गणेश सहस्रनाम स्तोत्र !
- इस स्तोत्र के नियमित पाठ से जातक के सभी कष्ट दूर होते हैं और शांति मिलती है.
- इससे जीवन से सभी प्रकार की बुराइयां दूर होती हैं.
- स्वास्थ्य लाभ के साथ धन की वृद्धि होती है.
- मनुष्य भयमुक्त होता है.
- मनवांछित फल की प्राप्ति होती है.
- विद्यार्थी को विद्या और धन की कामना रखने वालों को धन और पुत्र की कामना रखने वालों को पुत्र की प्राप्ति होती है.
- एक साल तक नियमित पाठ करने से मनुष्य सिद्धि को प्राप्त कर लेता है.
गणेश सहस्रनाम स्तोत्र ! Ganesh Sahasranama Stotram |
गणेशसहस्त्रनामस्तोत्रम् ! Ganesh Sahasranama Stotram
व्यास उवाच
कथं नाम्नां सहस्त्रं स्वं गणेश उपदिष्टवान्
शिवायैतन्ममाचक्ष्व लोकानुग्रहतत्पर ।॥१॥
ब्रह्मोवाच
देव एवं पुरारातिः पुरत्रय-जयोद्यमे ।
अनर्चनाद् गणेशस्य जातो विघ्नकुलः किल ॥२॥
मनसा स विनिर्धार्य ततस्तद्विघ्नकारणम् ।
महागणपतिं भक्त्या समभ्यर्च्य यथाविधि ॥३॥
विघ्न प्रशमनोपायमपृच्छदपराजितः ।
सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम् ॥४॥
सर्वविघ्नैकहरणं सर्वकामफलप्रदम् ।
ततस्तस्मै स्वकं नाम्नां सहस्त्रमिदमब्रवीत् ॥५॥
ॐ अस्य श्रीमहागणपति-सहस्त्रनामस्तोत्र-मन्त्रस्य महागणपतिऋषिः, अनुष्टुप्छन्दः, महागणपतिर्देवता, गं बीजम्, हुं शक्तिः, स्वाहा कीलकम्, चतुर्विधपुरुषार्थ-सिद्धयर्थे जपादौ विनियोगः ।
न्यासः- ॐ गां अङ्गुष्ठाभ्यां नमः, हृदयाय नमः । ॐ गीं तर्जनीभ्यां नमः, शिरसे स्वाहा। ॐ गूं मध्यमाभ्यां नमः, शिखायै वषट् । ॐ गैं अनामिकाभ्यां नमः, कवचाय हूं। ॐ गौं कनिष्ठिकाभ्यां नमः, नेत्रत्रयाय वौषट् । ॐ गः करतलकरपृष्ठाभ्यां नमः, अस्त्राय फट् । इति न्यासः ।
ध्यानम्-
पञ्चवक्त्रो दशभुजो भालचन्द्रः शशिप्रभः । मुण्डमालः सर्पभूषो मुकुटाङ्गदभूषणः ॥ अग्न्यर्क-शशिनो भाभिस्तिरस्कुर्वन् दशायुधः ॥ मानसोपचारैः सम्पूज्य, लं पृथिव्यात्मकं गन्धं कल्पयामि नमः, इत्यादि ।
श्रीमहागणपतिरुवाच
ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ।
एकदंष्ट्रो वक्रतुण्डो गजवक्त्रो महोदरः ॥१॥
लम्बोदरो धूम्रवर्णो विक़टो विघ्ननायकः ।
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ॥२॥
भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः ।
हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः ॥३॥
नन्दनो ऽलम्पटोऽभीरुर्मेघनादो गणञ्जयः ।
विनायको विरूपाक्षो धीरशूरो वरप्रदः ॥४॥
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ।
रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ॥५॥
कुमारगुरुरीशानपुत्रो मूषकवाहनः ।
सिद्धिप्रियः सिद्धिपतिः सिद्धिः सिद्धिविनायकः ॥६॥
अविघ्नस्तुम्बुरुः सिहवाहनो मोहिनीप्रियः ।
कटङ्कटो राजपुत्रः शालकः सम्मितोऽमितः ॥७॥
कूष्माण्ड-साम-सम्भूतिर्दुर्जयो धूर्जयो जयः ।
भूपतिर्भुवपनपतिर्भूतानां पतिरव्ययः ॥८॥
विश्वकर्ता विश्वमुखो विश्वरूपो निधिघृणिः ।
कविः कवीनामृषभो ब्रह्मणां ब्रह्मणस्पतिः ॥९॥
ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः ।
हिरण्मय पुरान्तस्थः सूर्यमण्डलमध्यगः ॥१०॥
कराहति - ध्वस्त सिन्धु सलिलः पूषदन्तभित् ।
उमाङ्ककेलि-कुतुकी मुक्तिदः कुलपालनः ॥११॥
किरीटी कुण्डली हारी वनमाली मनोमयः ।
वैमुख्यहत दैत्यश्रीः पादाहति जितक्षितिः ॥१२॥
सद्योजात-स्वर्णमुञ्ज - मेखली दुर्निमित्तहृत् ।
दुःस्वप्नहृत्प्रहसनो गुणी नादप्रतिष्ठितः ॥१३॥
सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः ।
पीताम्बरः खण्डरदः खण्डेन्दुकृतशेखरः ॥१४॥
चित्राङ्क-श्यामदशनो भालचन्द्रश्चतुर्भुजः ।
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥१५॥
गणाधिराजो विजयस्थिरो गजपतिध्वजी ।
देवदेवः स्मरप्राण-दीपको वायुकीलकः ॥१६॥
विपश्चिद्वरदो नादोन्नद भिन्न बलाहकः ।
वराहरदनो मृत्युञ्जयो व्याघ्घ्राजिनाम्बरः ॥१७॥
इच्छाशक्तिधरो देवत्राता दैत्यविमर्दनः ।
शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः ॥१८॥
शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः ।
उमाङ्गमलजो गौरीतेजोभूः स्वर्धनीभवः ॥१९॥
कूष्माण्ड-साम-सम्भूतिर्दुर्जयो धूर्जयो जयः ।
भूपतिर्भुवपनपतिर्भूतानां पतिरव्ययः ॥८॥
विश्वकर्ता विश्वमुखो विश्वरूपो निधिघृणिः ।
कविः कवीनामृषभो ब्रह्मणां ब्रह्मणस्पतिः ॥९॥
ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः ।
हिरण्मय पुरान्तस्थः सूर्यमण्डलमध्यगः ॥१०॥
कराहति - ध्वस्त सिन्धु सलिलः पूषदन्तभित् ।
उमाङ्ककेलि-कुतुकी मुक्तिदः कुलपालनः ॥११॥
किरीटी कुण्डली हारी वनमाली मनोमयः ।
वैमुख्यहत दैत्यश्रीः पादाहति जितक्षितिः ॥१२॥
सद्योजात-स्वर्णमुञ्ज - मेखली दुर्निमित्तहृत् ।
दुःस्वप्नहृत्प्रहसनो गुणी नादप्रतिष्ठितः ॥१३॥
सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः ।
पीताम्बरः खण्डरदः खण्डेन्दुकृतशेखरः ॥१४॥
चित्राङ्क-श्यामदशनो भालचन्द्रश्चतुर्भुजः ।
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥१५॥
गणाधिराजो विजयस्थिरो गजपतिध्वजी ।
देवदेवः स्मरप्राण-दीपको वायुकीलकः ॥१६॥
विपश्चिद्वरदो नादोन्नद भिन्न बलाहकः ।
वराहरदनो मृत्युञ्जयो व्याघ्घ्राजिनाम्बरः ॥१७॥
इच्छाशक्तिधरो देवत्राता दैत्यविमर्दनः ।
शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः ॥१८॥
शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः ।
उमाङ्गमलजो गौरीतेजोभूः स्वर्धनीभवः ॥१९॥
यज्ञकायो महानादो गिरिवर्मा शुभाननः ।
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुश्रुतिः ॥२०॥
ब्रह्माण्ड - कुम्भश्चिद्व्योम भालः सत्यशिरोरुहः ।
जगज्जन्म - लयोन्मेष - निमेषो ऽग्न्यर्क सोमदृक् ॥२१॥
गिरीन्द्रैकरदो धर्माऽधर्मोष्ठः सामबृंहितः ।
ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ॥२२॥
कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः ।
नदीनदभुजः सर्पाङ्गुलीकः तारकानखः ॥२३॥
भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोत्कटः ।
व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः ॥२४॥
कुक्षिस्थ यक्ष गन्धर्व रक्ष किन्नर मानुषः ।
पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्त्रजानुकः ॥२५॥
पातालजङ्गो मुनिपात्कालांगुष्ठस्त्रयीतनुः ।
ज्योतिर्मण्डल लांगूलो हृदयालाननिश्चलः ॥२६॥
हृत्पद्म - कर्णिकाशालि वियत्केलि सरोवरः ।
सद्भक्त ध्यान निगडः पूजावारीनिवारितः ॥२७॥
प्रतापी कश्यपसुतो गणपो विष्टपी बली ।
यशस्वी धार्मिकः स्वोजाः प्रथमः प्रथमेश्वरः ॥२८॥
चिन्तामणिद्वीपपतिः कल्पद्रुम वनालयः ।
रत्नमण्डप मध्यस्थो रत्नसिंहासनाश्रयः ॥२९॥
तीव्राशिरोधृतपदो ज्वालिनी-मौलि-लालितः ।
नन्दा-ऽऽनन्दित-पीठश्री भोंगदा-भूषितासनः ॥३०॥
सकाम-दायिनीपीठः स्फुरदुग्रासनाश्रयः ।
तेजोवतीशिरोरत्नं सत्यनित्यावतंसितः ॥३१॥
सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजाश्रयः ।
लिपिपद्मासनाधारो वह्निधामत्रयाश्रयः ॥३२॥
उन्नतप्रपदो गूढगुल्फः संवृत्तपाष्णिकः ।
पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ॥३३॥
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ।
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ॥३४॥
भग्नवाम - रदस्तुङ्ग सव्यदन्तो महाहनुः ।
ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिड-मस्तकः ॥३५॥
स्तबकाकार - कुम्भाग्रो रत्नमौलिर्निरंकुशः ।
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ॥३६॥
सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः ।
सर्पकक्ष्योदराबन्धः सर्पराजोत्तरीयकः ॥३७॥
रक्तो रक्ताम्बरधरो रक्तमाल्यविभूषणः ।
रक्तेक्षणो रक्तकरो रक्तताल्वोष्ठपल्लवः ॥३८॥
श्वेतः श्वेताम्बरधरः श्वेतमाल्यविभूषणः ।
श्वेतातपत्ररुचिरः श्वेतचामरबीजितः ॥३९॥
सर्वावयव सम्पूर्ण सर्वलक्षण लक्षितः ।
सर्वाभरण शोभाढ्यः सर्वशोभा समन्वितः ॥४०॥
सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् ।
सर्वदैककरः शाङ्ग बीजापुरी गदाधरः ॥४१॥
इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् ।
पाशी धृतोत्पलः शाली मञ्जरीभृत् स्वदन्तभृत् ॥४२॥
कल्पवल्लीधरो विश्वाभयदैककरो वशी ।
अक्षमालाधरो ज्ञान-मुद्रावान् मुद्गरायुधः ॥४३॥
पूर्णपात्री कम्बुधरो विधृतालिसमुद्गतः ।
मातुलिङ्गन्धर श्चूत कलिकाभृत् कुठारवान् ॥४४॥
पुष्करस्थ स्वर्णघटी पूर्णरत्नाभिवर्षकः ।
भारतीसुन्दरीनाथो विनायक रतिप्रियः ॥४५॥
महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः ।
रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः ॥४६॥
महावराहवामाङ्गो रतिकन्दर्पपश्चिमः ।
आमोद मोदजननः सप्रमोद प्रमोदनः ॥४७॥
समेधित - समृद्धिश्री ऋद्धि सिद्धि प्रवर्तकः ।
दत्तसौमुख्य सुमुखः कान्तिकन्दलिताश्रयः ॥४८॥
मदनावत्याश्रिताङ्घ्रिः कृतदौर्मुख्यदुर्मुखः ।
विघ्नसम्पल्लवोपघ्नः सेवोन्निद्रमदद्रवः ॥४९॥
विघ्नकृन्निघ्नचरणो द्राविणीशक्तिसत्कृतः ।
तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् ॥५०॥
मोहिनीमोहनो भोगदायिनीकान्तिमण्डितः ।
- कामिनीकान्त वक्त्रश्रीरधिष्ठित वसुन्धरः ॥५१॥
वसुन्धरा मदोन्नद्ध महाशङ्ख निधिप्रभुः ।
नमद्वसुमतीमौलि महापद्मनिधिप्रभुः ॥५२॥
सर्वसद्गुरुसंसेव्यः शोचिष्केश हृदाश्रयः ।
ईशानमूर्धा देवेन्द्रशिखा पवननन्दनः ॥५३॥
अग्र प्रत्यग्र नयनो दिव्यास्त्राणां प्रयोगवित् ।
ऐरावतादि सर्वाशा वारणावरणप्रियः ॥५४॥
वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः ।
जयाऽजयपरीवारो विजया ऽविजयावहः ॥५५॥
अजितार्चित पादाब्जो नित्याऽनित्यावतंसितः । -
विलासिनीकृतोल्लासः शौण्डीसौन्दर्यमण्डितः ॥५६॥
अनन्तानन्तसुखदः सुमङ्गल सुमङ्गलः ।
इच्छाशक्ति- ज्ञानशक्ति क्रियाशक्ति निषेवितः ॥५७॥
सुभगासंश्रितपदो ललिताललिताश्रयः ।
कामिनीकामनः काम मालिनी केलिलालितः ॥५८॥
सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः ।
गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः ॥५९॥
नलिनीकामुको वामारामो ज्येष्ठामनोरमः ।
रौद्रीमुद्रित - पादाब्जो हुम्बीजस्तुण्डशक्तिकः ॥६०॥
विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः ।
अमृताब्धिकृतावासो मदघूर्णितलोचनः ॥६१॥
उच्छिष्टगण उच्छिष्टगणेशो गणनायकः ।
सर्वकालिक संसिद्धि र्नित्यशैवो दिगम्बरः ॥६२॥
अनपायो ऽनन्तदृष्टि - रप्रमेयो ऽजरामरः ।
अनाविलो - ऽप्रतिरथो ऽह्यच्युतो ऽमृतमक्षरम् ॥६३॥
अप्रतक्यों-ऽक्षयो-ऽजय्योऽनाधारो ऽनामयोऽमलः ।
अमोघसिद्धिरद्वैत मघोरो ऽप्रमिताननः ॥६४॥
अनाकरोऽब्धि - भूम्यग्नि बलघ्नो ऽव्यक्तलक्षणः ।
आधारपीठ आधार आधाराधेयवर्जितः ॥६५॥
आखुकेतन आशापूरक आखुमहारथः ।
इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ॥६६॥
इक्षुचापातिरेकश्री रिक्षुचाप निषेवितः ।
इन्द्रगोप समानश्रीरिन्द्रनीलसमद्युतिः ॥६७॥
इन्दीवरदलश्याम इन्दुमण्डलनिर्मलः ।
इध्मप्रिय इडाभाग इराधामेन्दिराप्रियः ॥६८॥
इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः ।
ईशानमौलिरीशान ईशानसुत ईतिहा ॥६९॥
ईशणात्रयकल्पान्त ईहामात्रविवर्जितः ।
उपेन्द्र उडुभृन्मौलिरुण्डेरकबलिप्रियः ॥७०॥
उन्नतानन उत्तुङ्ग उदारत्रिदशाग्रणीः ।
ऊर्जस्वानूष्मलमद ऊहापोह दुरासदः ॥७१॥
ऋग्-यजुः-साम-सम्भूति-ऋद्धि-सिद्धि-प्रदायकः ।
ऋतुचित्तैकसुलभ ऋणत्रयविमोचकः ॥७२॥
लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् ।
लुप्तश्रीर्विमुखार्चानां लूता विस्फोट - नाशनः ॥७३॥
एकारपीठमध्यस्थ एकपादकृतासनः ।
एजिताखिल दैत्यश्रीरेधिताखिल संश्रयः ॥७४॥
ऐश्वर्यनिधिरैश्वर्य मैहिका ऽमुष्मिकप्रदः ।
ऐरम्मद समोन्मेष ऐरावत निभाननः ॥७५॥
ओङ्कारवाच्य ओङ्कार ओजस्वानोषधीपतिः ।
औदार्यनिधिरौद्धत्यधुर्य औन्नत्यनिस्वनः ॥७६॥
अङ्कुशः सुरनागानामङ्कुशः सुरविद्विषाम् ।
अःसमस्त विसर्गान्त पदेषु परिकीर्तितः ॥७७॥
कमण्डलुधरः कल्पः कपर्दी कलभाननः ।
कर्मसाक्षी कर्मकर्ता कर्माऽकर्मफलप्रदः ॥७८॥
कदम्बगोलकाकारः कूष्माण्डगणनायकः ।
कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ॥७९॥
खर्वः खड्गप्रियः खड्ग-खान्तान्तस्थः खनिर्मलः ।
खल्वाटशृङ्गनिलयः खट्वाङ्गी खदुरासदः ॥८०॥
गुणाढ्यो गहनो गस्थो गद्य पद्य सुधार्णवः ।
गद्यगानप्रियो गर्जी गीतगीर्वाणपूर्वजः ॥८१॥
गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः ।
गुहाशयो गुहाब्धिस्थो गुरुगम्यो गुरोर्गुरुः ॥८२॥
घण्टाघर्घरिकामाली घटकुम्भो घटोदरः ।
चण्डश्चण्डेश्वरसुहृच्चण्डीशश्चण्डविक्रमः ॥८३॥
चराऽचरपति श्चिन्तामणि चर्वणलालसः ।
छन्दश्छन्दोवपुश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः ॥८४॥
जगद्योनि-र्जगत्साक्षी जगदीशो जगन्मयः ।
जपो जपपरो जप्यो जिह्वासिंहासनप्रभुः ॥८५॥
झलझलोल्लसद्दान झङ्कारि भ्रमराकुलः ।
टङ्कार स्फार - संरावष्टङ्कारि - मणिनूपुरः ॥८६॥
ठद्वयोपल्लवान्तस्थ सर्वमन्त्रैक सिद्धिदः ।
डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः ॥८७॥
ढक्का-निनाद-मुदितो ढौको ढुण्ढिविनायकः ।
तत्त्वानां परमं तत्त्वं तत्त्वंपद-निरूपितः ॥८८॥
तारकान्तर संस्थान स्तारकस्तारकान्तकः ।
स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत् ॥८९॥
दक्षयज्ञप्रमथनो दाता दानवमोहनः ।
दयावान् दिव्यविभवो दण्डभृद्दण्डनायकः ॥९०॥
दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः ।
दंष्ट्रालग्नद्विपघटो देवार्थनृगजाकृतिः ॥९१॥
धन-धान्यपति-र्धन्यो धनदो धरणीधरः ।
ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः ॥९२॥
नन्द्यो नन्दिप्रियो नादो नादमध्य-प्रतिष्ठितः ।
निष्कलो निर्मलो नित्यो नित्याऽनित्यो निरामयः ॥९३॥
परं व्योम परं धाम परमात्मा परं पदम् ।
परात्परः पशुपतिः पशुपाशविमोचकः ॥९४॥
पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः ।
पद्मप्रसन्ननयनः प्रणताज्ञानमोचनः ॥९५॥
प्रमाण प्रत्ययातीतः प्रणतार्तिनिवारणः ।
फलहस्तः फणिपतिः फेत्कारः फाणितप्रियः ॥९६॥
बाणार्चिताङ्घ्रियुगलो बालकेलि कुतूहली ।
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ॥९७॥
बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्-प्रियः ।
बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ॥९८॥
भ्रूक्षेपदत्त - लक्ष्मीको भर्गो भद्रो भयापहः ।
भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः ॥९९॥
भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः ।
मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तमनोरमः ॥१००॥
मेखलावान् मन्दगतिर्मतिमत्कमलेक्षणः ।
महाबलो महावीर्यो महाप्राणो महामनाः ॥१०१॥
यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः ।
यशस्करो योगगम्यो याज्ञिको याजकप्रियः ॥१०२॥
रसो रसप्रियो रस्यो रञ्जको रावणार्चितः ।
रक्षो रक्षाकरो रत्नगर्भो राज्यसुखप्रदः ॥१०३॥
लक्ष्यं लक्ष्यप्रदो लक्ष्यो लयस्थो लड्डुकप्रियः ।
लानप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ॥१०४॥
वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः ।
विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः ॥१०५॥
वामदेवो विश्वनेता वज्रिवज्रनिवारणः ।
विश्वबन्धन विष्कम्भाधारो विश्वेश्वरप्रभुः ॥१०६॥
शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः ।
शास्ता शिखाग्रनिलयः शरण्यः शिखरीश्वरः ॥१०७॥
षऋतुकुसुमस्त्रग्वी षडाधारः षडक्षरः ।
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ॥१०८॥
सृष्टि - स्थिति लयक्रीडः सुरकुञ्जरभेदनः ।
सिन्दूरित महाकुम्भः सदसयुक्तिदायकः ॥१०९॥
साक्षी समुद्रमथनः स्वसंवेद्यः स्वदक्षिणः ।
स्वतन्त्रः सत्यसङ्कल्पः सामगानरतः सुखी ॥११०॥
हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् ।
हव्यो हुतप्रियो हर्षो हृल्लेखामन्त्रमध्यगः ॥१११॥
क्षेत्राधिपः क्षमाभर्ता क्षमापरपरायणम् ।
क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः ॥११२॥
धर्मप्रदो ऽर्थदः कामदाता सौभाग्यवर्धनः ।
विद्याप्रदो विभवदो भुक्ति-मुक्तिफलप्रदः ॥११३॥
आभिरूप्यकरो वीरश्रीपदो विजयप्रदः ।
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ॥११४॥
मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ।
प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ॥११५॥
पराभिचारशमनो दुःखभञ्जनकारकः ।
लवसृटिः कला काष्ठा निमेषतत्परः क्षणः ॥११६॥
घटी मुहूर्त्तप्रहरी दिवा नक्तमहर्निशम् ।
पक्षो मासोऽयनः वर्षं युगं कल्पो महालयः ॥११७॥
राशिस्तारा तिथिर्योगो वारः करणमंशकम् ।
लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः ॥११८॥
राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः ।
कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं च यत् ॥११९॥
भूरापो-ऽग्नि-र्मरुद्-व्योमा ऽहंकृतिः प्रकृतिः पुमान् ।
ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः ॥१२०॥
त्रिदशाः पितरः सिद्धाः यक्षा रक्षांसि किन्नराः ।
साद्धया विद्याधरा भूता मनुष्या पशवः खगाः ॥१२१॥
समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः ।
साङ्ख्यं पातञ्जलं योगः पुराणानि श्रुतिः स्मृतिः ॥१२२॥
वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः ।
आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् ॥१२३॥
वैखानसं भागवतं सात्वतं पाञ्चरात्रकम् ।
शैवं पाशुपतं कालामुखं भैरवशासनम् ॥१२४॥
शाक्तं वैनायकं सौरं जैनमार्हतसंहिता ।
सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् ॥१२५॥
बन्धो मोक्षः सुखं भोगो योगः सत्यमणुर्महान् ।
स्वस्ति हुंफट् स्वधा स्वाहा श्रौषड्-वौषड्वषण्णमः ॥१२६॥
ज्ञानं विज्ञानमानन्दो बोधः संविच्छमो यमः ।
एक एकाक्षराधार एकाक्षरपरायणः ॥१२७॥
एकाग्रधीरेकवीर एकाऽनेकस्वरूपधृक् ।
द्विरूपो द्विभुजो द्वयक्षो द्विरदो द्विपरक्षकः ॥१२८॥
द्वैमातुरो द्विवदनो द्वन्द्वातीतो द्वयातिगः ।
त्रिधामा त्रिकरस्त्रेता त्रिवर्ग - फलदायकः ॥१२९॥
त्रिगुणात्मा त्रिलोकादि स्त्रिशक्तीश स्त्रिलोचनः।
चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्मुखः ॥१३०॥
चतुर्विधोपायमय श्चतुर्वर्णाश्रमाश्रयः ।
चतुर्विध वचोवृत्ति परिवृत्ति प्रवर्तकः ॥१३१॥
चतुर्थीपूजनप्रीत श्चतुर्थीतिथिसम्भवः ।
पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्यकृत् ॥१३२॥
पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः ।
पतालः पञ्चकरः पञ्चप्रणवभावितः ॥१३३॥
पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः ।
पञ्चभक्ष्यप्रियः पञ्चबाणः पञ्चशिवात्मकः ॥१३४॥
षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः ।
षडध्व-ध्वान्त-विध्वंसी षडङ्गुलमहाहृदः ॥१३५॥
षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः ।
षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः ॥१३६॥
षट्तर्कदूरः षट्कर्मनिरतः षड्रसाश्रयः ।
सप्तपातालचरणः सप्तद्वीपोरुमण्डलः ॥१३७॥
सप्तस्वर्लो कमुकुटः सप्तसप्तिवरप्रदः ।
सप्ताङ्गराज्यसुखदः सप्तर्षिगणमण्डितः ॥१३८॥
सप्तच्छन्दोनिधिः सप्तहोता सप्तस्वराश्रयः ।
सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः ॥१३९॥
सप्तच्छन्दोमोदमदः सप्तच्छन्दोमखप्रभुः ।
अष्टमूर्ति - ध्येयमूर्तिरष्टप्रकृति कारणम् ॥१४०॥
अष्टाङ्गयोगफलभूरष्टपत्राम्बुजासनः !
अष्टशक्ति समृद्धश्रीरष्टैश्वर्य - प्रदायकः ॥१४१॥
अष्टपीठोपपीठश्री रष्टमातृ समावृतः ।
अष्टभैरव सेव्योऽष्ट वसुवन्द्यो ऽष्टमूर्तिभृत् ॥१४२॥
अष्टचक्र स्फुरन्मूर्तिरष्टद्रव्य हविःप्रियः ।
नवनागासनाध्यासी नवनिध्यनुशासिता ॥१४३॥
नवद्वारपुराधारो नवाधारनिकेतनः ।
नवनारायणस्तुत्यो नवदुर्गानिषेवितः ॥१४४॥
नवनाथमहानाथो नवनागविभूषणः ।
नवरत्नविचित्राङ्गो नवशक्तिशिरोद्धृतः ॥१४५॥
दशात्मको दशभुजो दशदिक्पतिवन्दितः ।
दशाध्यायो दशप्राणो दशेन्द्रिय-नियामकः ॥१४६॥
दशाक्षर महामन्त्रो दशाशा व्यापि विग्रहः ।
एकादशादिभी रुद्रैः स्तुत एकादशाक्षरः ॥१४७॥
द्वादशोद्दण्डदोर्दण्डो द्वादशान्तनिकेतनः ।
त्रयोदशभिदाभिन्न विश्वेदेवाधिदैवतम् ॥१४८॥
चतुर्दशेन्द्रवरदश्चतुर्दशमनु प्रभुः ।
चतुर्दशादि विद्याढ्य श्चतुर्दश जगत्प्रभुः ॥१४९॥
सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः ।
षोडशाधारनिलयः षोडशस्वरमातृकः ॥१५०॥
षोडशान्तपदावासः षोडशेन्दुकलात्मकः ।
कलासप्तदशी सप्तदशः सपादशाक्षरः ॥१५१॥
अष्टादशद्वीपपति - रष्टादश पुराणकृत् ।
अष्टादशौषधीसृष्टिरष्टादशविधिस्मृतः ॥१५२॥
अष्टादशलिपिव्यष्टि समष्टि ज्ञान कोविदः ।
एकविंशः पुमानेक विंशत्यङ्गुलि पल्लवः ॥१५३॥
चतुर्विंशति - तत्त्वात्मा पञ्चविंशाख्यपूरुषः ।
सप्तविंशतितारेशः सप्तविंशतियोगकृत् ॥१५४।
द्वात्रिंशद् - भैरवाधीश श्चतुस्त्रिशन्महाहृदः ।
षत्रिंशत्तत्त्वसम्भूतिरष्टात्रिंशत्कलातनुः ॥१५५॥
नमदेकोनपञ्चाशन् मरुद्वर्ग निरर्गलः ।
पञ्चाशदक्षरश्रेणी पञ्चाशद्रुद्रविग्रहः ॥१५६॥
पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः ।
द्विपञ्चाशद्वपुः श्रेणी त्रिषष्ट्यक्षरसंश्रयः ॥१५७॥
चतुःषष्ट्यर्णनिर्णेता चतुःषष्टिकलानिधिः ।
चतुःषष्टिमहासिद्ध - योगिनीवृन्द वन्दितः ॥१५८॥
अष्टषष्टि - महातीर्थ क्षेत्रभैरव भावनः ।
चतुर्नवति - मन्त्रात्मा षण्णवत्यधिकप्रभुः ॥१५९॥
शतानन्दः शतधृतिः शतपत्रायतेक्षणः ।
शतानीकः शतमखः शतधारावरायुधः ॥१६०॥
सहस्त्रपत्रनिलयः सहस्रफणभूषणः ।
सहस्त्रशीर्षापुरुषः सहस्त्राक्षः सहस्त्रपात् ॥१६१॥
सहस्त्रनामसंस्तुत्यः सहस्त्राक्षबलापहः ।
दशसाहस्रफणभृत् फणिराज कृतासनः ॥१६२॥
अष्टाशीतिसहस्त्राद्य महर्षिस्तोत्र यन्त्रितः ।
लक्षाधीशप्रियाधारो लक्षाधारमनोमयः ॥१६३॥
चतुर्लक्षजपप्रीत श्चतुर्लक्ष प्रकाशितः ।
चतुरशीतिलक्षाणां जीवानां देहसंस्थितः ॥१६४॥
कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः ।
शिवाभवाध्युष्टकोटि - विनायक - धुरन्धरः ॥१६५॥
सप्तकोटि महामन्त्र मन्त्रितावयवद्युतिः ।
त्रयस्त्रिशत्कोटिसुर श्रेणिप्रणतपादुकः ॥१६६॥
अनन्त नामानन्तश्रीरनन्ता ऽनन्त सौख्यदः ॐ ।
पुनः ऋष्यादिक-न्यासम् उत्तरन्यासं मानसपूजां च कृत्वा,
इति वैनायकं नाम्नां सहस्त्रमिदमीरितम् ।
इदं ब्राह्मो मुहूर्ते यः पठति प्रत्यहं नरः ॥१॥
करस्थं तस्य सकलमैहिका ऽऽमुष्मिकं सुखम् ।
आयुरारोग्यमैश्वर्यं धैर्यं शौर्य बलं यशः ॥२॥
मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमतिरूपता ।
सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशालिता ॥३॥
जगत्संयमनं विश्वसंवादो वादपाटवम् ।
सभापाण्डित्यमौदार्य गाम्भीर्यं ब्रह्मवर्चसम् ॥४॥
औन्नत्यं च कुलं शीलं प्रतापो वीर्यमार्यता ।
ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वातिशायिता ॥५॥
धन-धान्या-ऽभिवृद्धिश्च सकृदस्य जपाद् भवेत् ।
वश्यं चतुर्विधं नृणां जपादस्य प्रजायते ॥७॥
धर्माऽर्थ काम - मोक्षाणामनायासेन साधनम् ।
शाकिनी-डाकिनी रक्षो यक्षोरग भयापहम् ॥८॥
साम्राज्यसुखदं चैव समस्त-रिपुमर्दनम् ।
समस्त कलहध्वंसि दग्धबीज प्ररोहणम् ॥९॥
दुःस्वप्ननाशनं क्रुद्धस्वामि चित्त प्रसादनम् ।
षट्कर्माऽष्ट - महासिद्धि त्रिकालज्ञान साधनम् ॥१०॥
परकृत्याप्रशमनं परचक्र विमर्दनम् ।
सङ्ग्रामरङ्गे सर्वेषामिदमेकं जयावहम् ॥११॥
सर्ववन्ध्यात्वदोषघ्नं गर्भरक्षैककारणम् ।
पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् ॥१२॥
देशे तत्र न दुर्भिक्षमीतयो दुरितानि च।
न तद्गृहं जहाति श्रीर्यत्राऽयं पठ्यते स्तवः ॥१३॥
क्षय - कुष्ठ - प्रमेहार्श भगन्दर विसूचिकाः ।
गुल्मं प्लीहानमश्मानमतिसारं महोदरम् ॥१४॥
कासं श्वासं गुदावर्त शूलं शोफादिसम्भवम् ।
शिरोरोगं वर्मि हिक्कां गण्डमालामरोचकम् ॥१५॥
वात-पित्त-कफ-द्वन्द्व-त्रिदोष-जनित-ज्वरम्
आगन्तुविषमं शीतमुष्णं चैकाहिकादिकम् ॥१६॥
इत्याद्युक्तमनुक्तं वा रोग दोषादि - - सम्भवम् ।
सर्वं प्रशमयत्याशु स्तोत्रस्याऽस्य सकृज्जपः ॥१७॥
सकृत्पाठेन संसिद्धः स्त्री-शूद्र-पतितैरपि ।
सहस्त्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये ॥१८॥
महागणपतेः स्तोत्रं सकामः - प्रजपन्निदम् ।
इच्छया सकलान् भोगाननुभूयेह पार्थिवान् ॥१९॥
मनोरथफलै र्दिव्यै व्र्योमयानै र्मनोरमैः ।
चन्द्रेन्द्र - भास्करोपेन्द्र - ब्रह्मा शर्वादि सद्मसु ॥२०॥
कामरूपः कामगतिः कामतो विचरन्निह ।
भुक्त्वा यथेप्सितान् भोगानभीष्टान् सहबन्धुभिः ॥२१॥
गणेशानुचरो भूत्वा महागणपतेः प्रियः ।
नन्दीश्वरादि सानन्दी नन्दितः सकलैर्गणैः ॥२२॥
शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः ।
शिवभक्तः पूर्णकामो गणेश्वरवरात् पुनः ॥२३॥
जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते ।
निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः ॥२४॥
योगसिद्धिं परां प्राप्य ज्ञान-वैराग्य-संस्थितः ।
निरन्तरोदितानन्दे परमानन्दसंविदि ॥२५॥
विश्वोत्तीर्णे परेपारे पुनरावृत्तिवर्जिते ।
लीनो वैनायके धाम्नि रमते नित्यनिर्वृतः ॥२६॥
यो नामभिहुनेदेतैरर्चयेत् पूजयेन्नरः ।
राजानो वश्यतां यान्ति रिपवो यान्ति दासताम् ॥२७॥
मन्त्राः सिध्यन्ति सर्वेऽपि सुलभास्तस्य सिद्धयः ।
मूलमन्त्रादपि स्तोत्रमिदं प्रियतरं मम ॥२८॥
नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि ।
दूर्वाभिर्नामभिः पूजा तर्पणं विधिवच्चरेत् ॥२९॥
अष्टद्रव्यैर्विशेषेण जुहुयाद् भक्तिसंयुतः ।
तस्येप्सितानि सर्वाणि सिध्यन्त्यत्र न संशयः ॥३०॥
इदं प्रजप्तं पठितं पाठितं श्रावितं श्रुतम् ॥३१॥
व्याकृतं चर्चितं ध्यातं विसृष्टमभिनन्दितम् ।
इहाऽमुत्र च सर्वेषां विश्वैश्वर्यं प्रदायकम् ॥३२॥
स्वच्छन्दचारिणाऽप्येष येनाऽयं धार्यते स्तवः ।
स रक्ष्यते शिवोद्भूतैर्गणैरध्युष्टकोटिभिः ॥३३॥
पुस्तके लिखितं यत्र गृहे स्तोत्रं प्रपूजयेत् ।
तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम् ॥३४॥
दानैरशेषैर खिलैव्रतैश्च तीर्थैरशेषैरखिलैर्मखैश्च ।
न तत्फलं विन्दति यद् गणेश-सहस्त्रनाम्नां स्मरणेन सद्यः ॥३५॥
एतन्नाम्नां सहस्त्रं पठति दिनमणौ प्रत्यहं प्रोज्जिहाने
सायं मध्यंदिने वा त्रिषवणमथवा सन्ततं वा जनो यः ।
स स्यादैश्वर्यधुर्यः प्रभवति च सतां कीर्तिमुच्चैस्तनोति
प्रत्यूहं हन्ति विश्वं वशयति सुचिरं वर्धते पुत्र-पौत्रैः ॥३६॥
अकिञ्चनो ऽपि मत्प्राप्तिश्चिन्तको नियताशनः ।
जपेत्तु चतुरो मासान् गणेशार्चनतत्परः ॥३७॥
दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि ।
लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी ॥३८॥
आयुष्यं वीतरोगं कुलमतिविमलं सम्पदश्चार्तदानाः
कीर्तिर्नित्यावदाता भणितिरभिनवाकान्तिरव्याधिभव्या ।
पुत्राः सन्तः कलत्रं गुणवदभिमतं यद्यदेतच्च सत्यं नित्यं यः
स्तोत्रमेतत् पठति गणपतेस्तस्य हस्ते समस्तम् ॥३९॥
ॐ गणञ्जयो गणपतिर्हेरम्बो धरणीधरः ।
महागणपतिर्लक्षप्रदः क्षिप्रप्रसादनः ॥४०॥
अमोघसिद्धिरमृतो मन्त्रश्चिन्तामणिर्निधिः ।
सुमङ्गलो बीजमाशापूरको वरदः शिवः ॥४१॥
काश्यपो नन्दनो वाचासिद्धो ढुण्ढिविनायकः ।
मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ॥४२॥
यः स्तौति मद्गतमनो मदाराधनतत्परः ।
स्तुतो नाम्नां सहस्त्रेण तेनाऽहं नाऽत्र संशयः ॥४३॥
नमो नमः सुरवर - पूजिताङ्ङ्ग्रये नमो नमो निरुपममङ्गलात्मने ।
नमो नमो विपुलपदैकसिद्धये नमो नमः करिकलभाननाय ते ॥४४॥
इति श्रीगणेशपुराणे उपासनाखण्डे महागणपतिप्रोक्त गणेशसहस्त्रनामस्तोत्रं सम्पूर्णम् ॥
ये भी पढ़ें:-
[ श्री गणपति स्तव ] [ गणेश कवच ] [ गणेशाष्टकम् ] [ सङ्कष्टनाशनं गणेश स्तोत्र ] [ गणेश अष्टकं ]
[ श्री गणेश अष्टकम ] [ संकट हरण अष्टकम गणेश स्तोत्र ] [ गजानन स्तोत्र शङ्करादिकृत ]
[ देवर्षि कृतं - गजानन स्तोत्र ] [ गजानन स्तोत्र ] [ श्री विनायक विनति ] [ गणपति स्तोत्र ]
[ गणेश मानस पूजा ] [ श्री गणेश बाह्य पूजा ] [ संकष्टनाशनं गणेशस्तोत्रं ] [ श्रीगणेशमहिम्नः स्तोत्रम् ]
[ गणेश अष्टोत्तर शतनाम स्तोत्रम् ] [ गणेश सहस्रनाम स्तोत्र ] [ एकदंत गणेश स्तोत्र ]
[ महा गणपति स्तोत्रम् ] [ गणेश स्तवराज ] [ ढुंढिराजभुजंगप्रयात स्तोत्रम् ]
टिप्पणियाँ