गणेश कवच ! Ganesh Kavach
- मनुष्य चिरंजीवी, बुद्धिवान, और धनवान हो जाता है !
- गणेश कवचधारी पुरुष को कोई रोग नहीं होता.
- मानसिक और शारीरिक रोग, शोक स्पर्श नहीं कर पाते.
- सभी व्यवधान दूर हो जाते हैं.
- सभी कामों की रूकावट दूर होती है.
- मृत्यु पर भी विजय प्राप्त करने में सक्षम हो जाता है
गणेश कवच ! Ganesh Kavach |
गणेश कवच ! Ganesh Kavach
गौर्युवाच
एषोऽतिचपलो दैत्यान् बाल्येऽपि नाशयत्यहो ।
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ! ॥१॥
दैत्या नाना-विधा दुष्टाः साधुदेवद्रुहः खलाः ।
अतोऽस्य कण्ठे किञ्चित्त्वं रक्षार्थं बद्धमर्हसि ॥२॥
मुनिरुवाच
ध्यायेत् सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे
त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् ।
द्वापरे तु गजाननं युग-भुजं रक्ताङ्गरागं विभुं
तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ॥३॥
विनायकं शिखां पातु परमात्मा परात्परः ।
अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः ॥४॥
ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः ।
नयने भालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौः ॥५।
जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः ।
वाचं विनायकः पातु दन्तान् रक्षतु विघ्नहा ॥६॥
श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः ।
गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः ॥७॥
स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः ।
हृदयं गणनाथस्तु हेरम्बो जठरं महान् ॥८॥
धराधरः पातु पाश्वौँ पृष्ठं विघ्नहरः शुभः ।
लिङ्ग गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥९॥
गणक्रीडो जानु-जङ्गे ऊरू मङ्गलमूर्तिमान् ।
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु ॥१०॥
क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः ।
अङ्गुलीश्च नखान् पातु पद्महस्तोऽरिनाशनः ॥११॥
सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु ।
अनुक्तमपि यत् स्थानं धूम्रकेतुः सदाऽवतु ॥१२॥
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु ।
प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः ॥१३॥
दक्षिणस्यामुमापुत्रो नैर्ऋत्यां तु गणेश्वरः ।
प्रतीच्यां विघ्नहर्ताऽव्याद् वायव्यां गजकर्णकः ॥१४॥
कौबेर्यो निधिपः पायादीशान्यामीशनन्दनः ।
दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् ॥१५॥
राक्षसा-ऽसुर-वेताल-ग्रह-भूत-पिशाचतः !
पाशाङ्कुशधरः पातु रजः सत्त्व-तमः-स्मृतिः ॥१६॥
ज्ञानं धर्म च लक्ष्मीं च लज्जां कीर्ति तथा कुलम् ।
वपुर्धनं च धान्यं च गृह-दाराः सुतान् सखीन् ॥१७॥
सर्वायुधधरः पौत्रान् मयूरेशोऽवतात् सदा।
कपिलोऽजाविकं पातु गजाश्वाद् विकटोऽवतु ॥१८॥
भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत् सुधीः ।
न भयं जायते तस्य यक्ष-रक्षः पिशाचतः ॥१९॥
त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् ।
यात्राकाले पठेद् यस्तु निर्विघ्नेन फलं लभेत् ॥२०॥
युद्धकाले पठेद् यस्तु विजयं चाप्नुयाद् ध्रुवम् ।
मारणोच्चाटना ऽऽकर्ष स्तम्भ-मोहन-कर्मणि ॥२१॥
सप्तवारं जपेदेतद् दिनानामेकविंशतिम् ।
तत्तत्फलमवाप्नोति साधको नाऽत्र संशयः ॥२२॥
एकविंशतिवारं च पठेत् तावद्-दिनानि यः ।
कारागृहगतं सद्यो राज्ञा वध्यं च मोचयेत् ॥२३॥
राजदर्शनवेलायां पठेदेतत् त्रिवारतः ।
स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥२४॥
इदं गणेशकवचं कश्यपेन समीरितम् ।
मुद्गलाय च तेनाथ माण्डव्याय महर्षये ॥२५॥
मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् ।
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥२६॥
अनेनाऽस्य कृता रक्षा न बाधाऽस्य भवेत् क्वचित् ।
राक्षसा ऽसुर वेताल दैत्य दानवसम्भवाः ॥२७॥
इति श्रीगणेशपुराणे उत्तरखण्डे गणेशकवचं सम्पूर्णम् ॥
ये भी पढ़ें:-
[ श्री गणपति स्तव ] [ गणेश कवच ] [ गणेशाष्टकम् ] [ सङ्कष्टनाशनं गणेश स्तोत्र ] [ गणेश अष्टकं ]
[ श्री गणेश अष्टकम ] [ संकट हरण अष्टकम गणेश स्तोत्र ] [ गजानन स्तोत्र शङ्करादिकृत ]
[ देवर्षि कृतं - गजानन स्तोत्र ] [ गजानन स्तोत्र ] [ श्री विनायक विनति ] [ गणपति स्तोत्र ]
[ गणेश मानस पूजा ] [ श्री गणेश बाह्य पूजा ] [ संकष्टनाशनं गणेशस्तोत्रं ] [ श्रीगणेशमहिम्नः स्तोत्रम् ]
[ गणेश अष्टोत्तर शतनाम स्तोत्रम् ] [ गणेश सहस्रनाम स्तोत्र ] [ एकदंत गणेश स्तोत्र ]
[ महा गणपति स्तोत्रम् ] [ गणेश स्तवराज ] [ ढुंढिराजभुजंगप्रयात स्तोत्रम् ]
- स्नान करके शुद्ध वस्त्र पहनें.
- आसन पर बैठकर भगवान गणेश की मूर्ति के सामने दीपक जलाएं.
- धूप और अगरबत्ती जलाएं.
- भगवान गणेश का ध्यान करें और उन्हें प्रसाद चढ़ाएं.
- शांत मन से गणेश कवच का पाठ करें.
- पाठ खत्म करने के बाद भगवान गणेश से प्रार्थना करें.
गणेश जी के कुछ और मंत्रों का जाप करने के लिए ये नियम अपनाएं:-
- ॐ एकदन्ताय विहे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात्
- बुधवार के दिन 21 बार 'ॐ गं गणपतये नमः' का जाप करें
- श्री गणेश चालीसा का पाठ साफ़-सुथरे और धुले वस्त्रों में ही करें
- चालीसा जाप के समय प्रसाद के रूप में बूंदी के लड्डू और मोदक ही चढ़ाएं
- पाठ करते समय हमेशा पूर्व या उत्तर दिशा की ओर मुख रखें
- पाठ के समय गणपति की मूर्ति पर दूर्वा चढ़ाना ना भूलें
- श्री गणेश चालीसा का जाप शुरू करने से पहले गणेश जी के समक्ष घी का दीया जलाना ना भूलें !
टिप्पणियाँ