क्रमदीक्षा विहीनस्य फलं पूर्वमिहेरितम्। 
क्रमदीक्षा युतो देवि शिव एव न चापरः ॥४२२॥ 
क्रमदीक्षासमायुक्तः काल्युक्तसिद्धिभाग्भवेत् । 
क्रमदीक्षाविहीनस्य सिद्धिहानिः पदे पदे ॥४२३॥ 
अहो जन्मवतां मध्ये धन्यः क्रमयुतः कलौ । 
तत्रापि धन्यो देवेशि नामसाहस्त्रपाठकः ॥४२४॥ 
दशकालीविधी देवि स्तोत्रमेतत्सदा पठेत्। 
सिद्धिं विंदति देवेशि नात्र कार्या विचारणा ॥४२५ ॥ 
काली काली महाविद्या कलौकाली च सिद्धिदा। 
कलौकाली च सिद्धा च कलौकाली वरप्रदा ॥४२६ ॥ 
कली काली साधकस्य दर्शनार्थं समुद्यता। 
कलौ काली केवला स्यान्त्रात्र कार्या विचारणा ॥४२७ ॥ 
नान्यविद्या नान्यविद्या नान्यविद्या कली भवेत्। 
कलौ कालीं विहायाथ यः कश्चित्सिद्धिकामुकः ॥२८॥ 
स तु शक्ति विना देवि रतिसम्भोगमिच्छति। 
कलौ कालीं विना देवि यः कश्चितियद्धिमिच्छति ॥४२९ ॥ 
स नीलसाधनं त्यक्त्वा परिश्वमति सर्वतः। 
कलौ कालीं विहायाथ यः कश्चिन्मोक्षमिच्छति ॥४३०॥ 
गुरुध्यानं परित्यज्य सिद्धिमिच्छति साधकः । 
कलौ कालीं विहायाथ यः कश्चिद्राज्यमिच्छति ॥४३१ ॥ 
स भोजनं परित्यज्य भिक्षुवृत्तिमभीप्सति । 
स धन्यः स च विज्ञानी स एव सुरपूजितः ॥४३२॥ 
स दीक्षितः सुखी साधुः सत्यवादी जितेन्द्रियः। 
स वेदवक्ता स्वाध्यायी नात्र कार्या विचारणा ॥४३३॥ 
शिवरूपं गुरुं ध्यात्वा शिवरूपं गुरु स्मरेत्। 
सदाशिवः स एव स्यान्नात्र कार्या विचारणा ॥४३४॥ 
स्वस्मिन् कालीं तु संभाव्य पूजयेजगदम्बिकाम् । 
त्रैलोक्यविजयी भूयान्नात्र कार्यों विचारणा ॥४३५ ॥ 
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः । 
रहस्यातिरहस्यं च रहस्यातिरहस्यकम् ॥४३६ ॥ 
श्लोकार्द्धपादमात्रं वा पादार्द्धं च तदर्द्धकम्। 
नामार्द्ध यः पठेद्देवि न वंध्यदिवर्स नयेत् ॥४३७॥ 
पुस्तकं पूजयेद्भक्त्या त्वरितं फलसिद्धये। 
न च मारीभर्य तत्र न चाग्निवायुसंभवम् ॥४३८ ॥
न भूतादिभयं तत्र सर्वत्र सुखमेधते । 
कुंकुमालत्क्ताकेनैव रोचनागरुयोगतः ॥४३९ ।।
भूर्जपत्रे लिखखेत्पुस्तकं सर्वकामार्थसिद्धये। 
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥४४० ॥
इति गदितमशेषं कालिकावर्णरूपं प्रपठति, 
यदि भक्त्या सर्वसिद्धीश्वरः स्यात् ।
अभिनवसुखकामः सर्वविद्याभिरामो भवति, 
सकलसिद्धिः सर्ववीरा समृद्धिः ॥४४१ ॥
॥ इति श्रीकालीतंत्रे रुद्रयामले च कालीसहस्रनामस्तोत्रं समाप्तम्॥

टिप्पणियाँ