महागणपतिस्तोत्रम् ! Maha Ganapathi Stotram
महा गणपति स्तोत्रम् ! Maha Ganapathi Stotram |
महा गणपति स्तोत्रम् ! Maha Ganapathi Stotram
योगं योगविदां विधूत-विविध व्यासङ्ग-शुद्धाशय-
प्रादुर्भूत - सुधारस प्रसृमर ध्यानास्पदाध्यासिनाम् ।
आनन्दप्लवमान बोधमधुरा ऽऽमोदच्छटामेदुरं
तं भूमानमुपास्महे परिणतं दन्तावलास्यात्मना ॥१॥
तारश्री-परशक्तिकामरसुधा-रूपानुगं यं विदु-
स्तस्मै स्यात् प्रणतिर्गुणाधिपतये यो रागिणाऽभ्यर्थ्यते ।
'आमन्य प्रथमं वरेति वरदेत्यार्तेन सर्वं जनं स्वामिन्
मे वशमानयेति सततं स्वाहादिभिः पूजितः ॥२॥
कल्लोलाञ्चल चुम्बिताम्बुद - तताविक्षुद्रवाम्भोनिधौ
द्वीपे रत्नमये सुरद्रुमवनामोदैकमेदस्विनि ।
मूले कल्पतरोर्महामणिमये पीठेऽक्षराम्भोरुहे
षट्कोणाकलित त्रिकोणरचना सत्कीर्णकेऽमुं भजे ॥३॥
चक्रपास रसाल कार्मुक गदा सद्बीजपूरद्विज-
ब्रीह्यग्रोत्पल पाशपङ्कजकरं शुण्डाग्रजाग्रद्घटम् ।
आश्लिष्टं प्रियया सरोजकरया रत्नस्फुरद् भूषया
माणिक्यप्रतिमं महागणपतिं विश्वेशमाशास्महे ॥४॥
दानाम्भः परिमेदुर प्रसमर व्यालम्बिरोलम्लभृत्
सिन्दूरारुण- गण्डमण्डलयुग व्याजात् प्रशस्तिद्वयम् ।
त्रैलोक्येष्ट-विधानवर्णसुभगं यः पद्मरागोपमं
धत्ते स श्रियमातनोतु सततं देवो गणानां पतिः ॥५॥
भ्राम्यन् मन्दरघूर्णनापरवश क्षीराब्धिवीचिच्छटा-
सच्छायाश्चल चामर व्यतिकर श्रीगर्वसर्वङ्कषाः ।
दिक्कान्ताघन सारचन्दनरसा साराश्रयान्तां मनः
स्वच्छन्दप्रसर प्रलिप्तवियतो हेरम्बदन्तत्विषः ॥६॥
मुक्ताजालकरम्बित प्रविकसन् - माणिक्यपुञ्जच्छटा-
कान्ताः कम्बुकदम्ब चुम्बितघनाम्भोज प्रवालोपमाः ।
ज्योत्स्नापूर तरङ्ग मन्थरतरत् सन्ध्यावयस्याश्चिरं
हेरम्बस्य जयन्ति दन्तकिरणाकीर्णाः शरीरत्विषः ॥७॥
शुण्डाग्राकलितेन हेमकलशेनावर्जितेन क्षरन्
नानारत्नचयेन साधकजनान् सम्भावयन् कोटिशः ।
दानामोद - विनोदलुब्ध मधुप प्रोत्सारणाविर्भवत्
कर्णान्दोलनखेलनो विजयते देवो गणग्रामणीः ॥८॥
हेरम्बं प्रणमामि यस्य पुरतः शाण्डिल्यमूले श्रिया
बिभ्रत्याम्बुरुहे समं मधुरिपुस्ते शङ्खचक्रे वहन् ।
न्यग्रोधस्य तले सहाद्रिसुतया शम्भुस्तथा दक्षिणे
बिभ्राणः परशुं त्रिशूलमितया देव्या धरण्या सह ॥९॥
पश्चात् पिप्पलमाश्रितो रतिपतिर्देवस्य रत्योत्पले
बिभ्रत्या सममैक्षवं धनुरिपून् पौष्यान् वहन् पञ्च च।
वामे चक्रगदाधरः स भगवान् क्रीडः प्रियङ्गोस्तले
हस्तोद्यच्छकशालिमञ्जरिकया देव्या धरण्या सह ॥१०॥
षट्कोणाश्रिषु षट्सु खड्गजमुखाः पाशाङ्कुशाभीवरान्
बिभ्राणाः प्रमदासखाः पृथुमहाशोणाश्म-पुञ्जत्विषः ।
आमोदः पुरतः प्रमोदसुमुखौ तं चाऽभिष्टतो दुर्मुखः
पश्चात् पार्श्वगतोऽस्य विघ्न इति यो यो विघ्नकर्तेति च ॥११॥
आमोदादिगणेश्वर प्रियतमास्तत्रैव नित्यं स्थिताः
कान्ताश्लेषरसज्ञ मन्थरदृशः सिद्धिः समृद्धिस्ततः ।
कान्तिर्या मदनावतीत्यपि तथा कल्पेषु या गीयते
साऽन्या याऽपि मदद्रवा तदपरा द्राविण्यतः पूजिताः ॥१२॥
आश्लिष्टौ वसुधेत्यथो वसुमती ताभ्यां सितालोहितौ
वर्षन्तौ वसुपार्श्वयोर्विलसतस्तौ शङ्खपद्मौ निधी।
अङ्गान्यत्वथ मातरश्च परितः शुक्रादयोऽब्जाश्रया-
स्तद्बाह्ये कुलिशादयः परिपतत्कालानलज्योतिषः ॥१३॥
इत्थं विष्णु-शिवादि-तत्त्वतनवे श्रीवक्रतुण्डाय हूं-
काराक्षिप्त - समस्तदैत्य पृतनाव्राताय दीप्तत्विषे ।
आनन्दैक रसावबोधलहरी विध्वस्तसर्वोर्मये सर्वत्र
प्रथमानमुग्धमहसे तस्मै परस्मै नमः ॥१४॥
सेवाहेवाकिदेवा - सुरनरनिकर स्फार कोटीर -
कोटी- कोटिव्याटीकमान द्युमणिसममणि -
श्रेणिभावेणिकानाम् । राजन्नीराजनश्रीमुखचरणनख
द्योतविद्योतमानः श्रेयः स्थेयः स देयान् मम विमलदृशोबन्धुर-सिन्धुरास्यः ॥१५॥
एतेन प्रकटरहस्यमन्त्रमाला-गर्भेण स्फुटतरसंविदा स्तवेन ।
यः स्तौति प्रचुरतरं महागणेशं तस्येयं भवति वशंवदा त्रिलोकी ॥१६॥
इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीराघवचैतन्यविरचितंमहागणपतिस्तोत्रं समाप्तम् ॥
ये भी पढ़ें:-
[ श्री गणपति स्तव ] [ गणेश कवच ] [ गणेशाष्टकम् ] [ सङ्कष्टनाशनं गणेश स्तोत्र ] [ गणेश अष्टकं ]
[ श्री गणेश अष्टकम ] [ संकट हरण अष्टकम गणेश स्तोत्र ] [ गजानन स्तोत्र शङ्करादिकृत ]
[ देवर्षि कृतं - गजानन स्तोत्र ] [ गजानन स्तोत्र ] [ श्री विनायक विनति ] [ गणपति स्तोत्र ]
[ गणेश मानस पूजा ] [ श्री गणेश बाह्य पूजा ] [ संकष्टनाशनं गणेशस्तोत्रं ] [ श्रीगणेशमहिम्नः स्तोत्रम् ]
[ गणेश अष्टोत्तर शतनाम स्तोत्रम् ] [ गणेश सहस्रनाम स्तोत्र ] [ एकदंत गणेश स्तोत्र ]
[ महा गणपति स्तोत्रम् ] [ गणेश स्तवराज ] [ ढुंढिराजभुजंगप्रयात स्तोत्रम् ]
टिप्पणियाँ