श्री राधा कुंड अष्टकम | Shri Radha Kund Ashtakam
Shri Radha Kund Ashtakam |
श्री राधा कुंड अष्टकम | Shri Radha Kund Ashtakam
वृषभदनुजनाशात् नर्मधर्मोक्तिरङ्गैः,
निखिलनिजतनूभिर्यत्स्वहस्तेन पूर्णम् ।
प्रकटितमपि वृन्दारण्यराज्ञा प्रमोदैः,
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ १॥
व्रजभुवि मुरशत्रोः प्रेयसीनां निकामैः,
असुलभमपि तूर्णं प्रेमकल्पद्रुमं तम् ।
जनयति हृदि भूमौ स्नातुरुच्चैः प्रियं यत्,
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ २॥
अघरिपुरपि यत्नादत्र देव्याः प्रसाद-,
प्रसरकृतकटाक्षप्राप्तिकामः प्रकामम् ।
अनुसरति यदुच्चैः स्नानसेवानुबन्धैः,
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ३॥
व्रजभुवनसुधांशोः प्रेमभूमिर्निकामं,
व्रजमधुरकिशोरीमौलिरत्नप्रियेव ।
परिचितमपि नाम्ना यच्च तेनैव तस्याः,
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ४॥
अपि जन इह कश्चिद्यस्य सेवाप्रसादैः,
प्रणयसुरलता स्यात्तस्य गोष्ठेन्द्रसूनोः ।
सपदि किल मदीशा दास्यपुष्पप्रशस्या,
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ५॥
ततमधुरनिकुञ्जाः क्लृप्तनामान उच्चैः,
निजपरिजनवर्गैः संविभज्याश्रितास्तैः ।
मधुकररुतरम्या यस्य राजन्ति काम्याः,
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ६॥
ततभुवि वरवेद्यं यस्य नर्मातिहृद्यं,
मधुरमधुरवार्तां गोष्ठचन्द्रस्य भङ्ग्या ।
प्रथयितुमित ईशप्राणसख्यालिभिः सा,
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ७॥
अनुदिनमतिरङ्गैः प्रेममत्तालिसङ्घैः,
वरसरसिजगन्धैः हारिवारिप्रपूर्णे ।
विहरत इह यस्मन् दम्पती तौ प्रमत्तौ,
तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ८॥
। इति राधाकुण्डाष्टकं समाप्तम् ।
ये भी पढ़ें
[ श्रीराधाष्टकम् ] [ श्री युगलाष्टकम् - कृष्ण प्रेममयी राधा ] [ श्री राधा स्तुति ]
[ श्री राधा अष्टोत्तर शतनाम स्तोत्रम् ] [ राधा कृपा कटाक्ष स्त्रोत्र ] [ श्री राधा कुंड अष्टकम ]
[ राधाषोडशनामस्तोत्रम् ] [ श्री राधा कवच ] [ श्री राधा नाम महात्म्य स्तोत्र ]
टिप्पणियाँ