श्री लक्ष्मी हृदय स्तोत्र
पढ़ने के लिए क्लिक करें:-
Shri Lakshmi Hridaya Stotra ! |
श्री लक्ष्मी हृदय स्तोत्र ! Shri Lakshmi Hridaya Stotra !
ऋष्यादिन्यासः –
करन्यासः –
अङ्गन्यासः –
अथ ध्यानम् ।
श्री लक्ष्मी हृदय स्तोत्र
वन्दे लक्ष्मीं परमशिवमयीं शुद्धजाम्बूनदाभां
तेजोरूपां कनकवसनां सर्वभूषोज्ज्वलाङ्गीम् ।
बीजापूरं कनककलशं हेमपद्मं दधाना-
-माद्यां शक्तिं सकलजननीं विष्णुवामाङ्कसंस्थाम् ॥ 1 ॥
श्रीमत्सौभाग्यजननीं स्तौमि लक्ष्मीं सनातनीम् ।
सर्वकामफलावाप्तिसाधनैकसुखावहाम् ॥ 2 ॥
स्मरामि नित्यं देवेशि त्वया प्रेरितमानसः ।
त्वदाज्ञां शिरसा धृत्वा भजामि परमेश्वरीम् ॥ 3 ॥
समस्तसम्पत्सुखदां महाश्रियं समस्तसौभाग्यकरीं महाश्रियम् ।
समस्तकल्याणकरीं महाश्रियं भजाम्यहं ज्ञानकरीं महाश्रियम् ॥ 4 ॥
विज्ञानसम्पत्सुखदां सनातनीं विचित्रवाग्भूतिकरीं मनोहराम् ।
अनन्तसम्मोदसुखप्रदायिनीं नमाम्यहं भूतिकरीं हरिप्रियाम् ॥ 5 ॥
समस्तभूतान्तरसंस्थिता त्वं समस्तभोक्त्रीश्वरि विश्वरूपे ।
तन्नास्ति यत्त्वद्व्यतिरिक्तवस्तु त्वत्पादपद्मं प्रणमाम्यहं श्रीः ॥ 6 ॥
दारिद्र्य दुःखौघतमोपहन्त्री त्वत्पादपद्मं मयि सन्निधत्स्व ।
दीनार्तिविच्छेदनहेतुभूतैः कृपाकटाक्षैरभिषिञ्च मां श्रीः ॥ 7 ॥
अम्ब प्रसीद करुणासुधयार्द्रदृष्ट्या मां त्वत्कृपाद्रविणगेहमिमं कुरुष्व ।
आलोकय प्रणतहृद्गतशोकहन्त्री त्वत्पादपद्मयुगलं प्रणमाम्यहं श्रीः ॥ 8 ॥
शान्त्यै नमोऽस्तु शरणागतरक्षणायै कान्त्यै नमोऽस्तु कमनीयगुणाश्रयायै ।
क्षान्त्यै नमोऽस्तु दुरितक्षयकारणायै दात्र्यै नमोऽस्तु धनधान्यसमृद्धिदायै ॥ 9 ॥
शक्त्यै नमोऽस्तु शशिशेखरसंस्तुतायै रत्यै नमोऽस्तु रजनीकरसोदरायै ।
भक्त्यै नमोऽस्तु भवसागरतारकायै मत्यै नमोऽस्तु मधुसूदनवल्लभायै ॥ 10 ॥
लक्ष्म्यै नमोऽस्तु शुभलक्षणलक्षितायै सिद्ध्यै नमोऽस्तु शिवसिद्धसुपूजितायै ।
धृत्यै नमोऽस्त्वमितदुर्गतिभञ्जनायै गत्यै नमोऽस्तु वरसद्गतिदायिकायै ॥ 11 ॥
देव्यै नमोऽस्तु दिवि देवगणार्चितायै भूत्यै नमोऽस्तु भुवनार्तिविनाशनायै ।
धात्र्यै नमोऽस्तु धरणीधरवल्लभायै पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ 12 ॥
सुतीव्रदारिद्र्यविदुःखहन्त्र्यै नमोऽस्तु ते सर्वभयापहन्त्र्यै ।
श्रीविष्णुवक्षःस्थलसंस्थितायै नमो नमः सर्वविभूतिदायै ॥ 13 ॥
जयतु जयतु लक्ष्मीर्लक्षणालङ्कृताङ्गी जयतु जयतु पद्मा पद्मसद्माभिवन्द्या ।
जयतु जयतु विद्या विष्णुवामाङ्कसंस्था जयतु जयतु सम्यक्सर्वसम्पत्करी श्रीः ॥ 14 ॥
जयतु जयतु देवी देवसङ्घाभिपूज्या जयतु जयतु भद्रा भार्गवी भाग्यरूपा ।
जयतु जयतु नित्या निर्मलज्ञानवेद्या जयतु जयतु सत्या सर्वभूतान्तरस्था ॥ 15 ॥
जयतु जयतु रम्या रत्नगर्भान्तरस्था जयतु जयतु शुद्धा शुद्धजाम्बूनदाभा ।
जयतु जयतु कान्ता कान्तिमद्भासिताङ्गी जयतु जयतु शान्ता शीघ्रमागच्छ सौम्ये ॥ 16 ॥
यस्याः कलायाः कमलोद्भवाद्या रुद्राश्च शक्र प्रमुखाश्च देवाः ।
जीवन्ति सर्वेऽपि सशक्तयस्ते प्रभुत्वमाप्ताः परमायुषस्ते ॥ 17 ॥
लिलेख निटिले विधिर्मम लिपिं विसृज्यान्तरं त्वया विलिखितव्यमेतदिति तत्फलप्राप्तये ।
तदन्तरफलेस्फुटं कमलवासिनी श्रीरिमां समर्पय समुद्रिकां सकलभाग्यसंसूचिकाम् ॥ 18 ॥
कलया ते यथा देवि जीवन्ति सचराचराः ।
तथा सम्पत्करे लक्ष्मि सर्वदा सम्प्रसीद मे ॥ 19 ॥
यथा विष्णुर्ध्रुवे नित्यं स्वकलां सन्न्यवेशयत् ।
तथैव स्वकलां लक्ष्मि मयि सम्यक् समर्पय ॥ 20 ॥
सर्वसौख्यप्रदे देवि भक्तानामभयप्रदे ।
अचलां कुरु यत्नेन कलां मयि निवेशिताम् ॥ 21 ॥
मुदास्तां मत्फाले परमपदलक्ष्मीः स्फुटकला
सदा वैकुण्ठश्रीर्निवसतु कला मे नयनयोः ।
वसेत्सत्ये लोके मम वचसि लक्ष्मीर्वरकला
श्रियः श्वेतद्वीपे निवसतु कला मे स्वकरयोः ॥ 22 ॥
तावन्नित्यं ममाङ्गेषु क्षीराब्धौ श्रीकला वसेत् ।
सूर्याचन्द्रमसौ यावद्यावल्लक्ष्मीपतिः श्रियाः ॥ 23 ॥
सर्वमङ्गलसम्पूर्णा सर्वैश्वर्यसमन्विता ।
आद्यादि श्रीर्महालक्ष्मी त्वत्कला मयि तिष्ठतु ॥ 24 ॥
अज्ञानतिमिरं हन्तुं शुद्धज्ञानप्रकाशिका ।
सर्वैश्वर्यप्रदा मेऽस्तु त्वत्कला मयि संस्थिता ॥ 25 ॥
अलक्ष्मीं हरतु क्षिप्रं तमः सूर्यप्रभा यथा ।
वितनोतु मम श्रेयस्त्वत्कला मयि संस्थिता ॥ 26 ॥
ऐश्वर्यमङ्गलोत्पत्तिस्त्वत्कलायां निधीयते ।
मयि तस्मात्कृतार्थोऽस्मि पात्रमस्मि स्थितेस्तव ॥ 27 ॥
भवदावेशभाग्यार्हो भाग्यवानस्मि भार्गवि ।
त्वत्प्रसादात्पवित्रोऽहं लोकमातर्नमोऽस्तु ते ॥ 28 ॥
पुनासि मां त्वत्कलयैव यस्मा दतः समागच्छ ममाग्रतस्त्वम् ।
परं पदं श्रीर्भव सुप्रसन्ना मय्यच्युतेन प्रविशादिलक्ष्मीः ॥ 29 ॥
श्रीवैकुण्ठस्थिते लक्ष्मि समागच्छ ममाग्रतः ।
नारायणेन सह मां कृपादृष्ट्याऽवलोकय ॥ 30 ॥
सत्यलोकस्थिते लक्ष्मि त्वं ममागच्छ सन्निधिम् ।
वासुदेवेन सहिता प्रसीद वरदा भव ॥ 31 ॥
श्वेतद्वीपस्थिते लक्ष्मि शीघ्रमागच्छ सुव्रते ।
विष्णुना सहिते देवि जगन्मातः प्रसीद मे ॥ 32 ॥
क्षीराम्बुधिस्थिते लक्ष्मि समागच्छ समाधवा ।
त्वत्कृपादृष्टिसुधया सततं मां विलोकय ॥ 33 ॥
रत्नगर्भस्थिते लक्ष्मि परिपूर्णे हिरण्मये ।
समागच्छ समागच्छ स्थित्वाऽऽशु पुरतो मम ॥ 34 ॥
स्थिरा भव महालक्ष्मि निश्चला भव निर्मले ।
प्रसन्ने कमले देवि प्रसन्नहृदया भव ॥ 35 ॥
श्रीधरे श्रीमहाभूते त्वदन्तःस्थं महानिधिम् ।
शीघ्रमुद्धृत्य पुरतः प्रदर्शय समर्पय ॥ 36 ॥
वसुन्धरे श्रीवसुधे वसुदोग्ध्रि कृपामये ।
त्वत्कुक्षिगतसर्वस्वं शीघ्रं मे सम्प्रदर्शय ॥ 37 ॥
विष्णुप्रिये रत्नगर्भे समस्तफलदे शिवे ।
त्वद्गर्भगतहेमादीन् सम्प्रदर्शय दर्शय ॥ 38 ॥
रसातलगते लक्ष्मि शीघ्रमागच्छ मे पुरः ।
न जाने परमं रूपं मातर्मे सम्प्रदर्शय ॥ 39 ॥
आविर्भव मनोवेगाच्छीघ्रमागच्छ मे पुरः ।
मा वत्स भैरिहेत्युक्त्वा कामं गौरिव रक्ष माम् ॥ 40 ॥
देवि शीघ्रं समागच्छ धरणीगर्भसंस्थिते ।
मातस्त्वद्भृत्यभृत्योऽहं मृगये त्वां कुतूहलात् ॥ 41 ॥
उत्तिष्ठ जागृहि त्वं मे समुत्तिष्ठ सुजागृहि ।
अक्षयान् हेमकलशान् सुवर्णेन सुपूरितान् ॥ 42 ॥
निक्षेपान्मे समाकृष्य समुद्धृत्य ममाग्रतः ।
समुन्नतानना भूत्वा समाधेहि धरान्तरात् ॥ 43 ॥
मत्सन्निधिं समागच्छ मदाहितकृपारसात् ।
प्रसीद श्रेयसां दोग्ध्री लक्ष्मीर्मे नयनाग्रतः ॥ 44 ॥
अत्रोपविश लक्ष्मि त्वं स्थिरा भव हिरण्मये ।
सुस्थिरा भव सम्प्रीत्या प्रसीद वरदा भव ॥ 45 ॥
आनीतांस्तु तथा देवि निधीन्मे सम्प्रदर्शय ।
अद्य क्षणेन सहसा दत्त्वा संरक्ष मां सदा ॥ 46 ॥
मयि तिष्ठ तथा नित्यं यथेन्द्रादिषु तिष्ठसि ।
अभयं कुरु मे देवि महालक्ष्मीर्नमोऽस्तु ते ॥ 47 ॥
समागच्छ महालक्ष्मि शुद्धजाम्बूनदप्रभे ।
प्रसीद पुरतः स्थित्वा प्रणतं मां विलोकय ॥ 48 ॥
लक्ष्मीर्भुवं गता भासि यत्र यत्र हिरण्मयी ।
तत्र तत्र स्थिता त्वं मे तव रूपं प्रदर्शय ॥ 49 ॥
क्रीडन्ती बहुधा भूमौ परिपूर्णकृपामयि ।
मम मूर्धनि ते हस्तमविलम्बितमर्पय ॥ 50 ॥
फलद्भाग्योदये लक्ष्मि समस्तपुरवासिनी ।
प्रसीद मे महालक्ष्मि परिपूर्णमनोरथे ॥ 51 ॥
अयोध्यादिषु सर्वेषु नगरेषु समास्थिते ।
वैभवैर्विविधैर्युक्तैः समागच्छ मुदान्विते ॥ 52 ॥
समागच्छ समागच्छ ममाग्रे भव सुस्थिरा ।
करुणारसनिष्यन्दनेत्रद्वय विलासिनी ॥ 53 ॥ [निष्पन्न]
सन्निधत्स्व महालक्ष्मि त्वत्पाणिं मम मस्तके ।
करुणासुधया मां त्वमभिषिञ्च्य स्थिरं कुरु ॥ 54 ॥
सर्वराजगृहे लक्ष्मि समागच्छ बलान्विते । [मुदान्विते]
स्थित्वाऽऽशु पुरतो मेऽद्य प्रसादेनाऽभयं कुरु ॥ 55 ॥
सादरं मस्तके हस्तं मम त्वं कृपयार्पय ।
सर्वराजगृहे लक्ष्मि त्वत्कला मयि तिष्ठतु ॥ 56 ॥
आद्यादि श्रीमहालक्ष्मि विष्णुवामाङ्कसंस्थिते ।
प्रत्यक्षं कुरु मे रूपं रक्ष मां शरणागतम् ॥ 57 ॥
प्रसीद मे महालक्ष्मि सुप्रसीद महाशिवे ।
अचला भव सम्प्रीत्या सुस्थिरा भव मद्गृहे ॥ 58 ॥
यावत्तिष्ठन्ति वेदाश्च यावच्चन्द्रदिवाकरौ ।
यावद्विष्णुश्च यावत्त्वं तावत्कुरु कृपां मयि ॥ 59 ॥
चान्द्रीकला यथा शुक्ले वर्धते सा दिने दिने ।
तथा दया ते मय्येव वर्धतामभिवर्धताम् ॥ 60 ॥
यथा वैकुण्ठनगरे यथा वै क्षीरसागरे ।
तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह ॥ 61 ॥
योगिनां हृदये नित्यं यथा तिष्ठसि विष्णुना ।
तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह ॥ 62 ॥
नारायणस्य हृदये भवती यथास्ते
नारायणोऽपि तव हृत्कमले यथास्ते ।
नारायणस्त्वमपि नित्यमुभौ तथैव
तौ तिष्ठतां हृदि ममापि दयान्वितौ श्रीः ॥ 63 ॥
विज्ञानवृद्धिं हृदये कुरु श्रीः सौभाग्यवृद्धिं कुरु मे गृहे श्रीः ।
दयासुवृद्धिं कुरुतां मयि श्रीः सुवर्णवृद्धिं कुरु मे गृहे श्रीः ॥ 64 ॥
न मां त्यजेथाः श्रितकल्पवल्लि सद्भक्तचिन्तामणिकामधेनो ।
विश्वस्य मातर्भव सुप्रसन्ना गृहे कलत्रेषु च पुत्रवर्गे ॥ 65 ॥
आद्यादिमाये त्वमजाण्डबीजं त्वमेव साकारनिराकृतिस्त्वम् ।
त्वया धृताश्चाब्जभवाण्डसङ्घा श्चित्रं चरित्रं तव देवि विष्णोः ॥ 66 ॥
ब्रह्मरुद्रादयो देवा वेदाश्चापि न शक्नुयुः ।
महिमानं तव स्तोतुं मन्दोऽहं शक्नुयां कथम् ॥ 67 ॥
अम्ब त्वद्वत्सवाक्यानि सूक्तासूक्तानि यानि च ।
तानि स्वीकुरु सर्वज्ञे दयालुत्वेन सादरम् ॥ 68 ॥
भवतीं शरणं गत्वा कृतार्थाः स्युः पुरातनाः ।
इति सञ्चिन्त्य मनसा त्वामहं शरणं व्रजे ॥ 69 ॥
अनन्ता नित्यसुखिनस्त्वद्भक्तास्त्वत्परायणाः ।
इति वेदप्रमाणाद्धि देवि त्वां शरणं व्रजे ॥ 70 ॥
तव प्रतिज्ञा मद्भक्ता न नश्यन्तीत्यपि क्वचित् ।
इति सञ्चिन्त्य सञ्चिन्त्य प्राणान् सन्धारयाम्यहम् ॥ 71 ॥
त्वदधीनस्त्वहं मातस्त्वत्कृपा मयि विद्यते ।
यावत्सम्पूर्णकामः स्यात्तावद्देहि दयानिधे ॥ 72 ॥
क्षणमात्रं न शक्नोमि जीवितुं त्वत्कृपां विना ।
न जीवन्तीह जलजा जलं त्यक्त्वा जलग्रहाः ॥ 73 ॥
यथा हि पुत्रवात्सल्याज्जननी प्रस्नुतस्तनी ।
वत्सं त्वरितमागत्य सम्प्रीणयति वत्सला ॥ 74 ॥
यदि स्यां तव पुत्रोऽहं माता त्वं यदि मामकी ।
दयापयोधरस्तन्यसुधाभिरभिषिञ्च माम् ॥ 75 ॥
मृग्यो न गुणलेशोऽपि मयि दोषैकमन्दिरे ।
पांसूनां वृष्टिबिन्दूनां दोषाणां च न मे मतिः ॥ 76 ॥
पापिनामहमेवाग्र्यो दयालूनां त्वमग्रणीः ।
दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ॥ 77 ॥
विधिनाहं न सृष्टश्चेन्न स्यात्तव दयालुता ।
आमयो वा न सृष्टश्चेदौषधस्य वृथोदयः ॥ 78 ॥
कृपा मदग्रजा किं ते अहं किं वा तदग्रजः ।
विचार्य देहि मे वित्तं तव देवि दयानिधे ॥ 79 ॥
माता पिता त्वं गुरुसद्गतिः श्री स्त्वमेव सञ्जीवनहेतुभूता ।
अन्यं न मन्ये जगदेकनाथे त्वमेव सर्वं मम देवि सत्ये ॥ 80 ॥
आद्यादिलक्ष्मीर्भव सुप्रसन्ना विशुद्धविज्ञानसुखैकदोग्ध्री ।
अज्ञानहन्त्री त्रिगुणातिरिक्ता प्रज्ञाननेत्री भव सुप्रसन्ना ॥ 81 ॥
अशेषवाग्जाड्यमलापहन्त्री नवं नवं स्पष्टसुवाक्प्रदायिनी ।
ममेह जिह्वाग्र सुरङ्गनर्तकी [नर्तिनी] भव प्रसन्ना वदने च मे श्रीः ॥ 82 ॥
समस्तसम्पत्सुविराजमाना समस्ततेजश्चयभासमाना ।
विष्णुप्रिये त्वं भव दीप्यमाना वाग्देवता मे नयने प्रसन्ना ॥ 83 ॥
सर्वप्रदर्शे सकलार्थदे त्वं प्रभासुलावण्यदयाप्रदोग्ध्री ।
सुवर्णदे त्वं सुमुखी भव श्री र्हिरण्मयी मे नयने प्रसन्ना ॥ 84 ॥
सर्वार्थदा सर्वजगत्प्रसूतिः सर्वेश्वरी सर्वभयापहन्त्री ।
सर्वोन्नता त्वं सुमुखी भव श्री र्हिरण्मयी मे नयने प्रसन्ना ॥ 85 ॥
समस्तविघ्नौघविनाशकारिणी समस्तभक्तोद्धरणे विचक्षणा ।
अनन्तसौभाग्यसुखप्रदायिनी हिरण्मयी मे नयने प्रसन्ना ॥ 86 ॥
देवि प्रसीद दयनीयतमाय मह्यं देवाधिनाथभवदेवगणाभिवन्द्ये ।
मातस्तथैव भव सन्निहिता दृशोर्मे पत्या समं मम मुखे भव सुप्रसन्ना ॥ 87 ॥
मा वत्स भैरभयदानकरोऽर्पितस्ते मौलौ ममेति मयि दीनदयानुकम्पे ।
मातः समर्पय मुदा करुणाकटाक्षं माङ्गल्यबीजमिह नः सृज जन्म मातः ॥ 88 ॥
कटाक्ष इह कामधुक्तव मनस्तु चिन्तामणिः करः सुरतरुः सदा नवनिधिस्त्वमेवेन्दिरे ।
भवे तव दयारसो मम रसायनं चान्वहं मुखं तव कलानिधिर्विविधवाञ्छितार्थप्रदम् ॥ 89 ॥
यथा रसस्पर्शनतोऽयसोऽपि सुवर्णता स्यात्कमले तथा ते ।
कटाक्षसंस्पर्शनतो जनाना ममङ्गलानामपि मङ्गलत्वम् ॥ 90 ॥
देहीति नास्तीति वचः प्रवेशा द्भीतो रमे त्वां शरणं प्रपद्ये ।
अतः सदाऽस्मिन्नभयप्रदा त्वं सहैव पत्या मयि सन्निधेहि ॥ 91 ॥
कल्पद्रुमेण मणिना सहिता सुरम्या श्रीस्ते कला मयि रसेन रसायनेन ।
आस्तां यतो मम शिरःकरदृष्टिपाद स्पृष्टाः सुवर्णवपुषः स्थिरजङ्गमाः स्युः ॥ 92 ॥
आद्यादिविष्णोः स्थिरधर्मपत्नी त्वमेव पत्या मयि सन्निधेहि ।
आद्यादिलक्ष्मि त्वदनुग्रहेण पदे पदे मे निधिदर्शनं स्यात् ॥ 93 ॥
आद्यादिलक्ष्मीहृदयं पठेद्यः स राज्यलक्ष्मीमचलां तनोति ।
महादरिद्रोऽपि भवेद्धनाढ्य -स्तदन्वये श्रीः स्थिरतां प्रयाति ॥ 94 ॥
यस्य स्मरणमात्रेण तुष्टा स्याद्विष्णुवल्लभा ।
तस्याभीष्टं ददत्याशु तं पालयति पुत्रवत् ॥ 95 ॥
इदं रहस्यं हृदयं सर्वकामफलप्रदम् ।
जपः पञ्चसहस्रं तु पुरश्चरणमुच्यते ॥ 96 ॥
त्रिकालमेककालं वा नरो भक्तिसमन्वितः ।
यः पठेच्छृणुयाद्वापि स याति परमां श्रियम् ॥ 97 ॥
महालक्ष्मीं समुद्दिश्य निशि भार्गववासरे ।
इदं श्रीहृदयं जप्त्वा पञ्चवारं धनी भवेत् ॥ 98 ॥
अनेन हृदयेनान्नं गर्भिण्या अभिमन्त्रितम् ।
ददाति तत्कुले पुत्रो जायते श्रीपतिः स्वयम् ॥ 99 ॥
नरेण वाऽथवा नार्या लक्ष्मीहृदयमन्त्रिते ।
जले पीते च तद्वंशे मन्दभाग्यो न जायते ॥ 100 ॥
य आश्विने मासि च शुक्लपक्षे रमोत्सवे सन्निहिते सुभक्त्या ।
पठेत्तथैकोत्तरवारवृद्ध्या लभेत्स सौवर्णमयीं सुवृष्टिम् ॥ 101 ॥
य एकभक्तोऽन्वहमेकवर्षं विशुद्धधीः सप्ततिवारजापी ।
स मन्दभाग्योऽपि रमाकटाक्षा -द्भवेत्सहस्राक्षशताधिकश्रीः ॥ 102 ॥
श्रीशाङ्घ्रिभक्तिं हरिदासदास्यं प्रसन्नमन्त्रार्थदृढैकनिष्ठाम् ।
गुरोः स्मृतिं निर्मलबोधबुद्धिं प्रदेहि मातः परमं पदं श्रीः ॥ 103 ॥
पृथ्वीपतित्वं पुरुषोत्तमत्वं विभूतिवासं विविधार्थसिद्धिम् ।
सम्पूर्णकीर्तिं बहुवर्षभोगं प्रदेहि मे लक्ष्मि पुनः पुनस्त्वम् ॥ 104 ॥
वादार्थसिद्धिं बहुलोकवश्यं वयः स्थिरत्वं ललनासुभोगम् ।
पौत्रादिलब्धिं सकलार्थसिद्धिं प्रदेहि मे भार्गवि जन्मजन्मनि ॥ 105 ॥
सुवर्णवृद्धिं कुरु मे गृहे श्रीः सुधान्यवृद्धिं कुरू मे गृहे श्रीः ।
कल्याणवृद्धिं कुरु मे गृहे श्रीःविभूतिवृद्धिं कुरु मे गृहे श्रीः ॥ 106 ॥
ध्यायेल्लक्ष्मीं प्रहसितमुखीं कोटिबालार्कभासां विद्युद्वर्णाम्बरवरधरां भूषणाढ्यां सुशोभाम् ।
बीजापूरं सरसिजयुगं बिभ्रतीं स्वर्णपात्रं भर्त्रायुक्तां मुहुरभयदां मह्यमप्यच्युतश्रीः ॥ 107 ॥
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि स्थिता ॥ 108 ॥
इति श्रीअथर्वणरहस्ये श्रीलक्ष्मीहृदयस्तोत्रं सम्पूर्णम् ॥
श्री लक्ष्मी हृदय स्तोत्र के कई फ़ायदे माने जाते हैं : -
- यह स्तोत्र ऋण, वित्तीय चुनौतियों, और बाधाओं को दूर करता है !
- यह स्तोत्र देवी लक्ष्मी की कृपा और आशीर्वाद मांगता है !
- यह स्तोत्र परमात्मा के साथ संबंध बनाता है और आशीर्वाद, स्वर्गीय सुरक्षा, और आध्यात्मिक उत्थान के लिए द्वार खोलता है !
- यह स्तोत्र बाहरी प्रचुरता लाने के साथ-साथ आंतरिक परिवर्तन को भी बढ़ावा देता है !
- इस स्तोत्र के पाठ से व्यक्ति की दरिद्रता दूर होती है !
- इस स्तोत्र के पाठ से घर में बरकत आती है !
- इस स्तोत्र के पाठ से घर में धन-धान्य आता है !
- इस स्तोत्र के पाठ के बाद देवी लक्ष्मी हमेशा अंग-संग बनी रहती है !
- इस स्तोत्र के पाठ के बाद कुंवारी कन्या को धन दान करने से इस पाठ का असर और भी जल्दी होता है !
टिप्पणियाँ