अग्नि पुराण - एक सौ चौंसठवाँ अध्याय ! नीचे हिन्दी मे है
पुष्कर उवाच
श्रीकामः शान्तिकामो वा ग्रहयज्ञं समारभेत् ।
वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन् पुनः ॥१६४.००१
सूर्यः सोमो मङ्गलश्च बुधश्चाथ बृहस्पतिः ।
शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहाः स्मृताः ॥१६४.००२
ताम्रकात्स्फटिकाद्रक्तचन्दनात्स्वर्णर्कादुभौ ।
रजतादयसः शीशात्ग्रहाः कार्याः क्रमादिमे ॥१६४.००३
सुवर्णैर्वायजेल्लिख्य गन्धमण्डलकेषु वा ।
यथावर्णं प्रदेयानि वासांसि कुसुमानि च ॥१६४.००४
गन्धाश्च वलयश्चैव धूपो देयस्तु गुग्गुलुः ।
कर्तव्या मन्त्रयन्तश्च चरवः प्रतिदैवतं ॥१६४.००५
आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् ।
उद्बुद्ध्यस्वेति च ऋचो यथासङ्ख्यं प्रकीर्तिताः ॥१६४.००६
बृहस्पते अतियदर्यस्तथैवाल्पात्परिश्रुतः ।
शन्नो देवीस्तथा काण्डात्केतुं कृन्वन्निमास्तथा ॥१६४.००७
अर्कः पालाशः खदिरो ह्यपामार्गोथ पिप्पलः ।
उदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ॥१६४.००८
एकैकस्यात्राष्टशतमष्टाविंशतिरेव वा ।
होतव्या मधुसर्पिर्भ्यां दध्ना चैव समन्विताः ॥१६४.००९
गुडौदनं पायसं च हविष्यं क्षीरयष्टिकं ।
दध्योदनं हविः पूपान्मांसं चित्रान्नमेव च ॥१६४.०१०
दद्याद्ग्रहक्रमदेतद्द्विजेभ्यो भोजनं बुधः ।
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकं ॥१६४.०११
धेनुः शङ्खस्तथानड्वान् हेम वासो हयस्तथा ।
कृष्णा गौरायसश्छाग एता वै दक्षिणाः क्रमात् ॥१६४.०१२
यश्च यस्य यदा दूष्यःस तं यत्नेन पूजयेत् ।
ब्रह्मणैषां वरो दत्तः पूजिताः पूजितस्य च ॥१६४.०१३
ग्रहाधीना नरेन्द्राणा मुछ्रयाः पतनानि च ।
भावभावो च जगतस्तस्मात्पूज्यतमा ग्रहाः ॥१६४.०१४
इत्याग्नेये महापुराणे नवग्रहहोमो नाम चतुःषष्ट्यधिकशततमोऽध्यायः ॥
अग्नि पुराण एक सौ चौंसठवाँ अध्याय हिन्दी मे Agni Purana - 164 Chapter!-In Hindi
click to read👇
[अग्नि पुराण अध्यायः १६१] [अग्नि पुराण अध्यायः १६२] [अग्नि पुराण अध्यायः १६३]
[अग्नि पुराण अध्यायः १६४] [अग्नि पुराण अध्यायः १६५] [अग्नि पुराण अध्यायः १६६]
[अग्नि पुराण अध्यायः १६७] [अग्नि पुराण अध्यायः १६८] [अग्नि पुराण अध्यायः १६९]
[अग्नि पुराण अध्यायः १७०] [अग्नि पुराण अध्यायः १७१] [अग्नि पुराण अध्यायः १७२]
[अग्नि पुराण अध्यायः १७३] [अग्नि पुराण अध्यायः १७४] [अग्नि पुराण अध्यायः १७५]
[अग्नि पुराण अध्यायः १७६] [अग्नि पुराण अध्यायः १७७] [अग्नि पुराण अध्यायः १७८]
टिप्पणियाँ