दक्षिण काली कवच

श्रीमद् दक्षिणकालिका कवचम् - Dakshina Kalika Kavacham

ऐसी माना जाता है कि जो साधक देवी काली को पूजा सच्ची श्रद्धा के साथ करते हैं उनकी सभी मनोकामनाएं पूर्ण होती हैं। साथ ही गुप्त शत्रुओं से छुटकारा मिलता है। इसलिए प्रत्येक साधक को मां की पूजा-अर्चना के साथ काली कवच का पाठ जरूर करना चाहिए।


इस कवच स्तोत्र में सभी आवरण देवताओं से रक्षा प्रार्थना की गई है। अतः इसके पाठ से यंत्र पूजा का फल भी प्रास होता है।

श्रीमद् दक्षिणकालिका कवचम् - Dakshina Kalika Kavacham

कैलास शिखरारूद्धं भैरवं चन्द्रशेखरम्। 
वक्षः स्थले समासीना भैरवी परिपृच्छति ॥ 

|| श्री भैरव्युवाच ॥

देवेश परमेशान लोकानुग्रहकारकः । कवचं सूचितं पूर्व किमर्थं न प्रकाशितम् ॥
यदि में महती प्रीतिस्तवास्ति कुलभैरव। कवचं कालिका देव्याः कथयस्वानुकम्पया ॥

॥ श्रीभैरव उवाच ॥

अप्रकाश्य मिदं देवि नरलोके विशेषतः। लक्षवारं वारितासि स्त्री स्वभावाद्धि पृच्छसि ॥

॥ देव्युवाच ॥

सेवका बहवो नाथ कुलधर्म परायणाः । यतस्ते त्यक्तजीवाशा शवोपरि चितोपरि ॥ 
तेषां प्रयोग सिद्धार्थं स्वरक्षार्थं विशेषतः। पृच्छामि बहुशो देव कथयस्व दयानिधे ॥

॥ श्रीभैरव उवाच ॥ 

कथयामि शृणु प्राज्ञे कालिका कवचं परम्। गोपनीयं पशोरग्रे स्वयोनिमपरे यथा ॥

विनियोग :- 

ॐ अस्य श्री कालिका कवचस्य भैरव ऋषिः, उष्णिक् छन्दः, अद्वैतरूपिणी श्रीदक्षिण
कालिका देवता, ह्रीं बीजं, हूंशक्तिः, क्रीं कीलकं सर्वार्थ साधन पुरः सरमन्त्र सिद्धी विनियोगः।

॥ कवचम् ॥

सहस्त्रारे महापदो कर्पूरधवलो गुरुः । 
वामोरुस्थिततच्छक्तिः सदा सर्वत्र रक्षतु ॥

परमेशः गुरः पातु परापरगुरुस्तथा। 
परमेष्ठी गुरुः पातु दिव्य सिद्धिश्च मानवः ॥

महादेवी सदापातु महादेवः सदावतु। 
त्रिपुरो भैरवः पातु दिव्यरूपधरः सदा ॥

ब्रह्मानन्दः सदापातु पूर्णदेवः सदावतु। 
चलचित्तः सदापातु चेलाञ्चलश्च पातु माम् ॥

कुमारः क्रोधनश्चैव वरदः स्मरदीपनः । 
मायामायावती चैव सिद्धौधाः पातु सर्वदा ॥ 

विमलो कुशलश्चैव भीमसेनः सुधाकरः। 
मीनो गोरक्षकश्चैव भोजदेवः प्रजापतिः ।

मूलदेवो रन्तिदेवो विघ्नेश्वर हुताशनः । 
सन्तोषः समयानन्दः पातु मां मनवा सदा ॥

सर्वेऽप्यानन्दनाधान्तः अम्बान्तां मातरः क्रमात् । 
गणनाथः सदा पातु भैरवः पातु मां सदा ॥

वटुको नः सदा पातु दुर्गा मां परिरक्षतु 
शिरसः पादपर्यन्तं पातु मां घोर दक्षिणा ॥

तथा शिरसि मां काली हदि मूले च रक्षतु । 
सम्पूर्ण विद्यया देवी सदा सर्वत्र रक्षतु ॥

की कीं कीं वदने पातु हृदि हूं हूं सदावतु। 
ह्रीं ह्रीं पातु सदाधारे दक्षिणे कलिके हृदि ॥

कीं कीं कीं पातु मे पूर्वे हूं हूं दक्षे सदावतु। 
ह्रीं ह्रीं मां पश्चिमे पातु हूं हूं पातु सदोत्तरे ॥

पृष्ठे पातु सदा स्वाहा मूला सर्वत्र रक्षतु ।
षडङ्गे युवती पातु षडङ्गेषु सदैव माम् ।

मन्त्रराजः सदापातु ऊर्ध्वाधो दिग्विदिक् स्थितः। 
चक्रराजे स्थिताश्चापि देवताः परिपान्तु माम् ॥

उग्रा उग्रप्रभा दीप्ता पातु पूर्वे त्रिकोणके। 
नीला घना वलाका च तथापर त्रिकोणके ॥

मात्रा मुद्रा मिता चैव तथा मध्यत्रिकोणके। 
काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ॥

बहिः षट्‌कोणके पान्तु विप्रचित्ता तथा प्रिये। 
सर्वाः श्यामाः खड्गधरा वामहस्तेन तर्जनीः ॥

ब्राह्मी पूर्वदले पातु नारायणी तथाग्निके। 
माहेश्वरी दक्षदले चामुण्डा राक्षसेऽवतु ॥

कौमारी पश्चिमे पातु वायव्ये चापराजिता। 
बाराही चोत्तरे पातु नारसिंही शिवेऽवतु ॥

ऐं ह्रीं असिताङ्गः पूर्वे भैरवः परिरक्षतु
ऐं ह्रीं रु रुश्चाजिन कोणे ऐं ह्रीं चंडस्तु दक्षिणे ॥

ऐं ह्रीं क्रोधो नैऋत्येऽव्यात् ऐं ह्रीं उन्मत्तकस्तथा । 
पश्चिमे पातु ऐं ह्रीं मां कपाली वायुकोणके ॥

ऐं ह्रीं भीषणाख्यश्च उत्तरेऽवतु भैरवः। 
ऐं ह्रीं संहार ऐशान्यां मातृणामङ्कगा शिवाः ॥

ऐं हेतुको बटुकः पूर्वदले पातु सदैव माम्। 
ऐं त्रिपुरांतको बटुक आग्नेय्यां सर्वदावतु ॥

ऐं वह्नि बेतालो वटुको दक्षिणे मां सदाऽवतु । 
ऐं अग्नि जिल्ह्ववटुकोऽव्यात् नैर्ऋत्यां पश्चिमे तथा ॥

ऐं कालबटुकः पातु ऐं करालवटुकस्तथा । 
वायव्यां ऐं एकः पातु उत्तरे वटकोऽवतु ॥

ऐं भीम बटुकः पातु ऐशान्यां दिशि मां सदा। 
ऐं ह्रीं ह्रीं हूं फट् स्वाहान्ताश्चतुः षष्टिमातरः ॥

ऊर्ध्वाधो दक्षवामार्गे पृष्ठदेशे तु पातु माम्। 
ऐं हूं सिंह व्याघ्रमुखी पूर्वे मां परिरक्षतु ॥

ऐं कां कीं सर्पमुखी अग्निकोणे सदाऽवतु । 
ऐं मां मां मृगमेषमुखी दक्षिणे मां सदाऽवतु ॥

ऐं चीं चीं गजराजमुखी नैर्ऋत्यां मां सदाऽवतु । 
ऐं में में विडालमुखी पश्चिमे पातु मां सदा ॥

ऐं खौं खौं क्रोष्टुमुखी वायुकोणे सदाऽवतु । 
ऐं हां हां ह्रस्वदीर्घमुखी लम्बोदर महोदरी ॥

पातुमामुत्तरे कोण ऐं ह्रीं ह्रीं शिवकोणके। 
ह्रस्वजङ्घत्तालजङ्घ प्रलम्बौष्ठी सदाऽवतु ॥

एताः श्मशानवासिन्यो भीषणा विकृताननाः । 
पान्तु मां सर्वदा देव्यः साधकाभीष्ट पूरिकाः ॥

इन्द्रो मां पूर्वतो रक्षेदाग्नेय्या मग्निदेवता। 
दक्षे यमः सदापातु नैऋत्यां नैऋतिश्च माम् ॥

वरुणोऽवतु मां पश्चात् वायुाँ वायवेऽवतु । 
कुवेरश्चोत्तरे पायात् ऐशान्यां तु सदाशिवः ॥

ऊर्ध्व ब्रह्मा सदापातु अधश्चानन्तदेवता । 
पूर्वानिदिक् स्थिताः पान्तु वज्राद्याश्चायुधाश्चमाम् ॥

कालिकाऽवतु शिरसि हृदये कालिकाऽवतु । 
आधारे कालिका पातु पादयोः कालिकाऽवतु ॥

दिक्षु मां कालिका पातु विदिक्षु कालिका ऽवतु । 
ऊर्ध्व में कालिका पातु अधश्च कालिकाऽवतु ।

चर्मासुमांस मेदाऽस्थि मज्जा शुक्राणिमेऽवतु । 
इन्द्रयाणि मनश्चैव देहं सिद्धिं च मेऽवतु ।

अकेशात् पादपर्ण्यन्तं कालिका में सदाऽवतु । 
वियति कालिका पातु पथि मां कालिकाऽवतु ।

शयने कालिका पातु सर्वकार्येषु कालिका । 
पुत्रान् मे कालिका पातु धनं में पातु कालिका ॥

यत्र मे संशयाविष्टास्ता नश्यन्तु शिवाज्ञया । 
इतीदं कवचं देवि ब्रह्मलोकेऽपि दुर्लभम् ॥

तव प्रीत्या मायाख्यातं गोपनीयं स्वयोनिवत् । 
तव नाम्नि स्मृते देवि सर्वज्ञं च फलं लभेत् ॥

सर्व पापः क्षयं यान्ति वाञ्छा सर्वत्र सिद्धयति । 
नाम्नाः शतगुणं स्तोत्रं ध्यानं तस्मात् शताधिकम् ॥

तस्मात् शताधिको मंत्रः कवचं तच्छताधिकम् । 
शुचिः समाहितों भूत्वा भक्तिं श्रद्धा समन्वितः ॥

संस्थाप्य वामभागेतु शक्तितं स्वामि परायणाम् । 
रक्तवस्त्र परिघानां शिवमंत्रधरां शुभाम् ॥

या शक्तिः सा महादेवी हररूपश्च साधकः । 
अन्योऽन्य चिन्तयेद्देवि देवत्वमुपुजायते ॥

शक्तियुक्तो यजेद्देवीं चक्रे वा मनसापि वा । 
भोगैश्च मधुपर्काद्यै स्ताम्बूलैश्च सुवासितैः ॥

ततस्तु कवचं दिव्यं पठदेकमनाः प्रिये । 
तस्य सर्वार्थ सिद्धिस्यान्नात्र कार्याविचारणा ॥

इदं रहस्यं परमं परं स्वस्त्ययनं महत् । 
या सकृत्तुपठद्देवि कवचं देवदुर्लभम् ॥

सर्वयज्ञ फलं तस्य भवेदेव न संशयः । 
संग्रामे च जयेत् शत्रून् मातङ्गानिव केशरी ॥

नास्त्राणि तस्य शस्त्राणि शरीरे प्रभवन्ति च । 
तस्य व्याधि कदाचिन्न दुःखं नास्ति कदाचन ॥

गतिस्तस्यैव सर्वत्र वायुतुल्यः सदा भवेत् । 
दीर्घायुः कामभोगीशो गुरुभक्ताः सदा भवेत् ॥

अहो कवच माहात्म्यं पठमानस्य नित्यशः । 
विनापि नयोगेन योगीश समतां व्रजेत् ॥

सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः । 
न शक्नोमि प्रभावं तु कवचस्यास्य वर्णिताम् ॥

॥ इति श्रीमद् दक्षिणकालिका कवचम् सम्पूर्णम् ॥ 

ये भी पढ़ें-

दक्षिण काली साधना विवरण, ] [ श्री काली कीलक स्तोत्रम् ] 

श्री कालिका सहस्त्रनाम स्तोत्र ] [ श्री काली ककारादि शतनाम् स्तोत्र ] 

श्री काली हृदय स्तोत्र  ] [ श्री काली जगन्मङ्गल कवच ]

मां काली त्रैलोक्य विजय कवच ] श्री महाकाली ( मंत्र ) सूक्त ]

श्री काली अर्गला स्तोत्रम् मां दुर्गा को प्रिय है ] श्री काली कर्पूर स्तोत्रम् ]

काली ककारादि सहस्रनाम स्तोत्रम् ]

टिप्पणियाँ