श्री केतु कवच - Shri Ketu Kavach

श्री केतु कवच - Shri Ketu Kavach

केतु कवच केतु ग्रहों के प्रभाव को शांत करने और जीवन को सुखी, समृद्ध बनाने में मदद करता है। इसे धारण करने से व्यक्ति अध्यात्म का अभ्यास करने लगता है और इस प्रकार आंतरिक शांति, अच्छा स्वास्थ्य, धन और सर्वांगीण सुख प्राप्त करता है।

श्री केतु कवच - Shri Ketu Kavach

श्री केतु कवच - Shri Ketu Kavach

ओं अस्य श्रीकेतुकवचस्तोत्रमहामन्त्रस्य पुरन्दर ऋषिः । अनुष्टुप्छन्दः । केतुर्देवता । कं बीजं । नमः शक्तिः । केतुरिति कीलकम् । मम केतुकृत पीडा निवारणार्थे सर्वरोगनिवारणार्थे सर्वशत्रुविनाशनार्थे सर्व कार्य सिद्ध्यर्थे केतुप्रसादसिद्ध्यर्थे जपे विनियोगः ।

ध्यानम् 

धूम्रवर्णं ध्वजाकारं द्विभुजं वरदांगदम्
चित्राम्बरधरं केतुं चित्रगन्धानुलेपनम् ।

वैडूर्याभरणं चैव वैडूर्य मकुटं फणिम्
चित्रंकफाधिकरसं मेरुं चैवाप्रदक्षिणम् ॥

केतुं करालवदनं चित्रवर्णं किरीटिनम् ।
प्रणमामि सदा देवं ध्वजाकारं ग्रहेश्वरम् ॥ १ ॥

कवच

चित्रवर्णः शिरः पातु फालं मे धूम्रवर्णकः ।
पातु नेत्रे पिङ्गलाक्षः श्रुती मे रक्तलोचनः ॥ २ ॥

घ्राणं पातु सुवर्णाभो द्विभुजं सिंहिकासुतः ।
पातु कण्ठं च मे केतुः स्कन्धौ पातु ग्रहाधिपः ॥ ३ ॥

बाहू पातु सुरश्रेष्ठः कुक्षिं पातु महोरगः ।
सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥ ४ ॥

ऊरू पातु महाशीर्षो जानुनी च प्रकोपनः ।
पातु पादौ च मे रौद्रः सर्वाङ्गं रविमर्दकः ॥ ५ ॥

इदं च कवचं दिव्यं सर्वरोगविनाशनम् ।
सर्वदुःखविनाशं च सत्यमेतन्नसंशयः ॥ ६ ॥

इति पद्मपुराणे केतु कवचम् ।

ये भी पढ़ें

मंगल कवच ]   [ गुरु - बृहस्पति कवच ] [ श्री बुध स्तोत्रम् ] [ श्री शनि वज्रपंजर कवच ] [ श्री राहु कवचम ] 

नवग्रह कवच ] [ नवग्रह स्तोत्रम् ]  [ श्री केतु कवच ]  [ ऋण मोचक मंगल स्तोत्र ]  [ श्री केतु स्तोत्र ]

बृहस्पति अष्टोत्तर शतनामावली - बृहस्पति के 108 नाम ]  गुरु - बृहस्पति चालीसा ]  

गुरु - बृहस्पति स्तोत्र ]  श्री केतु अष्टोत्तरशतनामावली - केतु के 108 नाम  ]

टिप्पणियाँ